निजधर्मप्रसादात्स कुलं पुण्यं प्रयाति वै । ब्राह्मणस्य सुपुण्यस्य क्षत्रियस्य तथैव च
धनाढ्यस्य सुपुण्यस्य वैश्यस्यैव महामते । धर्मेण मोदते तत्र पुनः पुण्यं करोति सः
सोमशर्मोवाच- पापिनां मरणं भद्रे कीदृशैर्लक्षणैर्युतम् । तन्मे त्वं विस्तराद्ब्रूहि यदि जानासि भामिनि
सुमनोवाच- श्रूयतामभिधास्यामि तस्मात्सिद्धाच्छ्रुतं मया । पापिनां मरणे कांत यादृशं लिंगमेव च
महापातकिनां चैव स्थानं चेष्टां वदाम्यहम् । विण्मूत्रामेध्यसंयुक्तां भूमिं पापसमन्विताम्
सतां प्राप्य सुदुष्टात्मा प्राणान्दुःखेन मुंचति । चांडालभूमिं संप्राप्य मरणं याति दुःस्थितः
गर्दभाचरितां भूमिं वेश्यागेहं समाश्रितः । कल्पपालगृहं गत्वा निधनायोपगच्छति
अस्थिचर्मनखैः पूर्णमाश्रितं पापकिल्बिषैः । तां प्राप्य च स दुष्टात्मा मृत्युं याति सुनिश्चितम्
अन्यां पापसमाचारां प्राप्य मृत्युं स गच्छति । अथ चेष्टां प्रवक्ष्यामि दूतानां तु तमिच्छताम्
भैरवान्दारुणान्घोरानतिकृष्णान्महोदरान् । पिंगाक्षान्पीतनीलांश्च अतिश्वेतान्महोदरान्
अत्युच्चान्विकरालांश्च शुष्कमांसवसोपमान् । रौद्रदंष्ट्रान्करालांश्च सिंहास्यान्सर्पहस्तकान्
सतान्दृष्ट्वा प्रकंपेत खिद्यते च मुहुर्मुहुः । शिवासंनादवद्घोरान्महारावान्महामते
मुंचंति दूतकाः सर्वे कर्णमूले तु तस्य हि । गले पाशैः प्रबद्ध्वा ते कटिं बद्ध्वा तथोदरे
समाधृष्य निपात्यंते हाहेति वदते मुहुः । म्रियमाणस्य या चेष्टा तामेवं प्रवदाम्यहम्
परद्रव्यापहरणं परभार्याविडंबनम् । ऋणं परस्य सर्वस्वं गृहीतं यत्तु पापिभिः
पुनर्नैव प्रदत्तं हि लोभास्वादविमोहतः । अन्यदेवं महापापं कुप्रतिग्रहमेव च
कंठमायांति ते सर्वे म्रियमाणस्य तस्य च । यानिकानि च पापानि पूर्वमेव कृतानि च
आयांति कंठमूलं ते महापापस्य नान्यथा । दुःखमुत्पादयंत्येते कफबंधेन दारुणम्
पीडाभिर्दारुणाभिस्तु कंठो घुरघुरायते । रोदते कंपतेऽत्यर्थं मातरं पितरं पुनः
स्मरते भ्रातरं तत्र भार्यां पुत्रान्पुनःपुनः । पुनर्विस्मरणं याति महापापेन मोहितः
तस्य प्राणान गच्छंति बहुपीडासमाकुलाः । पतते कंपते चैव मूर्च्छते च पुनःपुनः
एवं पीडासमायुक्तो दुःखं भुंक्तेति मोहितः । तस्य प्राणाः सुदुःखेन महाकष्टैः प्रचालिताः
अपानमार्गमाश्रित्य शृणु कांत प्रयांति ते । एवं प्राणी महामुग्धो लोभमोहसमन्वितः
नीयते यमदूतैस्तु तस्य दुःखं वदाम्यहम्
सुमनोवाच- अंगारसंचये मार्गे घृष्यमाणो हि नीयते । दह्यमानः स दुष्टात्मा चेष्टमानः पुनः पुनः
यत्रातपो महातीव्रो द्वादशादित्यतापितः । नीयते तेन मार्गेण संतप्तः सूर्यरश्मिभिः
पर्वतेष्वेव दुर्गेषु छायाहीनेषु दुर्मतिः । नीयते तेन मार्गेण क्षुधातृष्णाप्रपीडितः
स दूतैर्हन्यमानस्तु गदाखड्गैः परश्वधैः । कशाभिस्ताड्यमानस्तु निंद्यमानस्तु दूतकैः
ततः शीतमये मार्गे वायुना सेव्यते पुनः । तेन शीतेन दुःखी स भूत्वा याति न संशयः
आकृष्यमाणो दूतैस्तु नानादुर्गेषु नीयते । एवं पापी स दुष्टात्मा देवब्राह्मणनिंदकः