ग्रासमात्रं तथा देयं क्षुधार्ताय न संशयः । दत्ते सति महत्पुण्यममृतं सोश्नुते सदा
दिनेदिने प्रदातव्यं यथाविभवसंभवम् । तृणं शय्यां च वचनं गृहच्छायां सुशीतलाम्
भूमिमापस्तथा चान्नं प्रियवाक्यमनुत्तमम् । आसनं वचनालापं कौटिल्येन विवर्जितम्
आत्मनो जीवनार्थाय नित्यमेव करोति यः । देवान्पितॄन्समभ्यर्च्य एवं दानं ददाति यः
इहैव मोदते सो वै परत्र हि तथैव च । अवंध्यं दिवसं यो वै दानाध्ययनकर्मभिः
प्रकुर्यान्मानुषो भूत्वा स देवो नात्र संशयः । नियमं च प्रवक्ष्यामि धर्मसाधनमुत्तमम्
देवानां ब्राह्मणानां च पूजास्वभिरतो हि यः । नित्यं नियमसंयुक्तो दानव्रतेषु सुव्रत
उपकारेषु पुण्येषु नियमोऽयं प्रकीर्तितः । क्षमारूपं प्रवक्ष्यामि श्रूयतां द्विजसत्तम
पराक्रोशं हि संश्रुत्य ताडिते सति केनचित् । क्रोधं न चैव गच्छेत्तु ताडितो न हि ताडयेत्
सहिष्णुः स्यात्स धर्मात्मा नहि रागं प्रयाति च । समश्नाति परं सौख्यमिह चामुत्र वापि च
एवं क्षमा समाख्याता शौचमेवं वदाम्यहम् । सबाह्याभ्यंतरे यो वै शुद्धो रागविवर्जितः
स्नानाचमनकैरेव व्यवहारेण वर्तते । शौचमेवं समाख्यातमहिंसां तु वदाम्यहम्
तृणमपि विना कार्यञ्छेत्तव्यं न विजानता । अहिंसानिरतो भूयाद्यथात्मनि तथापरे
शांतिमेव प्रक्ष्यामि शांत्या सुखं समश्नुते । शांतिरेव प्रकर्तव्या क्लेशान्नैव परित्यजेत्
भूतवैरं विसृज्यैव मन एवं प्रकारयेत् । एवं शांतिः समाख्याता अस्तेयं तु वदाम्यहम्
परस्वं नैव हर्तव्यं परजाया तथैव च । मनोभिर्वचनैः कायैर्मन एवं प्रकारयेत्
दममेव प्रवक्ष्यामि तवाग्रे द्विजसत्तम । दमनादिंद्रियाणां वै मनसोपि विकारिणः
औद्धत्यं नाशयेत्तेषां स चैतन्यो वशी तदा । शुश्रूषां तु प्रवक्ष्यामि धर्मशास्त्रेषु यादृशी
पूर्वाचार्यैर्यथा प्रोक्ता तामेवं प्रवदाम्यहम् । वाचा देहेन मनसा गुरुकार्यं प्रसाधयेत्
जायतेऽनुग्रहो यत्र शुश्रूषा सा निगद्यते । सांगो धर्मः समाख्यातस्तवाग्रे द्विजसत्तम
अन्यच्च ते प्रवक्ष्यामि श्रोतुमिच्छसि यत्पते । ईदृशे चापि धर्मे तु वर्तते यो नरः सदा
संसारे तस्य संभूतिः पुनरेव न जायते । स्वर्गं गच्छति धर्मेण सत्यंसत्यं वदाम्यहम्
एवं ज्ञात्वा महाप्राज्ञ धर्ममेव व्रजस्व हि । सर्वं हि प्राप्यते कांत यदसाध्यं महीतले
धर्मप्रसादतस्तस्मात्कुरु वाक्यं ममैव हि । भार्यायास्तुवचः श्रुत्वा सोमशर्मा सुबुद्धिमान्
पुनः प्रोवाच तां भार्यां सुमनां धर्मवादिनीम्
सोमशर्मोवाच- एवंविधं महापुण्यं धर्मव्याख्यानमुत्तमम् । कथं जानासि भद्रे त्वं कस्माच्चैव त्वया श्रुतम्
सुमनोवाच-। भार्गवाणां कुले जातः पिता मम महामते । च्यवनो नाम विख्यातः सर्वज्ञानविशारदः
तस्याहं प्रिय कन्या वै प्राणादपि च वल्लभा । यत्रयत्र व्रजत्येष तीर्थारामेषु सुव्रत
सभासु च मुनीनां तु देवतायतनेषु च । तेन सार्द्धं व्रजाम्येका क्रीडमाना सदैव हि
कौशिकान्वयसंभूतो वेदशर्मा महामतिः । पितुर्मम सखा दैवादटमानः समागतः