गायते सुस्वरं गीतं सर्वविश्वप्रमोहनम् । तत्र वृत्रः समायातः कामाकुलितमानसः
दोलारूढां समालोक्य रंभां चारुसुलोचनाम्
सूत उवाच- इयं हि का गायति चारुलोचना विलासभावैः परिविश्वमेव । अतीव बाला शुशुभे मनोहरा संपूर्णभावैः परिमोहयेज्जनम्
दृष्ट्वा स रंभां कमलायताक्षीं पीनस्तनीं चर्चितकुंकुमांगीम् । पद्माननां कामगृहं ममैषा नो वा रतिश्चारुमनोहरेयम्
संपूर्णभावां परिरूपयुक्तां कामांगशीलामतिशीलभावाम् । यास्याम्यहं वश्यमिहैव अस्या मनोभवेनाद्य इहैव प्रेषितः
इतीव दैत्यः सुविचिंतयान्वितः कामेन मुग्धो बहुकालनोदितः । समातुरस्तत्र जगाम सत्वरमुवाच तां दीनमनाः सुलोचनाम्
कस्यासि वा सुंदरि केन प्रेषिता किं नाम ते पुण्यतमं वदस्व मे । तवैव रूपेण महातितेजसा मुग्धोस्मि बाले मम वश्यतां व्रज
एवमुक्ता विशालाक्षी वृत्रं कामाकुलं प्रति । अहं रंभा महाभाग क्रीडार्थं वनमुत्तमम्
सखीसार्धं समायाता नंदनं वनमुत्तमम् । त्वं तु को वा किमर्थं हि मम पार्श्वं समागतः
वृत्र उवाच- श्रूयतामभिधास्यामि योहं बाले समागतः । हुताशनात्समुत्पन्नः कश्यपस्य सुतः शुभे
सखाहं देवदेवस्य इंद्र स्यापि वरानने । ऐंद्रं पदं वरारोहे अर्धं मे भुक्तिमागतम्
अहं वृत्रः कथं देवि मामेवं न तु विंदसि । त्रैलोक्यं वशमायातं यस्यैव वरवर्णिनि
अहं शरणमायातः कामाद्रक्ष वरानने । भजस्व मां विशालाक्षि कामेनाकुलितं प्रिये
रंभोवाच- वशगा हं तवैवाद्य भविष्यामि न संशयः । यं यं वदाम्यहं वीर तं तं कार्यं त्वयैव हि
एवमस्तु महाभागे तं तं सर्वं करोम्यहम् । एवं संबंधकं कृत्वा तया सह महाबलः
तस्मिन्वने महापुण्ये रेमे दानवसत्तमः । तस्या गीतेन नृत्येन हास्येन ललितेन च
अतिमुग्धो महादैत्यः स तस्याः सुरतेन च । तमुवाच महाभागं वृत्रं दानवसत्तमम्
सुरापानं कुरुष्वेह पिबस्व मधुमाधवीम् । तामुवाच विशालाक्षीं रंभां शशिनिभाननाम्
पुत्रोहं ब्राह्मणस्यापि वेदवेदांगपारगः । सुरापानं कथं भद्रे करिष्यमि विनिंदितम्
तया तु रंभया देव्या प्रीत्या दत्ता सुरा हठात् । तस्या दाक्षिण्यभावेन सुरापानं कृतं तदा
अतीवमुग्धं सुरया ज्ञानभ्रष्टो यदाभवत् । तदंतरे सुरेंद्रेण वज्रेण निहतस्तदा
ब्रह्महत्यादिकैः पापैः स लिप्तो वृत्रहा ततः । ब्राह्मणास्तु ततः प्रोचुरिंद्र पापं कृतं त्वया
अस्माद्वाक्यात्तु विश्वस्तो वृत्रो नाम महाबलः । हतो विश्वासभावेन एवं पापं त्वया कृतम्
इंद्र उवाच- येन केनाप्युपायेन हंतव्योरिः सदैव हि । देवब्राह्मणहंतारं यज्ञानां धर्मकंटकम्
निहतं दानवं दुष्टं त्रैलोक्यस्यापि नायकम् । तदर्थं कुपिता यूयमेतन्न्यायस्य लक्षणम्
विचारमेवं कर्त्तव्यं भवद्भिर्द्विजसत्तमाः । पश्चात्कोपं प्रकर्त्तव्यमन्यायं मम चिंत्यताम्
एवं संबोधिता विप्रा इंद्रेणापि महात्मना । ब्रह्मादिभिः सुरैः सर्वैर्बोधितास्ते च सत्तमाः
जग्मुः स्वस्थानमेवं हि निहते धर्मकंटके
सूत उवाच- तं पुत्रं निहतं श्रुत्वा सा दितिर्दुःखपीडिता । पुत्रशोकेन तेनैव संदग्धा द्विजसत्तमाः
पुनरूचे महात्मानं कश्यपं मुनिपुंगवम् । इंद्रस्यापि सुदुष्टस्य वधार्थं द्विजसत्तम