तेनेयं मेदिनी नाम प्रोच्यते ब्रह्मवादिभिः । ततोभ्युपगमात्प्राज्ञ पृथोर्वैन्यस्य सत्तमाः
दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते । तेन राज्ञा द्विजश्रेष्ठाः पालितेयं वसुंधरा
ग्रामाधारं गृहाणां च पुरपत्तनमालिनी । सस्याकरवती स्फीता सर्वतीर्थमयी द्विजाः
एवं वसुमती देवी सर्वलोकमयी सदा । एवं प्रभावो राजेंद्रः पुराणे परिपठ्यते
पृथुर्वैन्यो महाभागः सर्वकर्मप्रकाशकः । यथा विष्णुर्यथा ब्रह्मा यथा रुद्रः सनातनः
नमस्कार्यास्त्रयो देवा देवाद्यैर्ब्रह्मवादिभिः । ब्राह्मणैर्ऋषिभिः सर्वैर्नमस्कार्यो नृपोत्तमः
वर्णानामाश्रमाणां यः स्थापकः सर्वलोकधृक् । पार्थिवैश्च महाभागैः पार्थिवत्वमिहेप्सुभिः
आदिराजो नमस्कार्यः पृथुर्वैन्यः प्रतापवान् । धनुर्वेदार्थिभिर्योधैः सदैव जयकांक्षिभिः
नमस्कार्यो महाराजो वृत्तिदाता महीभृताम् । एवं पात्रविशेषाश्च मया ख्याता द्विजोत्तमाः
वत्सानां सुविशेषाश्च दोग्धॄणां भवदग्रतः । क्षीरस्यापि विशेषं तु यथोद्दिष्टं हि भूभुजा
समाख्यातं तथाग्रे च भवतां वै यथार्थतः । धन्यं यशस्यमारोग्यं पुण्यं पापप्रणाशनम्
पृथोर्वैन्यस्य चरितं यः शृणोति द्विजोत्तमाः । तस्य भागीरथी स्नानमहन्यहनि जायते
सर्वपापविशुद्धात्मा विष्णुलोकं प्रयाति सः
ऋषय ऊचुः- योऽसौ वेनस्त्वयाख्यातः पापाचारेण वर्तितः । तस्य पापस्य का वृत्तिः किं फलं प्राप्तवान्द्विज
चरित्रं तस्य वेनस्य समाख्याहि यथा पुरा । विस्तरेण विदां श्रेष्ठ त्वं न एतन्महामते
सूत उवाच- चरित्रं तस्य वेनस्य वैन्यस्यापि महात्मनः । प्रवक्ष्यामि सुपुण्यं च यथान्यायं श्रुतं पुरा
जाते पुत्रे महाभागस्तस्मिन्पृथौ महात्मनि । विमलत्वं गतो राजा धर्मत्वं गतवान्पुनः
महापापानि सर्वाणि अर्जितानि नराधमैः । तीर्थसंगप्रसंगेन तेषां पापं प्रयाति च
सतां संगात्प्रजायेत पुण्यमेव न संशयः । पापानां तु प्रसंगेन पापमेव प्रजायते
संभाषाद्दर्शनात्स्पर्शादासनाद्भोजनात्किल । पापिनां संगमाच्चैव किल्बिषं परिसंचरेत्
तथा पुण्यात्मकानां च पुण्यमेव प्रसंचरेत् । महातीर्थप्रसंगेन पापाः शुध्यंति नान्यथा
पुण्यां गतिं प्रयान्त्येते निर्द्धूताशेष कल्मषाः । ऋषय ऊचुः- तत्कथं यांति ते पापाः परां सिद्धिं द्विजोत्तम
तन्नो विस्तरतो ब्रूहि श्रोतुं श्रद्धा प्रवर्तते
सूत उवाच- लुब्धकाश्च महापापाः संजाता दासधीवराः । रेवा च यमुना गंगास्तासामंभसि संस्थिताः
ज्ञानतोऽज्ञानतः स्नात्वा संक्रीडंति च वै जले । महानद्याः प्रसंगेन ते यांति परमां गतिम्
दासत्वं पापसंघातं परित्यज्य व्रजंति ते । पुण्यतोयप्रसंगाच्च ह्याप्लुताः सर्व एव ते
महानद्याः प्रसंगाच्च अन्यासां नैव सत्तमाः । महापुण्यजनस्यापि पापं नश्यति पापिनाम्
प्रसंगाद्दर्शनात्स्पर्शान्नात्र कार्या विचारणा । अत्रार्थे श्रूयते विप्रा इतिहासोऽघनाशनः
तं वो अद्य प्रवक्ष्यामि बहुपुण्यप्रदायकम् । कश्चिदस्ति मृगव्याधः सुलोभाख्यो महावने
श्वभिर्वागुरिजालैश्च धनुर्बाणैस्तथैव च । मृगान्घातयते नित्यं पिशितास्वादलंपटः