महामोहेन संमुग्धः प्रियया बोधितो द्विज । तयाहं प्रेषितस्तात तव पार्श्वं समातुरः
तत्सर्वं हि समाचक्ष्व सर्वसंदेहनाशकम् । मुक्तिदाता भवस्व त्वं ममसंसारबंधनात्
वसिष्ठ उवाच- पुत्रा मित्राण्यथ भ्राता अन्ये स्वजनबांधवाः । पंचभेदास्तु संभेदात्पुरुषस्य भवंति ते
ते ते सुमनया प्रोक्ताः पूर्वमेव तवाग्रतः । ऋणसंबंधिनः सर्वे ते कुपुत्रा द्विजोत्तम
पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् । पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा
शुद्धिविज्ञानसंपन्नस्तपस्वी वाग्विदां वरः । सर्वकर्मसुसंधीरो वेदाध्ययनतत्परः
स सर्वशास्त्रवेत्ता च देवब्राह्मणपूजकः । याजकः सर्वयज्ञानां दाता त्यागी प्रियंवदः
विष्णुध्यानपरो नित्यं शांतो दांतः सुहृत्सदा । पितृमातृपरोनित्यं सर्वस्वजनवत्सलः
कुलस्य तारको विद्वान्कुलस्य परिपोषकः । एवं गुणैश्च संयुक्तः सपुत्रः सुखदायकः
अन्ये संबंधसंयुक्ताः शोकसंतापदायकाः । एतादृशेन किं कार्यं फलहीनेन तेन च
आयांति यांति ते सर्वे तापं दत्वा सुदारुणम् । पुत्ररूपेण ते सर्वे संसारे द्विजसत्तम
पूर्वजन्मकृतं पुण्यं यत्त्वया परिपालितम् । तत्सर्वं हि प्रवक्ष्यामि श्रूयतामद्भुतं पुनः
वसिष्ठ उवाच- भवाञ्छूद्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा । कृषिकर्त्ता ज्ञानहीनो महालोभेन संयुतः
एकभार्या सदा द्वेषी बहुपुत्रो ह्यदत्तवान् । धर्मं नैव विजानासि सत्यं नैव परिश्रुतम्
दानं नैव त्वया दत्तं शास्त्रं नैव प्रतिश्रुतम् । कृता नैव त्वया तीर्थे यात्रा चैव महामते
एवं कृतं त्वया विप्र कृषिमार्गं पुनः पुनः । पशूनां पालनं सर्व गवां चैव द्विजोत्तम
महिषीणां तथाऽश्वानां पालनं च पुनः पुनः । एवं पू र्वंकृतं कर्म त्वयैव द्विजसत्तम
विपुलं च धनं तद्वल्लोभेन परिसंचितम् । तस्य व्ययं सुपुण्येन न कृतं तु त्वया कदा
पात्रे दानं न दत्तं तु दृष्ट्वा दुर्बलमेव च । कृपां कृत्वा न दत्तं तु भवता धनमेव च
गोमहिष्यादिकं सर्वं पशूनां संचितं त्वया । विक्रीय च धनं विप्र संचितं विपुलं त्वया
तक्रं घृतं तथा क्षीरं विक्रयित्वा ततो दधि । दुष्कालं चिंतितं विप्र मोहितो विष्णुमायया
कृतं महार्घमेवात्र अन्नं ब्राह्मणसत्तम । निर्दयेन त्वया दानं न दत्तं तु कदाचन
देवानां पूजनं विप्र भवता न कृतं कदा । प्राप्य पर्वाणि विप्रेभ्यो द्रव्यं न च समर्पितम्
श्राद्धंकालंतुसंप्राप्यश्रद्धयानकृतंत्वया । भार्या वदति ते साध्वी दिनमेनं समागतम्
श्वशुरस्य श्राद्धकालः श्वश्र्वाश्चैव महामते । त्वं श्रुत्वा तद्वचस्तस्या गृहं त्यक्त्वा पलायसे
धर्ममार्गं न दृष्टं ते श्रुतं नैव कदा त्वया । लोभो मातापिता भ्राता लोभः स्वजनबांधवाः
पालितं लोभमेवैकं त्यक्त्वा धर्मं सदैव हि । तस्माद्दुःखी भवाञ्जातो दरिद्रेणातिपीडितः
दिनेदिने महातृष्णा हृदये ते प्रवर्द्धते । यदायदा गृहे द्रव्यं वृद्धिमायाति ते तदा
तृष्णया दह्यमानस्तु तया त्वं वह्निरूपया । रात्रौ वा सुप्रसुप्तस्तु निश्चितो हि प्रचिंतसि
दिनं प्राप्य महामोहैर्व्यापितोसि सदैव हि । सहस्रं लक्षं मे कोटिः कदा अर्बुदमेव च