तस्य पित्रा प्रजाः सर्वाः कदा नैवानुरंजिताः । तेनानुरंजिताः सर्वा मुमुदिरे सुखेन वै
अनुरागात्तस्य वीरस्य नाम राजेत्यजायत । प्रयातस्य सुवीरस्य समुद्रस्य द्विजोत्तम
आपस्तस्तंभिरे सर्वा भयात्तस्य महात्मनः । दुर्गं मार्गं विलोप्यैव सुमार्गं पर्वता ददुः
ध्वजभंगं न चक्रुस्ते गिरयः सर्व एव ते । अकृष्टपच्या पृथिवी सर्वत्र कामधेनवः
पर्जन्यः कामवर्षी च वेदयज्ञान्महोत्सवान् । कुर्वंति ब्राह्मणाः सर्वे क्षत्रियाश्च तथा परे
सर्वकामफला वृक्षास्तस्मिञ्छासति पार्थिवे । न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम्
सर्वे सुखेन जीवंति लोका धर्मपरायणाः । तस्मिञ्छासति दुर्धर्षे राजराजे महात्मनि
एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे । सूत सूत्यां समुत्पन्नः सौम्येहनि महात्मनि
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः । पृथोःस्तवार्थं तौ तत्र समाहूतौ महर्षिभिः
सूतस्य लक्षणं वक्ष्ये महापुण्यं द्विजोत्तमाः । शिखासूत्रेण संयुक्तो वेदाध्ययनतत्परः
सर्वशास्त्रार्थवेत्तासावग्निहोत्रमुपासते । दानाध्ययनसंपन्नो ब्रह्माचारपरायणः
देवानां ब्राह्मणानां च पूजनाभिरतः सदा । याचकस्तावकैः पुण्यैर्वेदमंत्रैर्यजेत्किल
ब्रह्माचारपरो नित्यं संबंधं ब्राह्मणैः सह । एवं स मागधो जज्ञे वेदाध्ययनवर्जितः
बंदिनश्चारणाः सर्वे ब्रह्माचारविवर्जिताः । ज्ञेयास्ते च महाभागाः स्तावकाः प्रभवंति ते
स्तवनार्थमुभौ सृष्टौ निपुणौ सूतमागधौ । तावूचुर्ऋषयः सर्वे स्तूयतामेष पार्थिवः
कर्मैतदनुरूपं च यादृशोयं नराधिपः । तावूचतुस्तदा सर्वांस्तानृषीन्बंदिमागधौ
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः । न चास्य विद्वो वै कर्म न तथा लक्षणं यशः
कर्मणा येन कुर्यावः स्तोत्रमस्य महात्मनः । जानीवस्तन्न विप्रेंद्रा अविज्ञातगुणस्य हि
भविष्यैस्तैर्गुणैः पुण्यैः स्तोतव्योयं नरोत्तमः । कृतवान्यानि कर्माणि पृथुरेव महायशाः
ऊचुस्ते मुनयः सर्वे गुणान्दिव्यान्महात्मनः । सत्यवाञ्ज्ञानसंपन्नो बुद्धिमान्ख्यातविक्रमः
सदा शूरो गुणग्राही पुण्यवांस्त्यागवान्गुणी । धार्मिकः सत्यवादी च यज्ञानां याजकोत्तमः
प्रियवाक्सत्यवादी च धान्यवान्धनवान्गुणी । गुणज्ञः सगुणग्राही धर्मज्ञः सत्यवत्सलः
सर्वगः सर्ववेत्ता च ब्रह्मण्यो वेदवित्सुधीः । प्रज्ञावान्सुस्वरश्चैव वेदवेदांगपारगः
धाता गोप्ता प्रजानां स विजयी समरांगणे । राजसूयादिकानां तु यज्ञानां राजसत्तमः
आहर्ता भूतले चैकः सर्वधर्मसमन्वितः । एते गुणा अस्य चांगे भविष्यंति महात्मनः
ऋषिभिस्तौ नियुक्तौ तु कुर्वाणौ सूतमागधौ । गुणैश्चैव भविष्यैश्च स्तोत्रं तस्य महात्मनः
तदा प्रभृति वै लोकास्तवैस्तुष्टा महामते । पुरतश्च भविष्यंति दातारः स्तावनैर्गुणैः
ततः प्रभृति लोकेस्मिन्स्तवेषु द्विजसत्तमाः । आशीर्वादाः प्रयुज्यंते तेषां द्रविणमुत्तमम्
सूताय मागधायैव बंदिने च महोदयम् । चारणाय ततः प्रादात्तैलंगं देशमुत्तमम्
पृथुः प्रसादाद्धर्मात्मा हैहयं देशमेव च । रेवातीरे पुरं कृत्वा स्वनाम्ना नृपनंदनः