मुक्ताभरणशोभाढ्या निर्मला चारुहासिनी । इयं श्रद्धा महाभाग पश्य पश्य समागता
बहुबुद्धिसमाक्रांता बहुज्ञानसमाकुला । सुभोगासक्तरूपा सा सुस्थिता चारुमंगला
सर्वेष्टध्यानसंयुक्ता लोकमाता यशस्विनी । सर्वाभरणशोभाढ्या पीनश्रोणि पयोधरा
गौरवर्णा समायाता माल्यवस्त्रविभूषिता । इयं मेधा महाप्राज्ञ तवैव परिसंस्थिता
हंसचंद्रप्रतीकाशा मुक्ताहारविलंबिनी । सर्वाभरणसंभूषा सुप्रसन्ना मनस्विनी
श्वेतवस्त्रेण संवीता शतपत्रं शयेकृतम् । पुस्तककरा पंकजस्था राजमाना सदैव हि
एषा प्रज्ञा महाभाग भाग्यवंतं समागता । लाक्षारससमावर्णा सुप्रसन्ना सदैव हि
पीतपुष्पकृतामाला हारकेयूरभूषणा । मुद्रिका कंकणोपेता कर्णकुंडलमंडिता
पीतेन वाससा देवी सदैव परिराजते । त्रैलोक्यस्योपकाराय पोषणायाद्वितीयका
यस्याः शीलं द्विजश्रेष्ठ सदैव परिकीर्तितम् । सेयं दया सु संप्राप्ता तव पार्श्वे द्विजोत्तम
इयं वृद्धा महाप्राज्ञ भावभार्या तपस्विनी । मम माता द्विजश्रेष्ठ धर्मोहं तव सुव्रत
इति ज्ञात्वा शमं गच्छ मामेवं परिपालय । दुर्वासा उवाच- यदि धर्मः समायातो मत्समीपं तु सांप्रतम्
एतन्मे कारणं ब्रूहि किं ते धर्म करोम्यहम् । धर्म उवाच- कस्मात्क्रुद्धोसि विप्रेन्द्र किमेतैर्विप्रियं कृतम्
तन्मे त्वं कारणं ब्रूहि दुर्वासो यदि मन्यसे । दुर्वासा उवाच- येनाहं कुपितो देव तदिदं कारणं शृणु
दमशौचैः सुसंक्लेशैः शोधितं कायमात्मनः । लक्षवर्षप्रमाणं वै तपश्चर्या मया कृता
एवं पश्यसि मामेवं दया तेन प्रवर्तते । तस्मात्क्रुद्धोस्मि तेद्यैव शापमेवं ददाम्यहम्
एवं श्रुत्वा तदा तस्य तमुवाच महामतिः । धर्म उवाच- मयि नष्टे महाप्राज्ञ लोको नाशं समेष्यति
दुःखमूलमहं तात निकर्शामि भृशं द्विज । सौख्यं पश्चादहं दद्मि यदि सत्यं न मुंचति
पापोयं सुखमूलस्तु पुण्यं दुःखेन लभ्यते । पुण्यमेवं प्रकुर्वाणः प्राणी प्राणान्विमुंचति
महत्सौख्यं ददाम्येवं परत्र च न संशयः । दुर्वासा उवाच- सुखं येनाप्यते तेन परं दुःखं प्रपद्यते
तत्तु मर्त्यः परित्यज्य अन्येनापि प्रभुज्यते । तत्सुखं को विजानाति निश्चयं नैव पश्यति
तच्छ्रेयो नैव पश्यामि अन्याय्यं हि कृतं तव । येन कायेन क्रियते भुज्यते नैव तत्सुखम्
अन्येन क्रियते क्लेशमन्येनापि प्रभुज्यते । तत्सुखं को विजानाति चान्यायं धर्ममेव वा
अन्येन क्रियते क्लेशमन्येनापि सुखं पुनः । भुनक्ति पुरुषो धर्म तत्सर्वं श्रेयसा युतम्
पुण्यं चैव अनेनापि अनेन फलमश्नुते । क्रियमाणं पुनः पुण्यमन्येन परिभुज्यते
तत्सर्वं हि सुखं प्रोक्तं यत्तथा यस्य लक्षणम् । धर्मशास्त्रोदितं चैव कृतं सर्वत्र नान्यथा
येन कायेन कुर्वंति तेन दुःखं सहन्ति ते । परत्र तेन भुंजंति अनेनापि तथैव च
इति ज्ञात्वा स धर्मात्मा भवान्समवलोकयेत् । यथा चौरा महापापाः स्वकायेन सहंति ते
दुःखेन दारुणं तीव्रं तथा सुखं कथं नहि । धर्म उवाच- येन कायेन पापाश्च संचरन्ति हि पातकम्
तेन पीडां सहंत्येव पातकस्य हि तत्फलम् । दंडमेकं परं दृष्टं धर्मशास्त्रेषु पंडितैः