नाराधितो मया देवश्चतुर्वर्गफलप्रदः। न मया पूजिता देवी दुर्गा दुर्गतिनाशिनी । सर्वपापहरो विष्णुर्न स्मृतो भोगलुब्धया
न च संतर्पिता विप्रा न कृतं प्राणिनां हितम् । अणुमात्रमिदं पुण्यं न कृतं च प्रमादतः
पातकं तु कृतं भद्र तेन मे दह्यते मनः । बहुधैवं विलप्याहं ब्राह्मणं शरणं गता
ब्रह्मण्यं वेदविद्वांसं तस्य राज्ञः पुरोहितम् । स हि पृष्टो मया रक्षः कथं मे निष्कृतिर्भवेत्
पापस्यास्य द्विजश्रेष्ठ कथं यास्यामि सद्गतिम् । स्वेनैव कर्मणा तप्तां वराकीं दीनमानसाम्
पापपंकनिमग्नां त्वं मामुद्धर कचग्रहैः । मयि कारुण्यंजं वारि वर्षहर्षदृशा द्विज
सज्जने साधवः सर्वे साधुः साधुरसज्जने । इत्यसौ मद्वचः श्रुत्वा चकारानुग्रहं मयि
द्विज उवाच। निषिद्धाचरणं जाने सर्वं तेऽहं वरानने । कुरु मे सत्वरं वाक्यं याहि क्षेत्रं प्रजापते
तत्र गत्वा कुरु स्नानं तेन पापक्षयस्तव । सर्वं मनोगतं भद्रे त्वदीयं शोचितं मया
नाहमन्यत्प्रपश्यामि यत्ते पापप्रणाशनम् । प्रायश्चित्तं परं तीर्थे स्नानं च ऋषिभिः स्मृतम्
किंतु तीर्थे त्यजेद्भीरु मनसाप्यशुभं कृतम् । प्रयागस्नानशुद्धा त्वं स्वर्गं यास्यसि निश्चितम्
प्रयागस्नानमात्रेण नृणां स्वर्गो न संशयः । अन्यदेशकृतं पापं तत्क्षणादेव भामिनि
प्रयागे विलयं याति पापं तीर्थकृतं विना । शृणु भीरु पुरा शक्रो गौतमस्य मुनेर्वधूम्
दृष्ट्वा कामवशं प्राप्तस्तां गतो गुप्तकामुकः । उग्रेण तेन पापेन तदैव जनितं फलम्
ऋषिस्त्रीगंतुरिंद्रस्य तस्याश्च पुरतस्तदा । कुत्सितं गर्हितं जातमिति लज्जाकरं वपुः
तद्भर्तुः शापमाहात्म्यात्सहस्रभगचिह्नितम् । अधोमुखस्ततो भूत्वा देवराजो विनिर्गतः
निनिंद स्वकृतं कर्म सोऽभिभूतः सलज्जितः । मेरोः शिरसि तोयाढ्ये शतयोजनविस्तृते
तत्र गत्वा प्रविष्टस्तु हेमांभोरुहकोरके । तत्रस्थो गर्हयन्नित्यमात्मानं मन्मथं तथा
धिक्तां कामात्मतां लोके सद्यः पातकदायिनीम् । यया हि नरकं याति सर्वलोकविगर्हितः
आयुः कीर्तिर्यशोधर्म धैर्य ध्वंसकरी तथा । धिङ्मन्मथं दुराचारमापदां नियतं पदम्
देहस्थं दुर्दमं शत्रुमसंतुष्टं सदावशम् । इत्थंवादिनि प्रच्छन्ने वासवे पद्मसद्मनि 6.127.
आखंडलं विना भीरु देवलोको न शोभते । ततो देवाः सगंधर्वा लोकपालाः सकिन्नराः
शच्या सह समागम्य पप्रच्छुस्ते बृहस्पतिम् । भगवन्बलभिद्देवं नैव जानीमहे वयम्
क्व तिष्ठति गतः कुत्र कुत्र वा मृगयामहे । न नाकः शोभते तेन विना देवगणैः सह
सुपुत्रेण विना यद्वत्कुलं श्रीमद्गुणान्वितम् । उपायश्चिंत्यतां सद्यः स्वर्लोके येन शोभते
सनाथः सुश्रियायुक्तो न विलंबोऽत्र युज्यते । इति तेषां वचः श्रुत्वा गुरुर्वचनमब्रवीत्
जानेऽहं स्वापराधेन लज्जया यत्र तिष्ठति । रभसा लब्धकार्यस्य भुंक्ते स मघवा फलम्
नृणां नीतिपरित्यागाद्विपाकाः स्युर्भयंकराः । अहो राज्यमदैर्मत्तः कृत्याकृत्यमचिंतयन्
कृतवान्निंद्यमानं हि दृष्टादृष्टक्षयंकरम् । कुर्वंति बालिशा यत्र दैवोपहतबुद्धयः
अपराधाद्यथाजन्म स्यादिहामुत्र निष्फलम् । अधुना तत्र गच्छामो यत्र शक्रः स तिष्ठति