सखाहं देवदेवस्य इंद्र स्यापि वरानने । ऐंद्रं पदं वरारोहे अर्धं मे भुक्तिमागतम्
अहं वृत्रः कथं देवि मामेवं न तु विंदसि । त्रैलोक्यं वशमायातं यस्यैव वरवर्णिनि
अहं शरणमायातः कामाद्रक्ष वरानने । भजस्व मां विशालाक्षि कामेनाकुलितं प्रिये
रंभोवाच- वशगा हं तवैवाद्य भविष्यामि न संशयः । यं यं वदाम्यहं वीर तं तं कार्यं त्वयैव हि
एवमस्तु महाभागे तं तं सर्वं करोम्यहम् । एवं संबंधकं कृत्वा तया सह महाबलः
तस्मिन्वने महापुण्ये रेमे दानवसत्तमः । तस्या गीतेन नृत्येन हास्येन ललितेन च
अतिमुग्धो महादैत्यः स तस्याः सुरतेन च । तमुवाच महाभागं वृत्रं दानवसत्तमम्
सुरापानं कुरुष्वेह पिबस्व मधुमाधवीम् । तामुवाच विशालाक्षीं रंभां शशिनिभाननाम्
पुत्रोहं ब्राह्मणस्यापि वेदवेदांगपारगः । सुरापानं कथं भद्रे करिष्यमि विनिंदितम्
तया तु रंभया देव्या प्रीत्या दत्ता सुरा हठात् । तस्या दाक्षिण्यभावेन सुरापानं कृतं तदा
अतीवमुग्धं सुरया ज्ञानभ्रष्टो यदाभवत् । तदंतरे सुरेंद्रेण वज्रेण निहतस्तदा
ब्रह्महत्यादिकैः पापैः स लिप्तो वृत्रहा ततः । ब्राह्मणास्तु ततः प्रोचुरिंद्र पापं कृतं त्वया
अस्माद्वाक्यात्तु विश्वस्तो वृत्रो नाम महाबलः । हतो विश्वासभावेन एवं पापं त्वया कृतम्
इंद्र उवाच- येन केनाप्युपायेन हंतव्योरिः सदैव हि । देवब्राह्मणहंतारं यज्ञानां धर्मकंटकम्
निहतं दानवं दुष्टं त्रैलोक्यस्यापि नायकम् । तदर्थं कुपिता यूयमेतन्न्यायस्य लक्षणम्
विचारमेवं कर्त्तव्यं भवद्भिर्द्विजसत्तमाः । पश्चात्कोपं प्रकर्त्तव्यमन्यायं मम चिंत्यताम्
एवं संबोधिता विप्रा इंद्रेणापि महात्मना । ब्रह्मादिभिः सुरैः सर्वैर्बोधितास्ते च सत्तमाः
जग्मुः स्वस्थानमेवं हि निहते धर्मकंटके
सूत उवाच- तं पुत्रं निहतं श्रुत्वा सा दितिर्दुःखपीडिता । पुत्रशोकेन तेनैव संदग्धा द्विजसत्तमाः
पुनरूचे महात्मानं कश्यपं मुनिपुंगवम् । इंद्रस्यापि सुदुष्टस्य वधार्थं द्विजसत्तम
ब्रह्मतेजोमयं तीव्रं दुःसहं सर्वदैवतैः । पुत्रैकं दीयतां कांत सुप्रियाहं यदा विभो
कश्यप उवाच- निहतौ बलवृत्रौ च मम पुत्रौ महाबलौ । अघमाश्रित्य देवेन इंद्रेणापि दुरात्मना
तस्यैव च वधार्थाय पुत्रमेकं ददाम्यहम् । वर्षाणां तु शतैकं त्वं शुचिर्भव यशस्विनि
एवमुक्त्वा स योगींद्रो हस्तं शिरसि वै तदा । दत्त्वादित्या सहैवासौ गतो मेरुं तपोवनम्
तपस्तताप सा देवी तपोवननिवासिनी । शुचिष्मती सदा भूत्वा पुत्रार्था द्विजसत्तम
ततो देवः सहस्राक्षो ज्ञात्वा उद्यममेव च । दित्याश्चैव महाभाग अंतरप्रेक्षकोऽभवत्
पंचविंशाब्दिको भूत्वा देवराड्दैवतोपमः । ब्राह्मणस्य च रूपेण तस्याश्चांतिकमागतः
स तां प्रणम्य धर्मात्मा मातरं तपसान्विताम् । तयोक्तस्तु सहस्राक्षो भवान्को द्विजसत्तम
तामुवाच सहस्राक्षः पुत्रोऽहं तव शोभने । ब्राह्मणो वेदविद्वांश्च धर्मं जानामि भामिनि
तपसस्तव साहाय्यं करिष्ये नात्र संशयः । शुश्रूषति स तां देवीं मातरं तपसान्विताम्