दुःखानलैर्विविधमोहमयैः सुधूमैः शोकैर्वियोगमरणांतिक सन्निभैश्च । दग्धोस्मि कृष्ण सततं मम देहि मोक्षं ज्ञानांबुदैः समभिषिंच सदैव मां त्वम्
घोरांधकारपटले महतीव गर्ते संसारनाम्निपतितं सततं हि कृष्ण । त्वं सत्कृपो मम हि दीनभयातुरस्य तस्माद्विरज्यशरणं तव आगतोस्मि
त्वामेव ये नियतमानसभावयुक्ता ध्यायंति ज्ञानमनसा पदवीं लभंते । नत्वैव पादयुगलं च महासुपुण्यं यद्देवकिन्नरगणाः परिचिंतयंति
नान्यं वदामि न भजामि न चिंतयामि त्वत्पादपद्मयुगलं सततं नमामि । कामं त्वमेव मम पूरय मेद्य कृष्ण दूरेण यातु मम पातकसंचयस्ते
दासोस्मि देव तव किंकरजन्मजन्म त्वत्पादपद्मयुगलं सततं स्मरामि
यदि कृष्ण प्रसन्नोसि देहि मे सुवरं प्रभो । मन्मातापितरौ कृष्ण सकायौ मंदिरे नय
आत्मनश्च महादेव मयासह न संशयः । श्रीकृष्ण उवाच- एवं ते परमं कार्यं भविष्यति न संशयः
तस्य तुष्टो हृषीकेशो भक्त्या तस्य प्रतोषितः । प्रयातौ वैष्णवं लोकं दाहप्रलयवर्जितौ
सुव्रतेन समं तौ द्वौ सुमना सोमशर्मकौ । यावत्कल्पद्वयं प्राप्तं तावत्स सुव्रतो द्विजः
बुभुजे बुभुजे दिव्याँल्लोकांश्चैव महामते । देवकार्यार्थमत्रैव काश्यपस्य गृहं पुनः
अवतीर्णो महाप्राज्ञो वचनात्तस्य चक्रिणः । ऐंद्रं पदं हि यो भुंक्ते विष्णोश्चैव प्रसादतः
वसुदत्तेति विख्यातः सर्वदेवैर्नमस्कृतः । ऐंद्रं पदं हि यो भुंक्ते सांप्रतं वासवो दिवि
एतत्ते सर्वमाख्यातं सृष्टिसंबंधकारणम् । अन्यदेवं प्रवक्ष्यामि यदेव परिपृच्छसि
व्यास उवाच- धर्माङ्गदो महाप्राज्ञो रुक्माङ्गदसुतो बली । आद्ये कृतयुगे जातः सृष्टिकाले स वासवः
तत्कथं देवदेवेश अन्यो धर्माङ्गदो भुवि । अन्यो रुक्मांङ्गदो राजा किं चायं त्रिदशाधिपः
एतन्मे संशयं जातं तद्भवान्वक्तुमर्हति । ब्रह्मोवाच- हंत ते कथयिष्यामि सर्वसंदेहनाशनम्
देवस्य लीलासृष्ट्यर्थे वर्तते द्विजसत्तम । यथा वाराश्च पक्षाश्च मासाश्च ऋतवो यथा
संवत्सराश्च मनवस्तथा यांति युगाः पुनः । पश्चात्कल्पः समायाति व्रजाम्येवं जनार्दनम्
अहमेव महाप्राज्ञ मयि यांति चराचराः । पुनः सृजति योगात्मा पूर्ववद्विश्वमेव हि
पुनरहं पुनर्वेदाः पुनस्ते देवता द्विजाः । तथा भूपाश्च ते सर्वे स्वचरित्रसमाविलाः
प्रभवंति महाभाग विद्वांस्तत्र न मुह्यति । पूर्वकल्पे महाभागो यथा रुक्मांगदो नृपः
तथा धर्मांगदश्चायं संजातः ख्यातिमान्द्विजः । रामादयो महाप्राज्ञा ययातिर्नहुषस्तथा
मन्वादयो महात्मानः प्रभवंति लयंति च । ऐंद्रं पदं प्रभुंजंति राजानो धर्मतत्पराः
यथा धर्मांगदो वीरः प्रभुंजति महत्पदम् । एवं वेदाश्च देवाश्च पुराणाः स्मृतिपूर्वकाः
एतत्तु सर्वमाख्यातं तवाग्रे द्विजसत्तम । चरितं सुव्रतस्याथ पुण्यं सुगतिदायकम्
अव्यक्तं तु महाभाग प्रब्रवीमि तवाग्रतः
ऋषय ऊचुः- विचित्रेयं कथा पुण्या धन्या यशोविधायिनी । सर्वपापहरा प्रोक्ता भवता वदतां वर
सृष्टिसंबंधमेतन्नस्तद्भवान्वक्तुमर्हति । पूर्वमेव यथासृष्टिर्विस्तरात्सूतनंदन
सूत उवाच- विस्तरेण प्रवक्ष्यामि सृष्टिसंहारकारणम् । श्रुतमात्रेण यस्यापि नरः सर्वज्ञतां व्रजेत्
हिरण्यकश्यपेनापि व्यापितं भुवनत्रयम् । तपसाराध्य प्रबह्माणं वरं प्राप्तं सुदुर्लभम्