कस्य पुत्राः प्रिया भार्या कस्य स्वजनबांधवाः । हृतं न चैव कस्यापि नैव दत्तं त्वया पुनः
कथं हि धनमायाति विस्मयं व्रज माधव । प्राप्तव्यमेव यत्रैव भवेद्द्रव्यं द्विजोत्तम
अनायासेन हस्ते हि तस्यैव परिजायते । यत्नेन महता चैव द्रव्यं रक्षति मानवः
व्रजमानो व्रजत्येव धनं तत्रैव तिष्ठति । एवं ज्ञात्वा शमं गच्छ जहि चिंतामनर्थकीम्
कस्य पुत्राः प्रिया भार्या कस्य स्वजनबांधवाः । कः कस्य नास्ति संसारे असंबंधाद्द्विजोत्तम
महामोहेन संमूढा मानवाः पापचेतसः । इदं गृहमयं पुत्र इमा नार्यो ममैव हि
अनृतं दृश्यते कांत संसारस्य हि बंधनम् । एवं संबोधितो देव्या भार्यया प्रियया तदा
पुनः प्राह प्रियां भार्यां सुमनां ज्ञानवादिनीम् । सोमशर्मोवाच- सत्यमुक्तं त्वया भद्रे सर्वसंदेहनाशनम्
तथापि वंशमिच्छंति साधवः सत्यपंडिताः । यथा पुत्रस्य मे चिंता धनस्य च तथा प्रिये
येनकेनाप्युपायेन पुत्रमुत्पादयाम्यहम् । सुमनोवाच- पुत्रेण लोकाञ्जयति पुत्रस्तारयते कुलम्
सत्पुत्रेण महाभाग पिता माता च जंतवः । एकः पुत्रो वरो विद्वान्बहुभिर्निर्गुणैस्तु किम्
एकस्तारयते वंशमन्ये संतापकारकाः । पूर्वमेव मया प्रोक्तमन्ये संबंधगामिनः
पुण्येन प्राप्यते पुत्रः पुण्येन प्राप्यते कुलम् । सुगर्भः प्राप्यते पुण्यैस्तस्मात्पुण्यं समाचर
जातस्य मृतिरेवास्ति जन्म एव मृतस्य च । सुजन्म प्राप्यते पुण्यैर्मरणं तु तथैव च
सुखं धनचयः कांत भुज्यते पुण्यकर्मभिः । सोमशर्मोवाच- पुण्यस्याचरणं ब्रूहि तथा जन्मान्यपि प्रिये
सुपुण्यः कीदृशो भद्रे वद पुण्यस्य लक्षणम् । सुमनोवाच- आदौ पुण्यं प्रवक्ष्यामि यथा पुण्यं श्रुतं मया
पुरुषो वाथवा नारी यथा नित्यं च वर्तते । यथा पुण्यैः समाप्नोति कीर्तिं पुत्रान्प्रियान्धनम्
पुण्यस्य लक्षणं कांत सर्वमेव वदाम्यहम् । ब्रह्मचर्येण सत्येन मखपंचकवर्तनैः
दानेन नियमैश्चापि क्षमाशौचेन वल्लभ । अहिंसया सुशक्त्या च अस्तेयेनापि वर्तनैः
एतैर्दशभिरंगैस्तु धर्ममेवं प्रपूरयेत् । संपूर्णो जायते धर्मो ग्रासैर्भोगो यथोदरे
धर्मं सृजति धर्मात्मा त्रिविधेनैव कर्मणा । तस्य धर्मः प्रसन्नात्मा पुण्यमेवं तु प्रापयेत्
यं यं चिंतयते प्राज्ञस्तं तं प्राप्नोति दुर्लभम् । सोमशर्मोवाच- कीदृङ्मूर्तिस्तु धर्मस्य कान्यंगानि च भामिनि
प्रीत्या कथय मे कांते श्रोतुं श्रद्धा प्रवर्तते । सुमनोवाच- लोके धर्मस्य वै मूर्तिः कैर्दृष्टा न द्विजोत्तम
अदृश्यवर्त्मा सत्यात्मा न दृष्टो देवदानवैः । अत्रिवंशे समुत्पन्नो अनसूयात्मजो द्विजः
तेन दृष्टो महाधर्मो दत्तात्रेयेण वै सदा । द्वावेतौ तु महात्मानौ कुर्वाणौ तप उत्तमम्
धर्मेण वर्तमानौ तौ तपसा च बलेन च । इंद्राधिकेन रूपेण प्रशस्तेन भविष्यतः
दशवर्षसहस्रं तौ यावत्तु वनसंस्थितौ । वायुभक्षौ निराहारौ संजातौ शुभदर्शनौ
दशवर्षसहस्रं तु तावत्कालं तपोर्जितम् । सुसाध्यमानयोश्चैव तत्र धर्मः प्रदृश्यते
पंचाग्निः साध्यते द्वाभ्यां तावत्कालं द्विजोत्तम । त्रिकालं साधितं तावन्निराहारं कृतं तथा
जलमध्ये स्थितौ तावद्दत्तात्रेयो यतिस्तथा । दुर्वासास्तु मुनिश्रेष्ठस्तपसा चैव कर्षितः