अष्टबाहुर्महातेजा द्विशीर्षः सुमहातपाः । यक्षावर्तंत तेनापि सर्वदैव द्विजोत्तमाः
पुनर्दुग्धा इयं पृथ्वी राक्षसैश्च महाबलैः । तथा चैषा पिशाचैश्च सातुरैर्दग्धवारिभिः
उत्प्लुतं नृकपालं तं शावपात्रमयः कृतम् । सुप्रजां भोक्तुकामास्ते तीव्रकोपपराक्रमाः
दोग्धा रजतनाभस्तु तेषामासीन्महाबलः । सुमाली नाम वत्सश्च शोणितं क्षीरमेव च
रक्षांसि यातुधानाश्च पिशाचाश्च महाबलाः । यक्षास्तेन च जीवंति भूतसङ्घाश्च दारुणाः
गंधर्वैरप्सरोभिश्च पुनर्दुग्धा वसुंधरा । कृत्वा वत्सं सुविद्वांसं तैश्च चित्ररथं पुनः
दुदुहुः पद्मपात्रे तु गांधर्वं गीतसंकुलम् । सुरुचिर्नाम गंधर्वस्तेषामासीन्महामतिः
दोग्धा पुण्यतमश्चैव तस्याश्च द्विजसत्तमाः । शुचिगीतं महात्मानः सुक्षीरं दुदुहुस्तदा
गंधर्वास्तेन जीवंति अन्याश्चाप्सरसस्तथा । पर्वतैश्च महापुण्यैर्दुग्धा चेयं वसुंधरा
रत्नानि विविधान्येव ओषधीश्चामृतोपमाः । वत्सश्चैव महाभागो हिमवान्परिकल्पितः
मेरुर्दोग्धा च संजातः पात्रं कृत्वा तु शैलजम् । तेन क्षीरेण संवृद्धाः शैलाः सर्वे महौजसः
पुनर्दुग्धा महावृक्षैः पुण्यैः कल्पद्रुमादिभिः । पालाशं पात्रामानिन्युश्छिन्नदग्धप्ररोहणम्
शालो दुदोह पुष्पांगः प्लक्षो वत्सोऽभवत्तदा । गुह्यकैश्चारणैः सिद्धैर्विद्याधरगणैस्तदा
दुग्धा चेयं सर्वधात्री सर्वकामप्रदायिनी । यं यमिच्छंति ये लोकाः पात्रवत्सविशेषणैः
तैस्तैस्तेषां ददात्येव क्षीरं सद्भावमीदृशम् । इयं धात्री विधात्री तु इयं श्रेष्ठा वसुंधरा
सर्वकामदुघा धेनुरियं पुण्यैरलंकृता । इयं ज्येष्ठा प्रतिष्ठा तु इयं सृष्टिरियं प्रजा
पावनी पुण्यदा पुण्या सर्वसस्य प्ररोहिणी । चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च
महालक्ष्मीरियं विद्या सर्वविश्वमयी सदा । सर्वकामदुघा दोग्ध्री सर्वबीजप्ररोहिणी
सर्वेषां श्रेयसां माता सर्वलोकधरा इयम् । पंचानामपि भूतानां प्रकाशो रूपमेव च
असीदियं समुद्रांता मेदिनीति परिश्रुता । मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता
तेनेयं मेदिनी नाम प्रोच्यते ब्रह्मवादिभिः । ततोभ्युपगमात्प्राज्ञ पृथोर्वैन्यस्य सत्तमाः
दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते । तेन राज्ञा द्विजश्रेष्ठाः पालितेयं वसुंधरा
ग्रामाधारं गृहाणां च पुरपत्तनमालिनी । सस्याकरवती स्फीता सर्वतीर्थमयी द्विजाः
एवं वसुमती देवी सर्वलोकमयी सदा । एवं प्रभावो राजेंद्रः पुराणे परिपठ्यते
पृथुर्वैन्यो महाभागः सर्वकर्मप्रकाशकः । यथा विष्णुर्यथा ब्रह्मा यथा रुद्रः सनातनः
नमस्कार्यास्त्रयो देवा देवाद्यैर्ब्रह्मवादिभिः । ब्राह्मणैर्ऋषिभिः सर्वैर्नमस्कार्यो नृपोत्तमः
वर्णानामाश्रमाणां यः स्थापकः सर्वलोकधृक् । पार्थिवैश्च महाभागैः पार्थिवत्वमिहेप्सुभिः
आदिराजो नमस्कार्यः पृथुर्वैन्यः प्रतापवान् । धनुर्वेदार्थिभिर्योधैः सदैव जयकांक्षिभिः
नमस्कार्यो महाराजो वृत्तिदाता महीभृताम् । एवं पात्रविशेषाश्च मया ख्याता द्विजोत्तमाः
वत्सानां सुविशेषाश्च दोग्धॄणां भवदग्रतः । क्षीरस्यापि विशेषं तु यथोद्दिष्टं हि भूभुजा