अन्यच्च ते प्रवक्ष्यामि श्रोतुमिच्छसि यत्पते । ईदृशे चापि धर्मे तु वर्तते यो नरः सदा
संसारे तस्य संभूतिः पुनरेव न जायते । स्वर्गं गच्छति धर्मेण सत्यंसत्यं वदाम्यहम्
एवं ज्ञात्वा महाप्राज्ञ धर्ममेव व्रजस्व हि । सर्वं हि प्राप्यते कांत यदसाध्यं महीतले
धर्मप्रसादतस्तस्मात्कुरु वाक्यं ममैव हि । भार्यायास्तुवचः श्रुत्वा सोमशर्मा सुबुद्धिमान्
पुनः प्रोवाच तां भार्यां सुमनां धर्मवादिनीम्
सोमशर्मोवाच- एवंविधं महापुण्यं धर्मव्याख्यानमुत्तमम् । कथं जानासि भद्रे त्वं कस्माच्चैव त्वया श्रुतम्
सुमनोवाच-। भार्गवाणां कुले जातः पिता मम महामते । च्यवनो नाम विख्यातः सर्वज्ञानविशारदः
तस्याहं प्रिय कन्या वै प्राणादपि च वल्लभा । यत्रयत्र व्रजत्येष तीर्थारामेषु सुव्रत
सभासु च मुनीनां तु देवतायतनेषु च । तेन सार्द्धं व्रजाम्येका क्रीडमाना सदैव हि
कौशिकान्वयसंभूतो वेदशर्मा महामतिः । पितुर्मम सखा दैवादटमानः समागतः
दुःखेन महताविष्टश्चिंतयानो मुहुर्मुहुः । समागतं महात्मानं तमुवाच पिता मम
भवंतं दुःखसंतप्तमिति जानामि सुव्रत । कस्माद्दुःखी भवाञ्जातस्तस्मात्त्वं कारणं वद
एतद्वाक्यं ततः श्रुत्वा च्यवनस्य महात्मनः । तमुवाच महात्मानं पितरं मम सुव्रतः
वेदशर्मा महाप्राज्ञ सर्वदुःखस्य कारणम् । मम भार्या महासाध्वी पातिव्रत्यपरायणा
अपुत्रा सा हि संजाता मम वंशो न विद्यते । एतत्ते कारणं प्रोक्तं प्रश्नितोस्मि यतस्त्वया
एतस्मिन्नंतरे प्राप्तः कश्चित्सिद्धः समागतः । मम पित्रा तथा तेन ह्युत्थाय वेदशर्मणा
द्वाभ्यामपि च सिद्धोसौ पूजितो भक्तिपूर्वकैः । उपहारैस्स भोज्यान्नैर्वचनैर्मधुराक्षरैः
द्वाभ्यामन्तर्गतं पृष्टं पूर्वोक्तं च यथा त्वया । उभौ तौ प्राह धर्मात्मा ससखं पितरं मम
धर्मस्य कारणं सर्वं मयोक्तं ते तथा किल । धर्मेण प्राप्यते पुत्रो धनं धान्यं तथा स्त्रियः
ततस्तेन कृतं धर्मं संपूर्णं वेदशर्मणा । तस्माद्धर्मात्सुसंजातं महत्सौख्यं सपुत्रकम्
तेन संगप्रसंगेन ममैष मतिनिश्चयः । यथा कांत तव प्रोक्तं मयैव च परं शुभम्
तस्माच्छ्रुतं महासिद्धात्सर्वसंदेहनाशनम् । विप्रधर्मं समाश्रित्य अनुवर्त्तस्व सर्वदा
सोमशर्मोवाच- धर्मेण कीदृशो मृत्युर्जन्म चैव वदस्व मे । उभयोर्लक्षणं कांते तत्सर्वं हि वदस्व मे
सुमनोवाच- सत्य शौच क्षमा शांति तीर्थपुण्यादिकैस्तथा । धर्मश्च पालितो येन तस्य मृत्युं वदाम्यहम्
रोगो न जायते तस्य न च पीडा कलेवरे । न श्रमो वै न च ग्लानिर्न च स्वेदो भ्रमस्तथा
दिव्यरूपधरा भूत्वा गंधर्वा ब्राह्मणास्तथा । वेदपाठसमायुक्ता गीतज्ञानविशारदाः
तस्य पार्श्वं समायांति स्तुतिं कुर्वंति चातुलाम् । स्वस्थो हि आसने युक्तो देवपूजारतः किल
तीर्थं च लभते प्राज्ञः स्नानार्थं धर्मतत्परः । अग्न्यागारे च गोस्थाने देवतायतनेषु च
आरामे च तडागे च यत्राश्वत्थो वटस्तथा । ब्रह्मवृक्षं समाश्रित्य श्रीवृक्षं च तथा पुनः
अश्वस्थानं समाश्रित्य गजस्थानगतो नरः । अशोकं चूतवृक्षं च समाश्रित्य यदास्थितः