दानभोगादिभिश्चैव योजयेच्च कृतात्मकान् । पीडाभिर्विविधाभिश्च क्लेशैः काष्ठैश्च दारुणैः
त्रासयेत्ताडयेद्विप्रान्स क्रोधो मृत्युरेव तान् । कर्मण्येवं हि तस्यापि व्यापारः परिवर्तते
मृत्योश्चापि महाभाग लोभात्पुण्यात्प्रजायते । सुनीथा नाम वै कन्या संजातैषा महात्मनः
पितुःकर्म विमृश्यैव क्रीडमाना सदैव सा । प्रजानां शास्ति कर्तारं पुण्यपापनिरीक्षणम्
सा तु कन्या महाभागा सुनीथा नाम तस्य सा । रममाणा वनं प्राप्ता सखीभिः परिवारिता
तत्रापश्यन्महाभागं गंधर्वतनयं वरम् । गीतकोलाहलस्यापि सुशंखं नाम सा तदा
ददर्श चारुसर्वांगं तप्यंतं सुमहत्तपः । गीतविद्यासु सिद्ध्यर्थं ध्यायमानं सरस्वतीम्
तस्योपघातमेवासौ सा चकार दिने दिने । सुशंखः क्षमते नित्यं गच्छगच्छेति सोऽब्रवीत्
प्रेषिता नैव गच्छेत्सा विघ्नमेव समाचरेत् । तेनाप्युक्ता सा हि क्रुद्धा ताडयत्तपसि स्थितम्
तामुवाच ततः क्रुद्धः सुशंखः क्रोधमूर्च्छितः । दुष्टे पापसमाचारे कस्माद्विघ्नस्त्वया कृतः
ताडनात्ताडनं दुष्टे न कुर्वंति महाजनाः । आक्रुष्टा नैव कुप्यंति इति धर्मस्य संस्थितिः
त्वयाहं घातितः पापे निर्दोषस्तपसान्वितः । एवमुक्त्वा स धर्मात्मा सुनीथां पापचारिणीम्
विरराम महाक्रोधाज्ज्ञात्वा नारीं निवर्तितः । ततः सा पापमोहाद्वा बाल्याद्वा तमिहैव च
समुवाच महात्मानं सुशंखं तपसि स्थितम् । त्रैलोक्यवासिनां तातो ममैव परिघातकः
असतो घातयेन्नित्यं सत्यान्स परिपालयेत् । नैव दोषो भवेत्तस्य महापुण्येन वर्तयेत्
एवमुक्त्वा गता सा तु पितरं वाक्यमब्रवीत् । मया हि ताडितस्तात गंधर्वतनयो वने
तपस्तपन्सदैकांते कामक्रोधविवर्जितः । स मामुवाच धर्मात्मा क्रोधरागसमन्वितः
ताडयेन्नैव ताडंतं क्रोशंतं नैव क्रोशयेत् । इत्युवाच स मां तात तन्मे त्वं कारणं वद
एवमुक्तः स वै मृत्युः सुनीथां द्विजसत्तमाः । किंचिन्नोवाच धर्मात्मा प्रश्नप्रत्युत्तरं ततः
वनं प्राप्ता पुनः सा हि सुशंखो यत्र संस्थितः । कराघातैस्ततो दौष्ट्याद्घातितस्तपतां वरः
सुशंखस्ताडितो विप्रा मृत्योश्चैव हि कन्यया । ततः क्रुद्धो महातेजाः शशाप तनुमध्यमाम्
निर्दोषो हि यतो दुष्टे त्वयैव परिताडितः । अहमत्र वने संस्थस्तस्माच्छापं ददाम्यहम्
गार्हस्थ्यं च समास्थाय सह भर्त्रा यदा शृणु । पापाचारमयः पुत्रो देवब्राह्मणनिंदकः
सर्वपापरतो दुष्टे तव गर्भे भविष्यति । एवं शप्त्वा गतः सोपि तप एव समाश्रितः
गते तस्मिन्महाभागे सा सुनीथा गृहं गता । समाचष्ट महात्मानं पितरं तप्तमानसा
यथा शप्ता तदा तेन गंधर्वतनयेन सा । तत्सर्वं संश्रुतं तेन मृत्युना परिभाषितम्
कस्मात्कृतस्त्वयाघातस्तपति दोषवर्जिते । युक्तं नैव कृतं पुत्रि सत्यस्यैव हि ताडनम्
एवमाभाष्य धर्मात्मा मृत्युः परमदुःखितः । बभूव स हि तत्तस्यादिष्टमेवं विचिंतयन्
सूत उवाच- अत्रिपुत्रो महातेजा अंगो नाम प्रतापवान् । एकदा तु गतो विप्रा नंदनं प्रति स द्विजः
तत्र दृष्ट्वा देवराजं तमिंद्रं पाकशासनम् । अप्सरसां गणैर्युक्तं गंधर्वैः किन्नरैस्तथा