ध्यायमानस्य तस्यापि विघ्नैः संदर्शितं भयम् । सर्पा विषोल्बणाः कृष्णास्तत्र यांति महात्मनः
पार्श्वे ते तप्यमानस्य तस्य ते सोमशर्मणः । सिंहव्याघ्रगजा दृष्टा भयमेवं प्रचक्रिरे
वेताला राक्षसा भूताः कूष्मांडाः प्रेतभैरवाः । भयं विदर्शयंत्येते दारुणं प्राणनाशनम्
नानाविधा महाभीमाः सिंहास्तत्र समागताः । दंष्ट्राकरालवक्त्राश्च जगर्जुश्चातिभैरवम्
विष्णोर्ध्यानात्स धर्मात्मा न चचाल महामतिः । महाविघ्नैः सुसंरूढैश्चालितो मुनिपुंगवः
एवं न चलते ध्यानात्सोमशर्मा द्विजोत्तमः । झंझावातैश्च शीतेन महावृष्ट्या सुपीडितः
भंभारावमहाभीमः सिंहस्तत्र समागतः । तं दृष्ट्वा भयवित्रस्तः सस्मार नृहरिं द्विजः
इंद्रनीलप्रतीकाशं पीतवस्त्रं महौजसम् । शंखचक्रधरं देवं गदापंकजधारिणम्
महामौक्तिकहारेण इंदुवर्णानुकारिणा । कौस्तुभेनापि रत्नेन द्योतमानं जनार्दनम्
श्रीवत्सांकेन दिव्येन हृदयं यस्य राजते । सर्वाभरणशोभांगं शतपत्रनिभेक्षणम्
सुस्मितास्यं सुप्रसन्नं रत्नदामाभिशोभितम् । भ्राजमानं हृषीकेशं ध्यानं तेन कृतं ध्रुवम्
त्वमेव शरणं कृष्ण शरणागतवत्सल । नमोस्तु देवदेवाय किं मे भयं करिष्यति
यस्योदरे त्रयो लोकाः सप्त चान्ये महात्मनः । शरणं तस्य प्रविष्टोस्मि क्वास्ते भयं ममैव हि
यस्माद्भयाः प्रवर्तंते कृत्यादिक महाबलाः । सर्वभयप्रहर्तारं तमस्मि शरणं गतः
पातकानां तु सर्वेषां दानवानां महाभयम् । रक्षको विष्णुभक्तानां तमस्मि शरणं गतः
वृंदारकाणां सर्वेषां दानवानां महात्मनाम् । यो गतिः कृष्णभक्तानां तमस्मि शरणं गतः
अभयो भयनाशाय पापनाशाय ज्ञानवान् । एकश्चेंद्रस्वरूपेण तमस्मि शरणं गतः
व्याधीनां नाशकायैव य औषधस्वरूपवान् । निरामयो निरानंदस्तमस्मि शरणंगतः
अचलश्चालयेल्लोकानपापो ज्ञानमेव च । तमस्मि शरणं प्राप्तो भयं किं मे करिष्यति
साधूनां चापि सर्वेषां पालको यो ह्यनामयः । पाति विश्वं च विश्वात्मा तमस्मि शरणंगतः
यो मे मृगेंद्ररूपेण भयं दर्शयतेग्रतः । तमहं शरणं प्राप्तो नरसिंहं नमाम्यहम्
मदमत्तो महाकायो वनहस्ती समागतः । गजलीलागतिं देवं शरणागतवत्सलम्
गजास्यं ज्ञानसंपन्नं सपाशांकुशधारिणम् । कालास्यं गजतुंडं च शरणं सुगतोस्म्यहम्
हिरण्याक्षप्रहर्तारं वाराहं शरणंगतः । वामनं तं प्रपन्नोस्मि शरणागतवत्सलम्
ह्रस्वास्तु वामनाः कुब्जाः प्रेताः कूष्मांडकादयः । मृत्युरूपधराः सर्वे दर्शयंति भयं मम
अमृतं तं प्रपन्नोस्मि किं भयं मे करिष्यति । ब्रह्मण्यो ब्रह्मदो ब्रह्मा ब्रह्मज्ञानमयो हरिः
शरणं तं प्रपन्नोस्मि भयं किं मे करिष्यति । अभयो यो हि जगतो भीतिघ्नो भीतिदायकः
भयरूपं प्रपन्नोस्मि भयं किं मे करिष्यति । तारकः सर्वलोकानां नाशकः सर्वपापिनाम्
तमहं शरणं प्राप्तो धर्मरूपं जनार्दनम् । सुरारणं यो हि रणे वपुर्द्धारयतेऽद्भुतम्
शरणं तस्य गंतास्मि सदागतिरयं मम । झंझावातो महाचंडो वपुर्दूयति मे भृशम्