सर्वपापसमाचारो नीयते यमकिंकरैः । यमं पश्यति दुष्टात्मा कृष्णांजनचयोपमम्
तमुग्रं दारुणं भीमं भीमदूतैः समावृतम् । सर्वव्याधिसमाकीर्णं चित्रगुप्तसमन्वितम्
आरूढं महिषं देवं धर्मराजं द्विजोत्तम । दंष्ट्राकरालमत्युग्रं तस्यास्यं कालसंनिभम्
पीतवासं गदाहस्तं रक्तगंधानुलेपनम् । रक्तमाल्यकृताभूषं गदाहस्तं भयंकरम्
एवंविधं महाकायं यमं पश्यति दुर्मतिः । तं दृष्ट्वा समनुप्राप्तं सर्वधर्मबहिष्कृतम्
यमः पश्यति तं दुष्टं पापिष्ठं धर्मकंटकम् । शासयेत्तु महादुःखैः पीडाभिर्दारुमुद्गलैः
यावद्युगसहस्रांतं तावत्कालं प्रपच्यते । नानाविधे च नरके पच्यते च पुनः पुनः
नारकीं याति वै योनिं कृमिकोटिषु पापकृत् । अमेध्ये पच्यते नित्यं हाहाभूतो विचेतनः
मरणं च स पापात्मा एवं याति सुनिश्चितम् । एवं पापस्य संयोगं भुंक्ते चैव सु दुर्मतिः
पुनर्जन्म प्रवक्ष्यामि यासु योनिषु याति च । शुनां योनिशतं प्राप्य भुंक्ते वै पातकं पुनः
व्याघ्रो भवति दुष्टात्मा रासभीं याति वै पुनः । मार्जार शूकरीं योनिं सर्पयोनिं तथैव च
नानाभेदासु सर्वासु तिर्यक्षु च पुनः पुनः । पापपक्षिषु संयाति अन्यासु महतीषु च
चांडाल भिल्लयोनिं च पुलिंदीं याति पापकृत् । एतत्ते सर्वमाख्यातं पापिनां जन्म चैव हि
मरणे शृणु कांत त्वं चेष्टां तेषां सुदारुणाम् । पापपुण्यसमाचारस्तवाग्रे कथितो मया
अन्यदेवं प्रवक्ष्यामि यदि पृच्छसि मानद
सोमशर्मोवाच- सर्वं देवि समाख्यातं धर्मसंस्थानमुत्तमम् । कथं पुत्रमहं विंद्यां सर्वज्ञं गुणसंयुतम्
वद त्वं मे महाभागे यदि जानासि सुव्रते । दानधर्मादिकं भद्रे परत्रेह न संशयः
सुमनोवाच- वसिष्ठं गच्छ धर्मज्ञं तं प्रार्थय महामुनिम् । तस्मात्प्राप्स्यसि वै पुत्रं धर्मज्ञं धर्मवत्सलम्
सूत उवाच- एवमुक्ते तया वाक्ये सोमशर्मा द्विजोत्तमः । एवं करिष्ये कल्याणि तव वाक्यं न संशयः
एवमुक्त्वा जगामाशु सोमशर्मा द्विजोत्तमः । वसिष्ठं सर्ववेत्तारं दिव्यं तं तपतां वरम्
गंगातीरे स्थितं पुण्यमाश्रमस्थं द्विजोत्तमम् । तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम्
राजमानं महात्मानं ब्रह्मण्यं च द्विजोत्तमम् । भक्त्या प्रणम्य विप्रेशं दंडवच्च पुनः पुनः
तमुवाच महातेजा ब्रह्मसूनुरकल्मषः । उपाविशासने पुण्ये सुखेन सुमहामते
एवमुक्त्वा स योगींद्रः पुनः प्राह तपोधनम् । गृहे पुत्रेषु ते वत्स दारभृत्येषु सर्वदा
क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु । निरामयोसि चांगेषु धर्मं पालयसे सदा
एवमुक्त्वा महाप्राज्ञः पुनः प्राह सुशर्मणम् । किं करोमि प्रियं कार्यं सुप्रियं ते द्विजोत्तम
एवं संभाषितं विप्रं विरराम स कुंभजः । तस्मिन्नुक्ते महाभागे वसिष्ठे मुनिपुंगवे
स होवाच महात्मानं वसिष्ठं तपतां वरम् । भगवञ्छ्रूयतां वाक्यं सुप्रसन्नेन चेतसा
यदि मे सुप्रियं कार्यं त्वयैव मुनिपुंगव । मम प्रश्नार्थसंदेहं विच्छेदय द्विजोत्तम
दारिद्र्यं केन पापेन पुत्रसौख्यं कथं नहि । एतन्मे संशयं तात कस्मात्पापाद्वदस्व मे