धर्म उवाच- कस्मात्कोपः कृतो विप्र भवांस्तपस्समन्वितः । क्रोधो हि नाशयेच्छ्रेयस्तप एव न संशयः
सर्वनाशकरस्तस्मात्क्रोधं तत्र विवर्जयेत् । स्वस्थो भव द्विजश्रेष्ठ उत्कृष्टं तपसः फलम्
दुर्वासा उवाच- भवान्को हि समायात एतैर्द्विजवरैः सह । सप्त नार्यः प्रतिष्ठंति सुरूपाः समलंकृताः
कथयस्व ममाग्रे त्वं विस्तरेण महामते । धर्म उवाच- अयं ब्राह्मणरूपेण सर्वतेजः समन्वितः
दंडहस्तः सुप्रसन्नः कमंडलुधरस्तथा । तवाग्रे ब्रह्मचर्योयं सोयं पश्य समागतः
अन्यं पश्यस्व वै त्वं च दीप्तिमंतं द्विजोत्तम । कपिलं पिंगलाक्षं च सत्यमेनं द्विजोत्तम
तादृशं पश्य धर्मात्मन्वैश्वदेवसमप्रभम् । यत्तपो हि त्वया विप्र सर्वदेवसमाश्रितम्
एतं पश्य महाभाग तव पार्श्वसमागतम् । प्रसन्नवाग्दीप्तियुक्तः सर्वजीवदयापरः
दम एव तथायं ते यः पोषयति सर्वदा । जटिलः कर्कशः पिंगो ह्यतितीव्रो महाप्रभुः
नाशको हि स पापानां खड्गहस्तो द्विजोत्तम । अभिशांतो महापुण्यो नित्यक्रियासमन्वितः
नियमस्तु समायातस्तव पार्श्वे द्विजोत्तम । अनिर्मुक्तो महादीप्तः शुद्धस्फटिकसन्निभः
पयःकमंडलुकरो दंतकाष्ठधरो द्विजः । शौच एष समायातो भवतः सन्निधाविह
अतिसाध्वी महाभागा सत्यभूषणभूषिता । सर्वभूषणशोभांगी शुश्रूषेयं समागता
अतिधीरा प्रसन्नांगी गौरी प्रहसितानना । पद्महस्ता इयं धात्री पद्मनेत्रा सुपद्मिनी
दिव्यैराभरणैर्युक्ता क्षमा प्राप्ता द्विजोत्तम । अतिशांता सुप्रतिष्ठा बहुमंगलसंयुता
दिव्यरत्नकृता शोभा दिव्याभरणभूषिता । तव शांतिर्महाप्राज्ञ ज्ञानरूपा समागता
परोपकारकरणा बहुसत्यसमाकुला । मितभाषा सदैवासौ अकल्पा ते समागता
प्रसन्ना सा क्षमायुक्ता सर्वाभरणभूषिता । पद्मासना सुरूपा सा श्यामवर्णा यशस्विनी
अहिंसेयं महाभागा भवंतं तु समागता । तप्तकांचनवर्णांगी रक्तांबरविलासिनी
सुप्रसन्ना सुमंत्रा च यत्र तत्र न पश्यति । ज्ञानभावसमाक्रांता पुण्यहस्ता तपस्विनी
मुक्ताभरणशोभाढ्या निर्मला चारुहासिनी । इयं श्रद्धा महाभाग पश्य पश्य समागता
बहुबुद्धिसमाक्रांता बहुज्ञानसमाकुला । सुभोगासक्तरूपा सा सुस्थिता चारुमंगला
सर्वेष्टध्यानसंयुक्ता लोकमाता यशस्विनी । सर्वाभरणशोभाढ्या पीनश्रोणि पयोधरा
गौरवर्णा समायाता माल्यवस्त्रविभूषिता । इयं मेधा महाप्राज्ञ तवैव परिसंस्थिता
हंसचंद्रप्रतीकाशा मुक्ताहारविलंबिनी । सर्वाभरणसंभूषा सुप्रसन्ना मनस्विनी
श्वेतवस्त्रेण संवीता शतपत्रं शयेकृतम् । पुस्तककरा पंकजस्था राजमाना सदैव हि
एषा प्रज्ञा महाभाग भाग्यवंतं समागता । लाक्षारससमावर्णा सुप्रसन्ना सदैव हि
पीतपुष्पकृतामाला हारकेयूरभूषणा । मुद्रिका कंकणोपेता कर्णकुंडलमंडिता
पीतेन वाससा देवी सदैव परिराजते । त्रैलोक्यस्योपकाराय पोषणायाद्वितीयका
यस्याः शीलं द्विजश्रेष्ठ सदैव परिकीर्तितम् । सेयं दया सु संप्राप्ता तव पार्श्वे द्विजोत्तम