जलेनानेन पुण्येन तृप्तिमायातु केशवः । तांबूलचंदनैर्गंधैरेभिः पुष्पैर्मनोहरैः
आत्मस्वरूपेण तृप्तस्तृप्तिमायातु केशवः । शयने याति धर्मात्मा तदा कृष्णं प्रचिंतयेत्
योगनिद्रान्वितं कृष्णं तमहं शरणं गतः । भोजनाच्छादनेष्वेवमासने शयने द्विजः
चिंतयेद्वासुदेवं तं तस्मै सर्वं प्रकल्पयेत् । तारुण्यं प्राप्य धर्मात्मा कामभोगान्विहाय वै
स युक्तः केशवध्याने वैडूर्यपर्वतोत्तमे । यत्र सिद्धेश्वरं लिंगं वैष्णवं पापनाशनम्
रुद्रमोंकारसंज्ञं च ध्यात्वा चैव महेश्वरम् । ब्रह्मणा वर्द्धितं देवं नर्मदादक्षिणे तटे
सिद्धेश्वरं समाश्रित्य तपोभावं व्यचिंतयत्
व्यास उवाच- प्रश्नमेकं महाभाग करिष्ये सांप्रतं वद । त्वयैव पूर्वमुक्तं हि सुव्रतं च प्रतीश्वरम्
पूर्वाभ्यासेन संध्यायन्नारायणमनामयम् । कस्यां ज्ञात्यां समुत्पन्नः सुव्रतः पूर्वजन्मनि
तन्मे त्वं सांप्रतं ब्रूहि कथमाराधितो हरिः । अनेनापि स देवेश कोयं पुण्यसमाविलः
ब्रह्मोवाच- वैदिशे नगरे पुण्ये सर्वऋद्धिसमाकुले । तत्र राजा महातेजा ऋतध्वजसुतो बली
तस्यात्मजो महाप्राज्ञो रुक्मभूषणविश्रुतः । संध्यावली तस्य भार्या धर्मपत्नी यशस्विनी
तस्यां पुत्रं समुत्पाद्य स आत्मसदृशं ततः । तस्य धर्मांगदं नाम चकार नृपनंदनः
सर्वलक्षणसंपन्नः पितृभक्तिपरायणः । रुक्मांगदस्य तनयो योयं भगवतां वरः
पितुः सौख्याय येनापि मोहिन्यै तु शिरो ददे । वैष्णवेन च धर्मेण पितृभक्त्या तु तस्य हि
सुप्रसन्नो हृषीकेशः सकायो वैष्णवं पदम् । नीतस्तु सर्वधर्मज्ञो वैष्णवः सात्वतां वरः
धर्मांगदो महाप्राज्ञः प्रज्ञाज्ञानविशारदः । तत्रस्थो वै महाप्राज्ञो धर्मोसौ धर्मभूषणः
दिव्यान्मनोनुगान्भोगान्मोदमानः प्रभुंजति । पूर्णे युगसहस्रांते धर्मो वै धर्मभूषणः
तस्मात्पदात्परिभ्रष्टो विष्णोश्चैव प्रसादतः । सुव्रतो नाम मेधावी सुमनानंदवर्द्धनः
सोमशर्मस्य तनयः श्रेष्ठो भगवतां वरः । तपश्चचार मेधावी विष्णुध्यानपरोभवत्
कामक्रोधादिकान्दोषान्परित्यज्य द्विजोत्तमः । संयम्यचैन्द्रियं वर्गं तपस्तेपे निरंतरम्
वैडूर्यपर्वतश्रेष्ठे सिद्धेश्वरस्य सन्निधौ । एकीकृत्य मनश्चायं संयोज्य विष्णुना सह
एवं वर्षशतं स्थित्वा ध्यानेनास्य महात्मनः । सुप्रसन्नो जगन्नाथः शंखचक्रगदाधरः
तस्मै वरं ददावन्यं सलक्ष्म्या सह केशवः । भोभोः सुव्रत धर्मात्मन्बुध्यस्व विबुधांवर
वरं वरय भद्रं ते कृष्णोऽहं ते समागतः । एवमाकर्ण्य मेधावी विष्णोर्वाक्यमनुत्तमम्
हर्षेण महताविष्टो दृष्ट्वा देवं जनार्दनम् । बद्धांजलिपुटो भूत्वा प्रणाममकरोत्तदा
सुव्रत उवाच- संसारसागरमतीव महासुदुःखजालोर्मिभिर्विविधमोहचयैस्तरंगैः । संपूर्णमस्ति निजदोषगुणैस्तु प्राप्तस्तस्मात्समुद्धर जनार्दनमाशुदीनम्
कर्मांबुदे महति गर्जतिवर्षतीव विद्युल्लतोल्लसतिपातकसंचयैर्मे । मोहांधकारपटलैर्मम नास्ति दृष्टिर्दीनस्य तस्य मधुसूदन देहि हस्तम्
संसारकाननघनं बहुदुःखवृक्षैः संसेव्यमानमपि मोहमयैश्च सिंहैः । संदीप्तमस्ति करुणाबहुवह्नितेजः संतप्यमानमनिशं परिपाहि कृष्ण
संसारवृक्षमतिजीर्णमपीह उच्चं मायासुकंदकरुणा बहुदुःखशाखम् । जायादिसंगच्छदनं फलितं मुरारे तत्राधिरूढपतितं भगवन्हि रक्ष