प्रभवंति महाभाग विद्वांस्तत्र न मुह्यति । पूर्वकल्पे महाभागो यथा रुक्मांगदो नृपः
तथा धर्मांगदश्चायं संजातः ख्यातिमान्द्विजः । रामादयो महाप्राज्ञा ययातिर्नहुषस्तथा
मन्वादयो महात्मानः प्रभवंति लयंति च । ऐंद्रं पदं प्रभुंजंति राजानो धर्मतत्पराः
यथा धर्मांगदो वीरः प्रभुंजति महत्पदम् । एवं वेदाश्च देवाश्च पुराणाः स्मृतिपूर्वकाः
एतत्तु सर्वमाख्यातं तवाग्रे द्विजसत्तम । चरितं सुव्रतस्याथ पुण्यं सुगतिदायकम्
अव्यक्तं तु महाभाग प्रब्रवीमि तवाग्रतः
ऋषय ऊचुः- विचित्रेयं कथा पुण्या धन्या यशोविधायिनी । सर्वपापहरा प्रोक्ता भवता वदतां वर
सृष्टिसंबंधमेतन्नस्तद्भवान्वक्तुमर्हति । पूर्वमेव यथासृष्टिर्विस्तरात्सूतनंदन
सूत उवाच- विस्तरेण प्रवक्ष्यामि सृष्टिसंहारकारणम् । श्रुतमात्रेण यस्यापि नरः सर्वज्ञतां व्रजेत्
हिरण्यकश्यपेनापि व्यापितं भुवनत्रयम् । तपसाराध्य प्रबह्माणं वरं प्राप्तं सुदुर्लभम्
तस्माद्देवान्महाभागादमरत्वं तथैव च । देवाँल्लोकान्स संव्याप्य प्रभुत्वं स्वयमर्जितम्
ततो देवाः सगंधर्वा मुनयो वेदपारगाः । नागाश्च किन्नराः सिद्धा यक्षाश्चैव तथापरे
ब्रह्माणं तु पुरस्कृत्य जग्मुर्नारायणं प्रभुम् । क्षीरसागरसंसुप्तं योगनिद्रां गतं प्रभुम्
तं संबोध्य महास्तोत्रैर्देवाः प्रांजलयस्तथा । संबुद्धे सति देवेशे वृत्तं तस्य दुरात्मनः
आचचक्षुर्महाप्राज्ञ समाकर्ण्य जगत्पतिः । नृसिंहरूपमास्थाय हिरण्यकशिपुं व्यहन्
पुनर्वाराहरूपेण हिरण्याक्षो महाबलः । उद्धृता वसुधा पुण्या असुरो घातितस्तदा
अन्यांश्चघातयामास दानवान्घोरदर्शनान् । एवं चैतेषु नष्टेषु दानवेषु महत्सु च
अन्येषु तेषु नष्टेषु दितिपुत्रेषु वै तदा । पुनः स्थानेषु प्राप्तेषु देवेषु च महत्सु च
यज्ञेष्वेव प्रवृत्तेषु सर्वेषु धर्मकर्मसु । सुस्थेषु सर्वलोकेषु सा दितिर्दुःखपीडिता
पुत्रशोकेन संतप्ता हाहाभूता विचेतना । भर्तारं सूर्यसंकाशं तपस्तेजः समन्वितम्
दातारं च महात्मानं भर्तारं कश्यपं तदा । भक्त्या प्रणम्य विप्रेन्द्र तमुवाच महामतिम्
भगवन्नष्टपुत्राहं कृता देवेन चक्रिणा । दैतेया दानवाः सर्वे देवैश्चैव निपातिताः
पुत्रशोकानलेनाहं संतप्ता मुनिसत्तम । ममानंदकरं पुत्रं सर्वतेजोहरं विभो
सुबलं चारुसर्वांगं देवराजसमप्रभम् । बुद्धिमंतं सुसर्वज्ञं ज्ञातारं सर्वपंडितम्
तपस्तेजः समायुक्तं सबलं चारुलक्षणम् । ब्रह्मण्यं ज्ञानवेत्तारं देवब्राह्मणपूजकम्
जेतारं सर्वलोकानां ममानंदकरं द्विज । सर्वलक्षणसंपन्नं पुत्रं मे देहि त्वं विभो
एवमाकर्ण्य वै तस्याः कश्यपो वाक्यमुत्तमम् । कृपाविष्टमनास्तुष्टो दुःखिताया द्विजोत्तम
तामुवाच महाभाग कृपणां दीनमानसाम् । तस्याः शिरसि संन्यस्य स्वहस्तं भावतत्परः
भविष्यति महाभागे यादृशो वांछितः सुतः । एवमुक्त्वा जगामासौ मेरुं गिरिवरोत्तमम्
तपस्तेपे निरालंबः साधयन्परमव्रतः । एतस्मिन्नंतरे सा तु दधार गर्भमुत्तमम्