पापौघभूरिभारस्य दाहार्थे च प्रजापतिः । प्रयागं विदधे भूप प्रजानां च हिते स्थितः
शृणु स्थानमिदं सम्यक्सितासित जलं किल । पापरूप पशूनां च ब्रह्मणा विहितं पुरा
सितासितजले मज्जेदपि पापशतान्वितः । मकरस्थे रवौ माघे नैव गर्भेषु मज्जति
सूनारतोऽपि यो मर्त्यः प्रयागे स्नानमाचरेत् । माघेमासि नरव्याघ्र स याति परमंपदम्
सितासिता तु या धारा सरस्वत्याविगर्भिता । तन्मार्गं विष्णुलोकस्य सृष्टिकर्ता ससर्ज वै
दुस्तरा वैष्णवी माया देवैरपि सुदुर्जया । प्रयागे दह्यते सा तु माघे मासि नराधिप
तेजोमयेषु लोकेषु भुक्त्वा भोगाननेकशः । पश्चाच्चक्रिणि लीयंते प्रयागे माघ मज्जनात्
उपस्पृशति यो माघे मकरार्के सितासिते । न तत्पुण्यं च संख्यातुं चित्रगुप्तोऽपि वेत्यलम्
सन्निमज्जति यो माघे मकरस्थ सितासिते । तस्य पुण्यस्य माहात्म्यं वक्तुं ब्रह्मापि न क्षमः
संवत्सरशतं साग्रं निराहारस्य यत्फलम् । प्रयागे माघमासे तु त्र्यहस्नानस्य तत्फलम्
स्वर्णभारसहस्रेण कुरुक्षेत्ररविग्रहे । यत्फलं लभते माघे वेण्याः स्नानाद्दिने दिने
राजसूयसहस्रस्य राजन्नविकलं फलम् । सितासिते तु माघे च स्नानानां भवति ध्रुवम्
पृथिव्यां यानि तीर्थानि पुर्यः सप्त च याः पुनः । वेण्यां स्नातुं समायांति माघेमासि नृपोत्तम
सर्वतीर्थानि कृष्णानि पापिनां संगदोषतः । भवंति शुक्लवर्णानि प्रयागे माघमज्जनात्
आकल्पसंचितं पापं जन्मभिर्यन्नरैर्नृप । तद्भवेद्भस्मसान्माघे स्नातानां च सितासिते
वाङ्मनःकायजं पापं नरस्य विलयं व्रजेत् । प्रयागे माघमासे तु त्र्यहस्नातस्य निश्चितम्
प्रयागे माघमासे यस्त्र्यहं स्नाति च मानवः । पापं त्यक्त्वा दिवं याति जीर्णां त्वचमिवोरगः
कुरुक्षेत्रसमा गंगा यत्रकुत्रावगाहिता । तस्माद्दशगुणा पुण्या यत्र विंध्येन संगता
तस्माच्छतगुणा गंगा काश्यामुत्तरवाहिनी । काश्याः शतगुणाः प्रोक्ता गंगायामुनसंगमे
सा सहस्रगुणा तासां भवेत्पश्चिमवाहिनी । या राजन्दर्शनादेव ब्रह्महत्यापहारिणी
या पश्चाद्वाहिनी गंगा कालिंद्या सह संगता । हंति कोटिकृतं पापं सा माघे नृप दुर्लभा 6.127.
यत्कथ्यतेऽमृतं राजन्सा वेणी भुवि कीर्तिता । तस्यां माघे मुहूर्तं तु देवानामपि दुर्लभम्
ब्रह्माविष्णुर्महादेवो रुद्रादित्यमरुद्गणाः । गंधर्वा लोकपालाश्च यक्षकिन्नरपन्नगाः
अणिमादिगुणैः सिद्धा ये चान्ये तत्त्ववादिनः । ब्रह्माणी पार्वती लक्ष्मीः शची मेनादितिर्दितिः
सर्वास्ता देवपत्न्यश्च तथा नागांगना नृप । घृताची मेनका रंभा उर्वशी च तिलोत्तमा
गणा ह्यप्सरसां सर्वे पितॄणां च गणास्तथा । स्नातुमायांति ते सर्वे माघे वेण्यां नराधिप
कृते युगे स्वरूपेण कलौ प्रच्छन्नरूपिणः । प्रयागे माघमासे तु त्र्यहस्नानस्य यत्फलम्
नाश्वमेधसहस्रेण तत्फलं लभते भुवि । त्र्यहस्नानफलं माघे पुरा कांचनमालिनी
राक्षसाय ददौ भूप तेन मुक्तः स पापकृत् । कार्तवीर्य उवाच । भगवन्राक्षसः कोऽसौ सा का कांचनमालिनी
कथं दत्तवती धर्मं कथं वा तस्य सद्गतिः । एतत्कथय योगींद्र अत्रिसंतानभास्कर । यदि त्वं मन्यसे श्राव्यं परं कौतूहलं हि मे