शुश्रूषध्वं महाभागा मामेवं द्विजसत्तमाः । अभक्ताय न वक्तव्यमश्रद्धाय शठाय च
सुमूर्खाय सुमोहाय कुशिष्याय तथैव च । श्रद्धाहीनाय कूटाय सर्वनाशाय मा द्विजाः
अन्यथा पठते यो हि निरयं च प्रयाति हि । भवंतो भावसंयुक्ताः सत्यधर्मपरायणाः
भवतामग्रतः सर्वं चरित्रं पापनाशनम् । संप्रवक्ष्याम्यशेषेण शृणुध्वं द्विजसत्तमाः
स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदैश्च संमितम् । रहस्यमृषिभिः प्रोक्तं प्रवक्ष्यामि द्विजोत्तमाः
यश्चैनं कीर्तयेन्नित्यं पृथोर्वैन्यस्य विस्तरम् । ब्राह्मणेभ्यो नमस्कृत्वा न स शोचेत्कृताकृतम्
सप्तजन्मार्जितं पापं श्रुतमात्रेण नश्यति । ब्राह्मणो वेदविद्वांश्च क्षत्रियो विजयी भवेत्
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् । एवं फलं समाप्नोति पठनाच्छ्रवणादपि
पृथोर्जन्मचरित्रं च पवित्रं पापनाशनम् । धर्मगोप्ता महाप्राज्ञो वेदशास्त्रार्थकोविदः
अत्रिवंशसमुत्पन्नः पूर्वमत्रिसमः प्रभुः । स्रष्टा सर्वस्य धर्मस्य अंगो नाम प्रजापतिः
य आसीत्तस्य पुत्रो वै वेनो नाम प्रजापतिः । धर्ममेवं परित्यज्य सर्वदैव प्रवर्तते
मृत्योः कन्या महाभागा सुनीथा नाम नामतः । तां तु अंगो महाभागः सुनीथामुपयेमिवान्
तस्यामुत्पादयामास वेनं धर्मप्रणाशनम् । मातामहस्य दोषेण वेनः कालात्मजात्मजः
निजधर्मं परित्यज्य अधर्मनिरतोभवत् । कामाल्लोभान्महामोहात्पापमेव समाचरत्
वेदाचारमयं धर्मं परित्यज्य नराधिपः । अन्ववर्तत पापेन मदमत्सरमोहितः
वेदाध्यायं विना लोके प्रावर्तंत तदा जनाः । निःस्वाध्यायवषट्काराः प्रजास्तस्मिन्प्रजापतौ
प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः । इत्युवाच स दुष्टात्मा ब्राह्मणान्प्रति नित्यशः
नाध्येतव्यं न होतव्यं न देयं दानमेव च । न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः
आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते । अहमिज्यश्च यष्टा च यज्ञश्चेति पुनः पुनः
मयि यज्ञा विधातव्या मयि होतव्यमित्यपि । इत्यब्रवीत्सदा वेनो ह्यहं विष्णुः सनातनः
अहं ब्रह्मा अहं रुद्रो मित्र इंद्रः सदागतिः । अहमेव प्रभोक्ता च हव्यं कव्यं न संशयः
अथ ते मुनयः क्रुद्धा वेनं प्रति महाबलाः । ऊचुस्ते संगताः सर्वे राजानं पापचेतनम्
ऋषय ऊचुः- राजा हि पृथिवीनाथः प्रजां पालयते सदा । धर्ममूर्तिः स राजेंद्र तस्माद्धर्मं हि रक्षयेत्
वयं दीक्षां प्रवेक्ष्यामो यज्ञे द्वादशवार्षिकीम् । अधर्मं कुरु मा यागे नैष धर्मः सतां गतिः
कुरु धर्मं महाराज सत्यं पुण्यं समाचर । प्रजाहं पालयिष्यामि इति ते समयः कृतः
तांस्तथाब्रुवतः सर्वान्महर्षीनब्रवीत्तदा । वेनः प्रहस्य दुर्बुद्धिरिममर्थमनर्थकम्
वेन उवाच- स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया । श्रुतवीर्यतपः सत्ये मया वा कः समो भुवि
प्रभवं सर्वभूतानां धर्माणां च विशेषतः । संमूढा न विदुर्नूनं भवंतो मां विचेतसः
इच्छन्दहेयं पृथिवीं प्लावयेयं जलैस्तथा । द्यां भुवं चैव रुंधेयं नात्र कार्या विचारणा
यदा न शक्यते मोहादवलेपाच्च पार्थिव । अपनेतुं तदा वेनं ततः क्रुद्धा महर्षयः