शरणं तं प्रपन्नोस्मि सदागतिरयं मम । अतिशीतं चातिवर्षा आतपस्तापदायकः
एषां रूपेण यो देवस्तस्याहं शरणं गतः । कालरूपा अमी प्राप्ता भयदा मम चालकाः
एषां शरणं प्रपन्नोस्मि हरेः स्वरूपिणां सदा
यं सर्वदेवं परमेश्वरं हि निष्केवलं ज्ञानमयं प्रदीपम् । वदंति नारायणमादिसिद्धं सिद्धेश्वरं तं शरणं प्रपद्ये
इति ध्यायन्स्तुवन्नित्यं केशवं क्लेशनाशनम् । भक्त्या तेन समानीतस्तदात्महृदये हरिः
उद्यमं विक्रमं तस्य स दृष्ट्वा सोमशर्मणः । आविर्भूय हृषीकेशस्तमुवाच प्रहृष्टवान्
सोमशर्मन्महाप्राज्ञ श्रूयतां भार्यया सह । वासुदेवोस्मि विप्रेंद्र वरं याचय सुव्रत
तेनोक्तो हि स विप्रेन्द्र उन्मील्य नयनद्वयम् । दृष्ट्वा विश्वेश्वरं देवं घनश्यामं महोदयम्
सर्वाभरणशोभांगं सर्वायुधसमन्वितम् । दिव्यलक्षणसंपन्नं पुंडरीकनिभेक्षणम्
पीतेन वाससा युक्तं राजमानं सुरेश्वरम् । वैनतेयसमारूढं शंखचक्रगदाधरम्
ब्रह्मादीनां सुधातारं जगतोस्य महायशाः । विश्वस्यास्य सदातीतं रूपातीतं जगद्गुरुम्
हर्षेण महताविष्टो दंडवत्प्रणिपत्य तम् । श्रियायुक्तं भासमानं सूर्यकोटिसमप्रभम्
बद्धांजलिपुटोभूत्वा तया सुमनया सह । जयजयेत्युवाचैनं जयमाधवमानद
जय योगीश योगीन्द्र जय नागांगशायन । यज्ञांग जय यज्ञेश जय शाश्वतसर्वग
जय सर्वेश्वरानंत यज्ञरूप नमोऽस्तु ते । जय ज्ञानवतां श्रेष्ठ जय त्वं ज्ञाननायक
जय सर्वदसर्वज्ञ जय त्वं सर्वभावन । जय जीवस्वरूपेश महाजीव नमोस्तुते
जय प्रज्ञादप्रज्ञांग जय प्राणप्रदायक । जय पापघ्न पुण्येश जय पुण्यपते हरे
जय ज्ञानस्वरूपेश ज्ञानगम्याय ते नमः । जय पद्मपलाशाक्ष पद्मनाभाय ते नमः
जय गोविंदगोपाल जय शंखधरामल । जय चक्रधराव्यक्त व्यक्तरूपाय ते नमः
जय विक्रमशोभांग जय विक्रमनायक । जय लक्ष्मीविलासांग नमो वेदमयाय ते
जय विक्रमशोभांग जय उद्यमदायक । जय उद्यमकालाय उद्यमाय नमोनमः
जय उद्यमशक्ताय उद्यमत्रयधारक । युद्धोद्यमप्रवृत्ताय तस्मै धर्माय ते नमः
नमो हिरण्यरेताय तस्मै ते जायते नमः । अतितेजःस्वरूपाय सर्वतेजोमयाय च
दैत्यतेजोविनाशाय पापतेजोहराय च । गोब्राह्मणहितार्थाय नमोस्तु परमात्मने
नमोस्तु हुतभोक्त्रे च नमो हव्यवहाय ते । नमः कव्यवहायैव स्वधारूपाय ते नमः
स्वाहारूपाय यज्ञाय पावनाय नमोनमः । नमस्ते शार्ङ्गहस्ताय हरये पापहारिणे
सदसच्चोदनायैव नमो विज्ञानशालिने । नमो वेदस्वरूपाय पावनाय नमोनमः
नमोस्तु हरिकेशाय सर्वक्लेशहराय ते । केशवाय परायैव नमस्ते विश्वधारिणे
नमः कृपाकरायैव नमो हर्षमयाय ते । अनंताय नमो नित्यं शुद्धाय क्लेशनाशिने
आनंदाय नमो नित्यं शुद्धाय केवलाय ते । रुद्रैर्नमितपादाय विरंचिनमिताय ते