क्रीडने पठने हास्ये शयने गीतप्रेक्षणे । याने च ह्यासने ध्याने मंत्रे ज्ञाने सुकर्मसु
पश्यत्येवं वदत्येवं जगन्नाथं जनार्दनम् । स ध्यायते तमेकं हि विश्वनाथं महेश्वरम्
तृणे काष्ठे च पाषाणे शुष्के सार्द्रे हि केशवम् । पश्यत्येवं स धर्मात्मा गोविंदं कमलेक्षणम्
आकाशे भूमिमध्ये तु पर्वतेषु वनेषु च । जले स्थले च पाषाणे जीवेष्वेव महामतिः
नृसिंहं पश्यते विप्रः सुव्रतः सुमनासुतः । बालक्रीडां समासाद्य रमत्येवं दिनेदिने
गीतैश्च गायते कृष्णं सुरागैर्मधुराक्षरैः । तालैर्लयसमायुक्तैः सुस्वरैर्मूर्च्छनान्वितैः
सुव्रत उवाच- ध्यायंति वेदविदुषः सततं सुरारिं यस्यांगमध्ये सकलं हि विश्वम् । योगेश्वरं सकलपापविनाशनं च व्रजामि शरणं मधुसूदनस्य
लोकेषु यो हि सकलेष्वनुवर्तते यो लोकाश्च यस्मिन्निवसंति सर्वे । दोषैर्विहीनमखिलैः परमेश्वरं तं तस्यैव पादयुगलं सततं नमामि
नारायणं गुणनिधानमनंतवीर्यं वेदांतशुद्धमतयः प्रपठंति नित्यम् । संसारसागरमनंतमगाधदुर्गमुत्तारणार्थमखिलं शरणं प्रपद्ये
योगींद्र मानससरोवरराजहंसं शुद्धं प्रभावमखिलं सततं हि यस्य । तस्यैव पादयुगलं विमलं विशालं दीनस्य मेऽसुररिपो कुरु तस्य रक्षाम्
ध्यायेऽखिलस्य भुवनं स्वपतिं च देवं दुःखांधकारदलनार्थमिहैव चंद्रम् । लोकस्य पालनकृते परिणीतधर्मं सत्यान्वितं सकललोकगुरुं सुरेशम्
गायाम्यहं सुरसगीतकतालमानैः श्रीरंगमेकमनिशं भुवनस्य देवम् । अज्ञाननाशकमलं च दिनेशतुल्यमानंदकंदमखिलं महिमा समेतम्
संपूर्णमेवममृतस्यकलानिधानं तं गीतकौशलमनन्यरसैः प्रगाये । युक्तं स्वयोगकरणैः परमार्थदृष्टिं विश्वं स पश्यति चराचरमेव नित्यम्
पश्यंति नैव यमिहाथ सुपापलोकास्तं केशवं शरणमेवमुपैति नित्यम्
कराभ्यां वाद्यमानस्तु तालं तालसमन्वितम् । गीतेनगायते कृष्णं बालकैः सह मोदते
एवं क्रीडारतो नित्यं बालभावेन वै तदा । सुव्रतः सुमनापुत्रो विष्णुध्यानपरायणः
क्रीडमानं प्राह माता सुव्रतं चारुलक्षणम् । भोजनं कुरु मे वत्स क्षुधा त्वां परिपीडयेत्
तामुवाच पुनः प्राज्ञः सुमना मातरं पुनः । महामृतेन तृप्तोस्मि हरिध्यानरसेन वै
भोजनासनमारूढो मिष्टमन्नं प्रपश्यति । इदमन्नं स्वयं विष्णुरात्मा ह्यन्नं समाश्रितः
आत्मरूपेण यो विष्णुरनेनान्नेन तृप्यतु । क्षीरसागरसंवासो यस्यैव परिसंस्थितः
जलेनानेन पुण्येन तृप्तिमायातु केशवः । तांबूलचंदनैर्गंधैरेभिः पुष्पैर्मनोहरैः
आत्मस्वरूपेण तृप्तस्तृप्तिमायातु केशवः । शयने याति धर्मात्मा तदा कृष्णं प्रचिंतयेत्
योगनिद्रान्वितं कृष्णं तमहं शरणं गतः । भोजनाच्छादनेष्वेवमासने शयने द्विजः
चिंतयेद्वासुदेवं तं तस्मै सर्वं प्रकल्पयेत् । तारुण्यं प्राप्य धर्मात्मा कामभोगान्विहाय वै
स युक्तः केशवध्याने वैडूर्यपर्वतोत्तमे । यत्र सिद्धेश्वरं लिंगं वैष्णवं पापनाशनम्
रुद्रमोंकारसंज्ञं च ध्यात्वा चैव महेश्वरम् । ब्रह्मणा वर्द्धितं देवं नर्मदादक्षिणे तटे
सिद्धेश्वरं समाश्रित्य तपोभावं व्यचिंतयत्
व्यास उवाच- प्रश्नमेकं महाभाग करिष्ये सांप्रतं वद । त्वयैव पूर्वमुक्तं हि सुव्रतं च प्रतीश्वरम्
पूर्वाभ्यासेन संध्यायन्नारायणमनामयम् । कस्यां ज्ञात्यां समुत्पन्नः सुव्रतः पूर्वजन्मनि
तन्मे त्वं सांप्रतं ब्रूहि कथमाराधितो हरिः । अनेनापि स देवेश कोयं पुण्यसमाविलः