गीयमानं गीतगैश्च सुस्वरैः सप्तकैस्तथा । वीज्यमानं सुगंधैश्च व्यजनैः सर्व एव सः
योषिद्भी रूपयुक्ताभिश्चामरैर्हंसगामिभिः । छत्रेण हंसवर्णेन चंद्रबिंबानुकारिणा
राजमानं सहस्राक्षं सर्वाभरणभूषितम् । कामक्रीडागतं देवं दृष्टवानमितौजसम्
तस्य पार्श्वे महाभागां पौलोमीं चारुमंगलाम् । रूपेण तेजसा चैव तपसा च यशस्विनीम्
सौभाग्येन विराजंतीं पातिव्रत्येन तां सतीम् । तया सह सहस्राक्षः स रेमे नंदने वने
तस्य लीलां समालोक्य अंगश्चैव द्विजोत्तमः । धन्यो वै देवराजोऽयमीदृशैः परिवारितः
अहोऽस्य तपसो वीर्यं येन प्राप्तं महत्पदम् । यदा ममेदृशः पुत्रः सर्वलोकप्रधारकः
भवेत्तदा महत्सौख्यं प्राप्स्यामीह न संशयः । इति चिंतापरो भूत्वा त्वरमाणो गृहागतः
सूत उवाच- अथ त्वंगो महातेजा दृष्ट्वा इंद्रस्य संपदम् । भोगं चैव विलासं च लीलां तस्य महात्मनः
कथं मे इंद्र सदृशः पुत्रः स्याद्धर्मसंयुतः । चिंतयित्वा क्षणं चैव अंगो धर्मभृतां वरः
स्वकं गेहं समायातः स त्वंगः सत्यतत्परः । अत्रिं पप्रच्छ पितरं प्रणतो नम्रकंधरः
कोऽयं पुण्यः समाचारैरिंद्रत्वं भुंजते महत् । कस्य पुण्यस्य वै पुष्टिः किं कृतं कर्म कीदृशम्
कीदृशं तप एतस्य कमाराधितवान्पुरा । एतन्मे विस्तरेण त्वं ब्रूहि सत्यवतां वर
अत्रिरुवाच- साधुसाधु महाभाग यद्येवं पृच्छसे मयि । चरित्रमिंद्रस्य वत्स तन्मे निगदतः शृणु
सुव्रतो नाम मेधावी पुरा ब्राह्मणसत्तमः । तेन कृष्णो हृषीकेशस्तपसा चैव तोषितः
पुण्यगर्भं पुनः प्राप्तो ह्यदित्याः कश्यपात्किल । विष्णोश्चैव प्रसादेन सुरराजो बभूव ह
अंग उवाच- कथमिंद्रसमः पुत्रो मम स्यात्पुत्रवत्सल । तदुपायं समाचक्ष्व भवाञ्ज्ञानवतां वरः
अत्रिरुवाच- समासेनैव तस्यैव सुव्रतस्य महात्मनः । चरित्रमखिलं पुण्यं निशामय महामते
यथा सुव्रत मेधावी पुराराधितवान्हरिम् । तस्य भावं च भक्तिं च ध्यानं चैव महात्मनः
समालोक्य जगन्नाथो दत्तवान्वै महत्पदम् । स ऐंद्रं सर्वभोगाढ्यं त्रैलोक्यं सचराचरम्
विष्णोश्चैव प्रसादाच्च पदं भुंक्ते त्रिलोकधृक् । एवं ते सर्वमाख्यातमिंद्रस्यापि विचेष्टितम्
भक्त्या तुष्यति गोविंदो भावध्यानेन सत्तम । सर्वं ददाति तुष्टात्मा भक्त्या संतोषितो हरिः
तस्मादाराध्य गोविंदं सर्वदं सर्वसंभवम् । सर्वज्ञं सर्ववेत्तारं सर्वेषां पुरुषं वरम्
तस्मात्प्राप्स्यसि सर्वं त्वं यद्यदिच्छसि नंदन
सुखस्य दाता परमार्थदाता मोक्षस्य दाता जगतां हि नाथः । तस्मात्तमाराधय गच्छ पुत्र संप्राप्स्यसे इंद्रसमं हि पुत्रम्
आकर्ण्य वाक्यं परमार्थयुक्तमुक्तं महात्मा ऋषिणा हि तेन । संगृह्य तत्त्वं वचनस्य तस्य प्रणम्य तं शाश्वतमभ्ययात्सः
आमंत्र्य चांगः पितरं महात्मा ब्रह्मात्मजं ब्रह्मसमानमेव । संप्राप्तवान्मेरुगिरेस्तु शृंगं तं कांचनै रत्नमयैः समेतम्
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे। वेनोपाख्याने एकत्रिंशोऽध्यायः
सूत उवाच- नानारत्नैः सुदीप्तांगो हाटकेनापि सर्वतः । राजमानो गिरिश्रेष्ठो यथा सूर्यः स्वरश्मिभिः
छायामशोकां संप्राप्य शीतलां सुखदायिनीम् । ध्यायंति योगिनः सर्वे उपविष्टा दृढासने