तं धर्मपूर्वकं विद्धि एतैर्न्यायैस्त्वमेव हि । दुर्वासा उवाच- एवं न्यायं न मन्येहं तथैव शृणु धर्मराट्
शापत्रयं प्रदास्यामि क्रुद्धोहं तव नान्यथा । धर्म उवाच- यदा क्रुद्धो महाप्राज्ञ मामेव हि क्षमस्व च
नैव क्षमसि विप्रेंद्र दासीपुत्रं हि मां कुरु । राजानं तु प्रकर्तव्यं चांडालं च महामुने
प्रसादसुमुखो विप्र प्रणतस्य सदैव हि । दुर्वासाश्च ततः क्रुद्धो धर्मं चैव शशाप ह
दुर्वासा उवाच-। राजा भव त्वं धर्माद्य दासीपुत्रश्च नान्यथा । गच्छ चांडालयोनिं च धर्म त्वं स्वेच्छया व्रज
एवं शापत्रयं दत्त्वा गतोसौ द्विजसत्तमः । अनेनापि प्रसंगेन दृष्टो धर्मः पुरा किल
सोमशर्मोवाच-। धर्मस्तु कीदृशो जातस्तेन शप्तो महात्मना । तद्रूपं तस्य मे ब्रूहि यदि जानासि भामिनि
सुमनोवाच-। भरतानां कुले जातो धर्मो भूत्वा युधिष्ठिरः । विदुरो दासीपुत्रस्तु अन्यं चैव वदाम्यहम्
यदा राजा हरिश्चंद्रो विश्वामित्रेण कर्षितः । तदा चांडालतां प्राप्तः स हि धर्मो महामतिः
एवं कर्मफलं भुक्तं धर्मेणापि महात्मना । दुर्वाससो हि शापाद्वै सत्यमुक्तं तवाग्रतः
सोमशर्मोवाच- लक्षणं ब्रह्मचर्यस्य तन्मे विस्तरतो वद । कीदृशं ब्रह्मचर्यं च यदि जानासि भामिनि
नित्यं सत्ये रतिर्यस्य पुण्यात्मा तुष्टितां व्रजेत् । ऋतौ प्राप्ते व्रजेन्नारीं स्वीयां दोषविवर्जितः
स्वकुलस्य सदाचारं कदानैव विमुंचति । एतदेव समाख्यातं गृहस्थस्य द्विजोत्तम
ब्रह्मचर्यं मया प्रोक्तं गृहिणामुत्तमं किल । यतीनां तु प्रवक्ष्यामि तन्मे निगदतः शृणु
दमसत्यसमायुक्तः पापाद्भीतस्तु सर्वदा । भार्यासंगं वर्जयित्वा ध्यानज्ञानप्रतिष्ठितः
यतीनां ब्रह्मचर्यं च समाख्यातं तवाग्रतः । तप एव प्रवक्ष्यामि तन्मेनिगदतः शृणु
आचारेण प्रवर्तेत कामक्रोधविवर्जितः । प्राणिनामुपकाराय संस्थितउद्यमावृतः
तप एवं समाख्यातं सत्यमेवं वदाम्यहम् । परद्रव्येष्वलोलुप्त्वं परस्त्रीषु तथैव च
दृष्ट्वा मतिर्न यस्य स्यात्स सत्यः परिकीर्तितः । दानमेव प्रवक्ष्यामि येन जीवंति मानवाः
आत्मसौख्यं प्रतीच्छेद्यः स इहैव परत्र वा । अन्नस्यापि महादानं सुखस्यैव ध्रुवस्य वा
ग्रासमात्रं तथा देयं क्षुधार्ताय न संशयः । दत्ते सति महत्पुण्यममृतं सोश्नुते सदा
दिनेदिने प्रदातव्यं यथाविभवसंभवम् । तृणं शय्यां च वचनं गृहच्छायां सुशीतलाम्
भूमिमापस्तथा चान्नं प्रियवाक्यमनुत्तमम् । आसनं वचनालापं कौटिल्येन विवर्जितम्
आत्मनो जीवनार्थाय नित्यमेव करोति यः । देवान्पितॄन्समभ्यर्च्य एवं दानं ददाति यः
इहैव मोदते सो वै परत्र हि तथैव च । अवंध्यं दिवसं यो वै दानाध्ययनकर्मभिः
प्रकुर्यान्मानुषो भूत्वा स देवो नात्र संशयः । नियमं च प्रवक्ष्यामि धर्मसाधनमुत्तमम्
देवानां ब्राह्मणानां च पूजास्वभिरतो हि यः । नित्यं नियमसंयुक्तो दानव्रतेषु सुव्रत
उपकारेषु पुण्येषु नियमोऽयं प्रकीर्तितः । क्षमारूपं प्रवक्ष्यामि श्रूयतां द्विजसत्तम
पराक्रोशं हि संश्रुत्य ताडिते सति केनचित् । क्रोधं न चैव गच्छेत्तु ताडितो न हि ताडयेत्
सहिष्णुः स्यात्स धर्मात्मा नहि रागं प्रयाति च । समश्नाति परं सौख्यमिह चामुत्र वापि च