इति श्रीपाद्मेमहापुराणे पंचपंचाशत्ससहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये। द्वाविंशत्यधिकशततमोऽध्यायः
कार्तवीर्य उवाच। हेतुना केन विप्रर्षे माघस्नाने महाद्भुतः । प्रभावो वर्ण्यते नूनं तन्मे कथय सुव्रत
गतपापो यदेकेन द्वितीयेन दिवं गतः । वैश्योऽसौ माघपुण्येन ब्रूहि मे तत्कुतूहलम्
दत्तात्रेय उवाच। निसर्गात्सलिलं मेध्यं निर्मलं शुचिपांडुरम् । मलहं पुरुषव्याघ्र द्रावकं दाहनाशनम् । तारकं सर्वभूतानां पोषणं जीवनं च यत्
आपो नारायणोदेवः सर्ववेदेषु पठ्यते । ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी । मासानां च तथा माघः श्रेष्ठः सर्वेषु कर्मसु
मकरस्थे रवौ माघे प्रातः काले तथाऽमले । गोष्पदेऽपि जले स्नानं स्वर्गदं पापिनामपि
योगोऽयं दुर्लभो राजंस्त्रैलोक्ये सचराचरे । अस्मिन्योगे त्वशक्तोऽपि स्नायाद्यदि दिनत्रयम्
दद्यात्किंचिदशक्तोऽपि दरिद्राभाववांच्छया । त्रिस्नानेनापि माघस्य धनिनो दीर्घजीविनः
पंच वा सप्त वाहानि चंद्रवद्वर्धते फलम् । संप्राप्ते मकरादित्ये पुण्ये पुण्यप्रदे नृणाम्
सत्कार्यास्तिथयः सर्वा स्नानदानादि कर्मसु । कर्तारं दापयंतीह ह्यक्षयं शाश्वतं पदम्
तस्मान्माघे बहिः स्नायादात्मनो हितकाम्यया । अथातः संप्रवक्ष्यामि माघस्नानविधिं परम्
कर्तव्यो नियमः कश्चिद्व्रतरूपी नरोत्तमैः । फलातिशयहेतोर्वै किंचिद्भोज्यं त्यजेद्बुधः
भूमौ शयीत होतव्यमाज्यं तिलविमिश्रितम् । त्रिकालं चार्चयेद्विष्णुं वासुदेवं सनातनम्
दातव्यो दीपकोऽखंडो देवमुद्दिश्य माधवम् । इंधनं कंबलं वस्त्रमुपानत्कुंकुमं घृतम्
तैलं कार्पासकोष्ठं च तूलीं तूलवटीं पटीम् । अन्नं चैव यथाशक्ति देयं माघे नराधिप
सुवर्णं रत्तिकामात्रं दद्याद्वेदविदे तथा । तद्दानमक्षयं राजन्समुद्र इव सर्वदा
परस्याग्निं न सेवेत त्यजेच्चैव प्रतिग्रहम् । माघांते भोजयेद्विप्रान्यथाशक्ति नराधिप
देया च दक्षिणा तेभ्य आत्मनः श्रेय इच्छता । एकादशीविधानेन माघस्योद्यापनं तथा
कर्तव्यं श्रद्दधानेन ह्यक्षय्य स्वर्गवांछया । अनंतपुण्यावाप्त्यर्थं विष्णुसंप्रीतिहेतवे
मकरस्थे रवौ माघे गोविंदाच्युतमाधव । स्नानेनानेन भो देव यथोक्तफलदो भव
इति मंत्रं समुच्चार्य स्नायान्मौनी समाहितः । वासुदेवं हरिं कृष्णं माधवं च स्मरेत्पुनः
गृहेऽपि सजलं कुंभं वायुना निशिपीडितम् । तत्स्नानं तीर्थसदृशं सर्वकामफलप्रदम्
तत्र व्रतेन दातव्यं सान्नं चोपस्करान्वितम् । तत्स्नानस्य प्रभावेण नरो न निरयं व्रजेत्
तप्तेन वारिणा स्नानं यद्गृहे क्रियते नरैः । षडब्दफलदं तद्धि मकरस्थे दिवाकरे
बहिः स्नानं तु वाप्यादौ द्वादशाब्दफलं स्मृतम् । तडागे द्विगुणं राजन्नद्यां चैव चतुर्गुणम्
शतधा देवखातेषु शतधा तु महानदे । शतं चतुर्गुणं राजन्महानद्याश्च संगमे
सहस्रगुणितं सर्वं तत्फलं मकरे रवौ । गंगायां स्नानमात्रेण लभते मानवो नृप
गंगायां येऽवगाहंति माघमासे नृपोत्तम । चतुर्युगसहस्रं तु न पतंति सुरालयात्
दिनेदिने सहस्रं तु सुवर्णानां विशांपते । तेन दत्तं तु गंगायां यो माघे स्नाति मानवः
शतेन गुणितं माघे सहस्रं राजसत्तम । निर्दिष्टमृषिभिः स्नानं गंगायामुनसंगमे