अर्धमैंद्रं पदं वीर सत्वं भुंक्ष्व सुखेन वै । वर्तंत्वर्द्धेन इंद्रस्तु असुरा देवतास्तथा
सुखं वर्तंतु ते सर्वे वैरं चैव विसृज्य वै । वृत्र उवाच- यदि सत्येन देवेंद्रो मैत्रमिच्छति सत्तमः
सत्यमाश्रित्य चैवाहं करिष्ये नात्र संशयः । छद्म चैवं पुरस्कृत्य इंद्रो द्रोहं समाचरेत्
तदा किं क्रियते विप्रा इत्यर्थे प्रत्ययं हि किम् । ऋषयस्त्विंद्रमाचख्युरित्यर्थं प्रत्ययं वद
तन्नस्त्वं सत्यतां ब्रूहि यदि सख्यमिहेच्छसि । इंद्र उवाच- यद्यऽसत्येन वर्तामि भवद्भिः सह छद्मना
ब्रह्महत्यादिकैः पापैर्लिप्येहं नात्र संशयः । छद्म चैवं पुरस्कृत्य इंद्रो द्रोहं समाचरेत्
ब्रह्महत्यादिकैः पापैर्लिप्येहं नात्र संशयः । इत्युवाच महाप्राज्ञ त्वामेवं स पुरंदरः
एतेन प्रत्ययेनापि सख्यं कुरु महामते । वृत्र उवाच- भवतां शिष्टमार्गेण सत्येनानेन तस्य च
मैत्रमेवं करिष्यामि तेन सार्द्धं द्विजोत्तमाः । वृत्रमिंद्रस्यसंस्थानं नीतं ब्राह्मणपुङ्गवैः
इन्द्रस्तमागतं दृष्ट्वा वृत्रं मित्रार्थमुद्यतः । सिंहासनात्समुत्थाय अर्घमादाय सत्वरः
ददौ तस्मै स धर्मात्मा वृत्राय द्विजसत्तम । अर्धं भुंक्ष्व महाप्राज्ञ ऐंद्रमेतन्महत्पदम्
वर्तितव्यं सुखेनापि आवाभ्यां दैत्यसत्तम । एवं विश्वासयन्दैत्यं वृत्र मैत्रेण वै तदा
गतेषु तेषु विप्रेषु स्वस्थानं द्विजसत्तम । छिद्रं पश्यति दुष्टात्मा वृत्रस्यापि सदैव हि
सावधानत्वमिंद्रोपि दिवारात्रौ प्रचिंतयेत् । तस्यच्छिद्रं न पश्येत वृत्रस्यापि महात्मनः
उपायं चिंतयामास तस्यैव वधहेतवे । रंभा संप्रेषिता तेन मोहयस्व महासुरम्
येनकेनाप्युपायेन यथा हत्वा लभे सुखम् । तथा कुरुष्व कल्याणि संमोहाय सुरद्विषः
वनं पुण्यं महादिव्यं पुण्यपादपसेवितम् । बहुवृक्षफलोपेतं मृगपक्षिसमाकुलम्
विमानमंदिरैर्दिव्यैः सर्वत्र परिशोभितम् । दिव्यगंधर्वसंगीतं भ्रमराकुलितं सदा
कोकिलानां रुतैः पुण्यैः सर्वत्र मधुरायतैः । शिखिसारंगनादैश्च सर्वत्र सुसमाकुलम्
दिव्यैस्तु चंदनैर्वृक्षैः सर्वत्र समलंकृतम् । वापीकुंडतडागैश्च जलपूर्णैर्मनोहरैः
कमलैः शतपत्रैश्च पुष्पितैः समलंकृतम् । देवगंधर्वसंसिद्धैश्चारणैश्चैव किन्नरैः
मुनिभिः शुशुभे दिव्यैर्दिव्योद्यानवरेण च । अप्सरोगणसंकीर्णं नानाकौतुकमंगलैः
हेमप्रासादसंबाधं दंडच्छत्रैश्च चामरैः । कलशैश्च पताकाभिः सर्वत्रसमलंकृतम्
वेदध्वनिसमाकीर्णं गीतध्वनिसमाकुलम् । एवं नंदनमासाद्य सा रंभा चारुहासिनी
अप्सरोभिः समं तत्र क्रीडत्येवं विलासिनी । सूत उवाच- एकदा तु स वृत्रो वै कालाकृष्टो गतो वनम्
कतिभिर्दानवैः सार्द्धं मुदया परया युतः । अलक्ष्ये भ्रमते पार्श्वं तस्यैव च महात्मनः
देवराजोपि विप्रेंद्रश्छिद्रान्वेषी द्विषां किल । स हि वृत्रो महाप्राज्ञो विश्वस्तः सर्वकर्मसु
इंद्रं मित्रं परं जानन्भयं चक्रे न तस्य सः । भ्रममाणो वनं पश्येत्सर्वत्र परमं शुभम्
सुरम्यं कौतुकवनं वनितागणसंकुलम् । चंदनस्यापि वृक्षस्य छायां शीतां सुपुण्यदाम्
समाश्रित्य विशालाक्षी रंभा तत्र प्रदीव्यति । सखीभिस्तु महाभागा दोलारूढा यशस्विनी