देहस्थं दुर्दमं शत्रुमसंतुष्टं सदावशम् । इत्थंवादिनि प्रच्छन्ने वासवे पद्मसद्मनि 6.127.
आखंडलं विना भीरु देवलोको न शोभते । ततो देवाः सगंधर्वा लोकपालाः सकिन्नराः
शच्या सह समागम्य पप्रच्छुस्ते बृहस्पतिम् । भगवन्बलभिद्देवं नैव जानीमहे वयम्
क्व तिष्ठति गतः कुत्र कुत्र वा मृगयामहे । न नाकः शोभते तेन विना देवगणैः सह
सुपुत्रेण विना यद्वत्कुलं श्रीमद्गुणान्वितम् । उपायश्चिंत्यतां सद्यः स्वर्लोके येन शोभते
सनाथः सुश्रियायुक्तो न विलंबोऽत्र युज्यते । इति तेषां वचः श्रुत्वा गुरुर्वचनमब्रवीत्
जानेऽहं स्वापराधेन लज्जया यत्र तिष्ठति । रभसा लब्धकार्यस्य भुंक्ते स मघवा फलम्
नृणां नीतिपरित्यागाद्विपाकाः स्युर्भयंकराः । अहो राज्यमदैर्मत्तः कृत्याकृत्यमचिंतयन्
कृतवान्निंद्यमानं हि दृष्टादृष्टक्षयंकरम् । कुर्वंति बालिशा यत्र दैवोपहतबुद्धयः
अपराधाद्यथाजन्म स्यादिहामुत्र निष्फलम् । अधुना तत्र गच्छामो यत्र शक्रः स तिष्ठति
इत्युक्त्वा निर्गताः सर्वे बृहस्पतिपुरोगमाः । दृष्ट्वा सरसि विस्तीर्णे स्वर्णपंकजकाननम्
तुष्टुवुर्देवराजानं प्रबोधो येन जायते । ततो गुरोः प्रबोधेन निर्गतः पद्मकुड्मलात्
दीनाननो विरूपस्तु व्रीडाकुंचितलोचनः । जग्राह चरणाविंद्रो गुरोस्तस्याग्रजन्मनः
त्राहि मां निष्कृतिं ब्रूहि पापस्यास्य बृहस्पते । देवराजवचः श्रुत्वा जगौ विप्रो बृहस्पतिः
शृणु देवेंद्र वक्ष्येऽहमुपायं पापनाशनम् । प्रयागस्नानमात्रेण तत्क्षणादेव पातकात्
मुच्यसे देवराजत्वं तत्र यामः सहैव ते । अथ पुरोधसा सार्धमागत्य बलमर्दनः
सस्नौ सितासिते तीर्थे सद्यो मुक्तो ह्यघैस्ततः । अथ देवगुरुस्तस्मै प्रसन्नस्तु वरं ददौ
प्रयागस्नानमात्रेण क्षीणं पापं त्वयानघ । क्षीणपापस्य ते शक्र मत्प्रसादेन सत्वरम्
सहस्रमेतद्योनीनां सहस्रं स्याद्दृशां तव । तदैव द्विजवाक्येन शुशुभे च शचीपतिः
लोचनानां सहस्रेण पंकजैरिव मानसम् । अथ वृंदारकैः सर्वैरृषिभिश्चाभिपूजितः
गंधर्वैः स्तूयमानस्तु गतः शक्रोऽमरावतीम् । इत्थं सद्यो विपापोऽभूत्प्रयागे पाकशासनः
याहि त्वमपि कल्याणि प्रयागं देवसेवितम् । सद्यः पापविनाशाय तथा स्वर्गतये दृढम्
इति तस्य वचः श्रुत्वा सेतिहासं समंगलम् । तदैव संभ्रमापन्ना नत्वा पादौ द्विजस्य तु
त्यक्त्वा बंधुजनं सर्वं दासदासीगृहं तथा । सकलान्विषयान्रक्षो विषग्रासानिव स्फुटम्
वपुश्च क्षणविध्वंसि पश्यंती निर्गता ह्यहम् । नरकार्णवसंपात दारुणांतर वह्निना
हृदये कुणपव्याघ्र तदा तत्तप्यमानया । मया गत्वा कृतं स्नानं माघे मासि सितासिते
तस्य स्नानस्य माहात्म्यं शृणु वृद्धनिशाचर । त्र्यहात्पापक्षयो जातः सप्तविंशतिभिर्दिनैः
शेषैर्मे यदभूत्पुण्यं तेन देवत्वमागता । रममाणा तु कैलासे गिरिजायाः प्रिया सखी
जातिस्मरा तथा जाता प्रयागस्य प्रभावतः । स्मृत्वा प्रयागमाहात्म्यं माघे माघे व्रजाम्यहम्
इति राक्षस यत्पृष्टं त्वया विस्मितचेतसा । तन्मया कथितं सर्वं चरितं प्रीतये तव