तेन गर्भेण सा देवी अधिकं शुशुभे तदा । संदीप्तपुत्रसंयुक्त तेजोज्वालासमन्विता
सा हि जज्ञे च तपसा तनयं देवसन्निभम् । अंतरिक्षे ततो नेदुर्देवदुंदुभयस्तदा
शंखान्दध्मुर्महादेवा गंधर्वा ललितं जगुः । अप्सरसस्तथा सर्वा ननृतुस्तास्तदा किल
अथ ब्रह्मासुरैः सार्द्धं समायातो द्विजोत्तमः । चकार नाम तस्यैव सुव्रतेति समाहितः
नाम कृत्वा ततो देवा जग्मुः सर्वे महौजसः । गतेषु तेषु देवेषु सोमशर्मासु तस्य च
जातकर्मादिकं कर्म चकार द्विजसत्तमः । जाते पुत्रे महाभागे सुव्रते देवनिर्मिते
तस्य गेहे महालक्ष्मीर्धनधान्यसमाकुला । गजाश्वमहिषी गावः कांचनं रत्नमेव च
यथा कुबेरभवनं शुशुभे धनसंचयैः । तत्सोमशर्मणो गेहं तथैव परिराजते
ध्यानपुण्यादिकं कर्म चका रद्विजसत्तमः । तीर्थयात्रां गतो विप्रो नानापुण्यसमाकुलः
अन्यानि यानि पुण्यानि दानानि द्विजसत्तमः । चकार तत्र मेधावी ज्ञानपुण्य समन्वितः
एवं साधयते धर्मं पालयेच्च पुनःपुनः । पुत्रस्य जातकर्मादि कर्माणि द्विजसत्तमः
विवाहं कारयामास हर्षेण महता किल । पुत्रस्य पुत्राः संजाताः सगुणा लक्षणान्विताः
सत्यधर्मतपोपेता दानधर्मरताः सदा । स तेषां पुण्यकर्माणि सोमशर्मा चकार ह
पौत्राणां तु महाभागस्तेषां सुखेन मोदते । सर्वं सौख्यं च संभुज्य जरारोगविवर्जितः
पंचविंशाब्दिको यद्वत्तद्वत्कायं तु तस्य हि । सूर्यतेजः प्रतीकाशः सोमशर्मा महामतिः
सा चापि शुशुभे देवी सुमना पुण्यमंगलैः । पुत्रपौत्रैर्महाभागा दानव्रतैश्च संयमैः
अतिभाति विशालाक्षी पुण्यैः पतिव्रतादिभिः । तारुण्येन समायुक्ता यथा षोडशवार्षिकी
मोदमानौ महात्मानौ दंपती चारुमंगलौ । हर्षेण च समायुक्तौ पुण्यात्मानौ महोदयौ
एवं तयोस्तु वृत्तांतं पुण्याचारसमन्वितम् । सुव्रतस्य प्रवक्ष्यामि व्रतचर्यां द्विजोत्तमाः
यथा तेन समाराध्य नारायणमनामयम्
सूत उवाच- एकदा व्यास देवोऽसौ ब्रह्माणं जगतः पतिम् । सुव्रताख्यानकं सर्वं पप्रच्छातीव विस्मितः
व्यास उवाच- लोकात्मँल्लोकविन्यास देवदेव महाप्रभो । सुव्रतस्याथ चरितं श्रोतुमिच्छामि सांप्रतम्
ब्रह्मोवाच- पाराशर्यमहाभाग श्रूयतां पुण्यमुत्तमम् । सुव्रतस्य सुविप्रस्य तपश्चर्यासमन्वितम्
सुव्रतो नाम मेधावी बाल्यादपि स चिंतयन् । गर्भे नारायणं देवं दृष्टवान्पुरुषोत्तमम्
स पूर्वकर्माभ्यासेन हरेर्ध्यानं गतस्तदा । शंखचक्रधरं देवं पद्मनाभं सुपुण्यदम्
ध्यायते चिंतयेत्सो हि गीते ज्ञाने प्रपाठने । एवं देवं हरिं ध्यायन्सदैव द्विजसत्तमः
क्रीडत्येवं सदा डिंभैः सार्द्धं च बालकोत्तमः । बालकानां स्वकं नाम हरेश्चैव महात्मनः
चकार स हि मेधावी पुण्यात्मा पुण्यवत्सलः । समाह्वयति वै मित्रं हरेर्नाम्ना महामतिः
भोभोः केशव एह्येहि एहि माधवचक्रधृक् । क्रीडस्व च मया सार्धं त्वमेव पुरुषोत्तम
सममेवं प्रगंतव्यमावाभ्यां मधुसूदन । एवमेव समाह्वानं नामभिश्च हरेर्द्विजः