विस्फुरंतं तदा वेनं बलाद्गृह्य ततो रुषा । वेनस्य तस्य सव्योरुं ममंथुर्जातमन्यवः
कृष्णांजनचयोपेतमतिह्रस्वं विलक्षणम् । दीर्घास्यं च विरूपाक्षं नीलकंचुकवर्चसम्
लंबोदरं व्यूढकर्णमतिभीतं दुरोदरम् । ददृशुस्ते महात्मानो निषीदेत्यब्रुवंस्ततः
तेषां तद्वचनं श्रुत्वा निषसाद भयातुरः । पर्वतेषु वनेष्वेव तस्य वंशः प्रतिष्ठितः
निषादाश्च किराताश्च भिल्लानाहलकास्तथा । भ्रमराश्च पुलिंदाश्च ये चान्ये म्लेच्छजातयः
पापाचारास्तु ते सर्वे तस्मादंगात्प्रजज्ञिरे । अथ ते ऋषयः सर्वे प्रसन्नमनसस्ततः
गतकल्मषमेवं तं जातं वेनं नृपोत्तमम् । ममंथुर्दक्षिणं पाणिं तस्यैव च महात्मनः
मथिते तस्य पाणौ तु संजातं स्वेदमेव हि । पुनर्ममंथुस्ते विप्रा दक्षिणं पाणिमेव च
सुकरात्पुरुषो जज्ञे द्वादशादित्यसन्निभः । तप्तकांचनवर्णांगो दिव्यमाल्यांबरावृतः
दिव्याभरणशोभांगो दिव्यगंधानुलेपनः । मुकुटेनार्कवर्णेन कुंडलाभ्यां विराजते
महाकायो महाबाहू रूपेणाप्रतिमो भुवि । खड्गबाणधरो धन्वी कवची च महाप्रभुः
सर्वलक्षणसंपन्नः सर्वालंकारभूषणः । तेजसा रूपभावेन सुवर्णैश्च महामतिः
दिवि इंद्रो यथा भाति भुवि वेनात्मजस्तथा । तस्मिञ्जाते महाभागे देवाश्च ऋषयोमलाः
उत्सवं चक्रिरे सर्वे वेनस्य तनयं प्रति । दीप्यमानः स्ववपुषा साक्षादग्निरिवोज्ज्वलः
आद्यमाजगवं नाम धनुर्गृह्य महावरम् । शरान्दिव्यांश्च रक्षार्थे कवचं च महाप्रभम्
जाते सति महाभागे पृथौ वीरे महात्मनि । संप्रह्रष्टानि भूतानि समस्तानि द्विजोत्तम
सर्वतीर्थानि तोयानि पुण्यानि विविधानि च । तस्याभिषेके विप्रेंद्राः सर्व एव प्रतस्थिरे
पितामहाद्या देवास्तु भूतानि विविधानि च । स्थावराणि चराण्येव अभ्यषिंचन्नराधिपम्
महावीरं प्रजापालं पृथुमेव द्विजोत्तम । पृथुर्वैन्यो राजराज्ये अभिगम्य चराचरैः
देवैर्विप्रैस्तथा सर्वैरभिषिक्तो महामनाः । राज्ञां समधिराज्ये वै पृथुर्वैन्यः प्रतापवान्
तस्य पित्रा प्रजाः सर्वाः कदा नैवानुरंजिताः । तेनानुरंजिताः सर्वा मुमुदिरे सुखेन वै
अनुरागात्तस्य वीरस्य नाम राजेत्यजायत । प्रयातस्य सुवीरस्य समुद्रस्य द्विजोत्तम
आपस्तस्तंभिरे सर्वा भयात्तस्य महात्मनः । दुर्गं मार्गं विलोप्यैव सुमार्गं पर्वता ददुः
ध्वजभंगं न चक्रुस्ते गिरयः सर्व एव ते । अकृष्टपच्या पृथिवी सर्वत्र कामधेनवः
पर्जन्यः कामवर्षी च वेदयज्ञान्महोत्सवान् । कुर्वंति ब्राह्मणाः सर्वे क्षत्रियाश्च तथा परे
सर्वकामफला वृक्षास्तस्मिञ्छासति पार्थिवे । न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम्
सर्वे सुखेन जीवंति लोका धर्मपरायणाः । तस्मिञ्छासति दुर्धर्षे राजराजे महात्मनि
एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे । सूत सूत्यां समुत्पन्नः सौम्येहनि महात्मनि
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः । पृथोःस्तवार्थं तौ तत्र समाहूतौ महर्षिभिः
सूतस्य लक्षणं वक्ष्ये महापुण्यं द्विजोत्तमाः । शिखासूत्रेण संयुक्तो वेदाध्ययनतत्परः