सूत उवाच-। धनुषोग्रेण ताञ्छैलान्नानारूपान्गुरूंस्तथा । उत्सारयंस्ततः सर्वां समरूपां चकार सः
तदाप्रभृति ते शैला वृद्धिमापुर्द्विजोत्तमाः । तस्या अंगात्स्वयं बाणान्स्वकीयान्नृपनंदनः
समुद्धृत्य ततो वैन्यः प्रीतेन मनसा तदा । गर्ताश्च कंदराश्चैव बाणाघातैः समीकृताः
एवं पृथ्वद्यंसमां सर्वां चकार पुण्यवर्द्धनः । समीकृत्य महाभागो वत्सं तस्या व्यकल्पयत्
मनुं स्वायंभुवं पूर्वं परिचिंत्य पुनः पुनः । अतीतेष्वथ सर्वेषु मन्वंतरेषु सत्तमाः
विषमत्वं गता भूमिः पंथा नासीच्च कुत्रचित् । समानि विषमाण्येवं स्वयमासन्द्विजोत्तमाः
पूर्वं मनोश्चाक्षुषस्य प्राप्ते चैवांतरे तदा । जाते पूर्वविसर्गे च विषमे च धरातले
ग्रामाणां च पुराणां च पत्तनानां तथैव च । देशानां क्षेत्रपन्नानां मर्यादा न हि दृश्यते
कृषिर्नैव न वाणिज्यं न गोरक्षा प्रवर्तते । नानृतं भाषते कश्चिन्न लोभो न च मत्सरः
नाभिमानं च वै पापं न करोति कदा किल । वैवस्वतस्य संप्राप्ते अंतरे द्विजसत्तम
वैन्यस्य संभवात्पूर्वं प्रजानामेव संभवः । इमाः प्रजा द्विजाः सर्वा निवासं समरोचयन्
क्वचिद्भूमौ गिरौ क्वापि नदीतीरेषु वै तदा । कुंजेषु सर्वतीर्थेषु सागरस्य तटेषु च
निवासं चक्रिरे सर्वाः प्रजाः पुण्येन वै तदा । तासामाहारः संजातः फलमूलमधुस्तथा
महता कृच्छ्रेण तासामाहारश्च द्विजोत्तमाः । पृथुर्वैन्यः समालोक्य प्रजानां कष्टमेव हि
स्वायंभुवो मनुर्वत्सः कल्पितस्तेन भूभुजा । स्वपाणिः कल्पितस्तेन पात्रमेवं महामते
स पृथुः पुरुषव्याघ्रो दुदोह वसुधां तदा । सर्वसस्यमयं क्षीरं ससर्वान्नं गुणान्वितम्
तेन पुण्येन चान्नेन सुधाकल्पेन ताः प्रजाः । तृप्तिं नयंति देवान्वै प्रजाः पितॄंस्तथापरान्
प्रसादात्तस्य वैन्यस्य सुखं जीवंति ताः प्रजाः । देवेभ्यश्च पितृभ्यश्च दत्वा चान्नं प्रजास्ततः
ब्राह्मणेभ्यो विशेषेणअतिथिभ्यस्तथैव च । पश्चाद्भुंजंति पुण्यास्ताः प्रजाः सर्वा द्विजोत्तमाः
यज्ञैश्चान्ये यजंत्येव तर्पयंति जनार्दनम् । तेन चान्नेन देवेशं तृप्तिं गच्छंति देवताः
पुनर्वर्षति पर्जन्यः प्रेषितो माधवेन च । तस्मात्पुण्या महौषध्यः संभवंति सुपुण्यदाः
सस्यजातानि सर्वाणि पृथुर्वैन्यः प्रजापतिः । तेनान्नेन प्रजाः सर्वा वर्तंतेऽद्यापि नित्यशः
ऋषिभिश्चैव मिलितैर्दुग्धा चेयं वसुंधरा । पुनर्विप्रैर्महाभाग्यैः सत्यवद्भिः सुरैस्तथा
सोमो वत्सस्वरूपोभूद्दोग्धा देवगुरुः स्वयम् । ऊर्जं क्षीरं पयः कल्पं येन जीवंति चामराः
तेषां सत्येन पुण्येन सर्वे जीवंति जंतवः । सत्यपुण्ये प्रवर्तंते ऋषिदुग्धा वसुंधरा
अथातः संप्रवक्ष्यामि यथा दुग्धा इयं धरा । पितृभिश्च पुरा वत्स विधिना येन वै तदा
सुपात्रं राजतं कृत्वा स्वधा क्षीरं सुधान्वितम् । परिकल्प्य यमं वत्सं दोग्धा चांतक एव सः
नागैः सर्पैस्ततो दुग्धा तक्षकं वत्समेव च । अलाबुपात्रमादाय विषं क्षीरं द्विजोत्तमाः
नागानां तु तथा दोग्धा धृतराष्ट्रः प्रतापवान् । सर्पा नागा द्विजश्रेष्ठास्तेन वर्तंति चातुलाः
नागा वर्तंति तेनापि ह्यत्युग्रेण द्विजोत्तमाः । विषेण घोररूपेण सर्पाश्चैव भयानकाः