दाता भोक्ता गुणग्राही भविष्यसि न संशयः । सुतीर्थे मरणं चापि यास्यसि त्वं परां गतिम्
एवं वरं हरिर्दत्त्वा सप्रियाय द्विजाय सः । अंतर्धानं गतो देवः स्वप्नवत्परिदृश्यते
तदा सुमनया युक्तः सोमशर्मा द्विजोत्तमः । सुतीर्थे पावने तस्मिन्रेवातीरे सुपुण्यदे
अमरकंटके विप्रो दानं पुण्यं करोति सः । गते बहुतरे काले तस्य वै सोमशर्मणः
कपिलारेवयोः संगे स्नानं कृत्वा स निर्गतः । दृष्टवान्पुरतो विप्रः श्वेतमेकं हि कुंजरम्
सुप्रभं सुंदरं दिव्यं सुमदं चारुलक्षणम् । नानाभरणशोभांगं बहुलक्ष्म्या समन्वितम्
सिंदूरैः कुंकुमैस्तस्य कुंभस्थले विराजिते । कर्णनीलोत्पलयुतं पताकादंडसंयुतम्
नागोपरिस्थितो दिव्यः पुरुषो दृढसुप्रभः । दिव्यलक्षणसंपन्नः सर्वाभरणभूषितः
दिव्यमाल्यांबरधरो दिव्यगंधानुलेपनः । सुसौम्यं सोमवत्पूर्णच्छत्रचामरसंयुतम्
नागारूढं प्रयांतं तं पुनः पश्यति सत्तमः । सिद्धचारणगंधर्वैः स्तूयमानं सुमंगलम्
सगजं सुंदरं दृष्ट्वा पुरुषं दिव्यलक्षणम् । व्यतर्कयत्सोमशर्मा विस्मयाविष्टमानसः
कोऽयं प्रयाति दिव्यांगः पंथानं प्राप्य सुव्रतः । एवं चिंतयतस्तस्य यावद्गृहं समाप्तवान्
प्रविशंतं गृहद्वारं देवरूपं मनोहरम् । हर्षेण महताविष्टः सोमशर्मा द्विजोत्तमः
स्वगृहं प्रति धर्मात्मा त्वरमाणः प्रयाति च । गृहद्वारं गतो यावत्तावत्तं तु न पश्यति
पतितान्येव पुष्पाणि सौहृद्यानि महामतिः । दिव्यानि वासयुक्तानि प्रांगणे द्विजसत्तमः
चंदनैः कुंकुमैः पुण्यैः सुगंधैस्तु विलेपितम् । स्वकीयं प्रांगणे दृष्ट्वा दूर्वाक्षतसमन्वितम्
स एवं विस्मयाविष्टश्चिंतयानः पुनः पुनः । ददर्श सुमनां प्राज्ञो दिव्यमंगलसंपदम्
सोमशर्मोवाच- केन दत्तानि दिव्यानि एतान्याभरणानि च । शृंगारंरूपसौभाग्यं वस्त्रालंकारभूषणम्
तन्मे त्वं कारणं भद्रे कथयस्वाविशंकिता । एवं संभाष्यतां भार्यां विरराम द्विजोत्तमः
सुमनोवाच- शृणु कांत समायातः कश्चिद्देववरोत्तमः । श्वेतनागसमारूढो दिव्याभरणभूषितः
दिव्यगंधानुलिप्तांगो दिव्याश्चर्यसमन्वितः । न जाने को हि देवोसौ विप्रगंधर्वसेवितः
स्तूयमानः समायातो देवगंधर्वचारणैः । योषितः पुण्यरूपाढ्या रूपशृंगारसंयुताः
सर्वाभरणशोभाढ्याः सर्वाः पूर्णमनोरथाः । ताभिः सह समक्षं मे पुरुषेण महात्मना
चतुष्कं पूरितं रत्नैः सर्वशोभासमन्वितम् । तत्राहमासने पुण्ये स्थापिता ब्राह्मणैः किल
वस्त्रालंकारभूषां मे ददुस्ते सर्व एव हि । वेदमंगलगीतैस्तु शास्त्रगीतैश्च पुण्यदैः
अभिषिक्तास्मि तैः सर्वैरंतर्धानं पुनर्गताः । मामेवं परितः सर्वे पुनरूचुर्द्विजोत्तम
तव गेहं वयं सर्वे वसिष्यामः सदैव हि । शुचिर्भव सुकल्याणि भर्त्रा सार्द्धं सदैव हि
एवमुक्त्वा गताः सर्वे एवं दृष्टं मयैव हि । तया यत्कथितं वृत्तं समाकर्ण्य महामतिः
पुनश्चिंतां प्रपन्नोऽसौ किमिदं देवनिर्मितम् । विचिन्तयित्वाथ तदा सोमशर्मा महामतिः
ब्रह्मकर्मणि संयुक्तः साधर्म्यं धर्ममुत्तमम् । तस्माद्गर्भं महाभागा दधार व्रतशालिनी