जय विक्रमशोभांग जय उद्यमदायक । जय उद्यमकालाय उद्यमाय नमोनमः
जय उद्यमशक्ताय उद्यमत्रयधारक । युद्धोद्यमप्रवृत्ताय तस्मै धर्माय ते नमः
नमो हिरण्यरेताय तस्मै ते जायते नमः । अतितेजःस्वरूपाय सर्वतेजोमयाय च
दैत्यतेजोविनाशाय पापतेजोहराय च । गोब्राह्मणहितार्थाय नमोस्तु परमात्मने
नमोस्तु हुतभोक्त्रे च नमो हव्यवहाय ते । नमः कव्यवहायैव स्वधारूपाय ते नमः
स्वाहारूपाय यज्ञाय पावनाय नमोनमः । नमस्ते शार्ङ्गहस्ताय हरये पापहारिणे
सदसच्चोदनायैव नमो विज्ञानशालिने । नमो वेदस्वरूपाय पावनाय नमोनमः
नमोस्तु हरिकेशाय सर्वक्लेशहराय ते । केशवाय परायैव नमस्ते विश्वधारिणे
नमः कृपाकरायैव नमो हर्षमयाय ते । अनंताय नमो नित्यं शुद्धाय क्लेशनाशिने
आनंदाय नमो नित्यं शुद्धाय केवलाय ते । रुद्रैर्नमितपादाय विरंचिनमिताय ते
सुरासुरेंद्रनमित पादपद्माय ते नमः । नमोनमः परेशाय अजितायामृतात्मने
क्षीरसागरवासाय नमः पद्माप्रियाय ते । ॐकाराय च शुद्धाय अचलाय नमोनमः
व्यापिने व्यापकायैव सर्वव्यसनहारिणे । नमोनमो वराहाय महाकूर्माय ते नमः
नमो वामनरूपाय नृसिंहाय महात्मने । नमो रामाय दिव्याय सर्वक्षत्रवधाय च
सर्वज्ञानाय मत्स्याय नमो रामाय ते नमः । नमः कृष्णाय बुद्धाय नमो म्लेच्छप्रणाशिने
नमः कपिलविप्राय हयग्रीवाय ते नमः । नमो व्यासस्वरूपाय नमः सर्वमयाय ते
एवं स्तुत्वा हृषीकेशं तमुवाच जनार्दनम् । गुणानां तु परं पारं ब्रह्मा वेत्ति न पावन
न चैव स्तोतुं सर्वज्ञस्तथा रुद्र सःहस्रदृक् । वक्तुं को हि समर्थस्तु कीदृशी मे मतिर्विभो
निर्गुणं सगुणं स्तोत्रं मयैव तव केशव । क्षमशब्दापशब्दं मे तव दासोस्मि सुव्रत
जन्मजन्मनि लोकेश दयां मे कुरु पावन
हरिरुवाच- तपसानेन पुण्येन सत्येनानेन ते द्विज । स्तोत्रेण पावनेनापि तुष्टोस्मि व्रियतां वरः
वरं दद्मि महाभाग यत्ते मनसि वर्तते । यंयमिच्छसि कामं त्वं तंतं ते पूरयाम्यहम्
सोमशर्मोवाच- प्रथमं देहि मे कृष्ण वरमेकं सुवाञ्छितम् । सुप्रसन्नेन मनसा यद्यस्ति सुदया मम
जन्मजन्मांतरं प्राप्य तव भक्तिं करोम्यहम् । दर्शयस्व परं स्थानमचलं मोक्षदायकम्
स्ववंशतारकं पुत्रं दिव्यलक्षणसंयुतम् । विष्णुभक्तिपरं नित्यं मम वंशप्रधारकम्
सर्वज्ञं सर्वदं दांतं तपस्तेजः समन्वितम् । देवब्राह्मणलोकानां पालकं पूजकं सदा
देवमित्रं पुण्यभावं दातारं ज्ञानपंडितम् । देहि मे ईदृशं पुत्रं दारिद्रं हर केशव
भवत्वेवं न संदेहो वरमेनं वृणोम्यहम् । हरिरुवाच- एवमस्तु द्विजश्रेष्ठ भविष्यति न संशयः
मत्प्रसादात्सुपुत्रस्तु तव वंश प्रतारकः । भोक्ष्यसि त्वं वरान्भोगान्दिव्यांश्च मानुषानिह
समालोक्य परं सौख्यं पुत्रसंभवजं शुभम् । यावज्जीवसि विप्र त्वं तावद्दुःखं न पश्यसि