तमिंद्रं सा न जानाति आगतं दुष्टकारिणम् । धर्मपुत्रं विजानाति शुश्रूषंतं दिने दिने
अंगं संवाहयेद्देव्याः पादौ प्रक्षालयेत्ततः । पत्रं मूलं फलं तत्र वल्कलाजिनमेव च
ददात्येवं स धर्मात्मा तस्यै दित्यै सदैव हि । भक्त्या संतोषिता तस्य संतुष्टा तमभाषत
पुत्रे जाते महापुण्ये इंद्रे च निहते सति । कुरु राज्यं महाभाग पुत्रेण मम दैवकम्
एवमस्तु महाभागे ते प्रसादाद्भविष्यति । तस्याश्चैवांतरं प्रेप्सुरभवत्पाकशासनः
ऊने वर्षशते चास्या ददर्शांतरमच्युतः । अकृत्वा पादयोः शौचं दितिः शयनमाविशत्
शय्यांते सा शिरः कृत्वा मुक्तकेशातिविह्वला । निद्रामाहारयामास तस्याः कुक्षिं प्रविश्य ह
वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृंतत । वज्रेण तीक्ष्णधारेण रुरोद उदरे स्थितः
स गर्भस्तत्र विप्रेंद्रा इंद्रहस्तगतेन वै । रोदमानं महागर्भं तमुवाच पुनः पुनः
शतक्रतुर्महातेजा मा रोदीरित्यभाषत । सप्तधा कृतवाञ्छक्रस्तं गर्भं दितिजं पुनः
एकैकं सप्तधा च्छित्त्वा रुदमानं स देवराट् । एवं वै मरुतो जातास्ते तु देवा महौजसः
यथा इंद्रेण ते प्रोक्ता बभूवुर्नामभिस्ततः । अतिवीर्य महाकायास्तीव्र तेजः पराक्रमाः
एकोना वै बभूवुस्ते पंचाशन्मरुतस्ततः । मरुतो नाम ते ख्याता इंद्रमेव समाश्रिताः
भूतानामेव सर्वेषां रोचयंति गणं महत् । निकायेषु निकायेषु हरिः प्रादात्प्रजापतिः
क्रमशस्तानि राज्यानि पृथुपूर्वाणि तानि वै । स देवः पुरुषः कृष्णः सर्वव्यापी जगद्गुरुः
तपोजिष्णुर्महातेजाः सर्व एकः प्रजापतिः । पर्जन्यः पावकः पुण्यः सर्वात्मा सर्व एव हि
तस्य सर्वमिदं पुण्यं जगत्स्थावरजंगमम् । भूतसर्गमिमं सम्यग्जानतो द्विजसत्तम
नावृत्तिभयमस्तीह परलोकभयं कुतः । इमां सृष्टिं महापुण्यां सर्वपापहरां शुभाम्
यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते । स हि धन्यश्च पुण्यश्च स हि सत्यसमन्वितः
यः शृणोति इमां सृष्टिं स याति परमां गतिम् । सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति
सूत उवाच- स प्रभुः सर्वलोकेशो ह्यभिषिच्य ततो नृपम् । पृथुं वेनस्य तनयं सर्वराज्ये महाप्रभुम्
महाबाहुं महाकायं यथेंद्रं च सुरेश्वरम् । क्रमेणापि ततो ब्रह्मा राज्यानि च विचार्य वै
यद्यस्यापि भवेद्योग्यं दातुं तदुपचक्रमे । वृक्षाणां ब्राह्मणानां च ग्रहर्क्षाणां तथैव च
सोमं राज्ये सोभ्यषिंचत्तपसां च महामतिः । धर्माणां धर्मयज्ञानां पुण्यानां पुण्यतेजसाम्
अपां मध्ये तथा देवं तीर्थानां हि तथैव च । वरुणं सोभिषिच्यैव रत्नानां च द्विजोत्तम
अन्येषां सर्वयक्षाणां राज्ये वैश्रवणं पुनः । विष्णुमेव महाप्राज्ञमादित्यानां पितामहः
राज्ये संस्थापयामास जनता हितहेतवे । सर्वेषामेव पुण्यानां दक्षमेव प्रजापतिम्
समर्थं सर्वधर्मज्ञं प्रजापतिगणेश्वरम् । प्रह्रादं सर्वधर्मज्ञं स हि राज्ये न्यरूपयत्
दैत्यानां दानवानां च विष्णुतेजः समन्वितम् । यमं वैवस्वतं धर्मं पैत्र्ये राज्येभिषिच्य च
यक्षराक्षसभूतानां पिशाचोरगसर्पिणाम् । योगिनीनां च सर्वासां वैतालानां महात्मनाम्