यो हि विद्वान्भवेत्कांत मूर्खाणां पथमेति हि । मूर्खश्चिंतयते नित्यं कथमर्थं ममैव हि
सुभार्यामिह विंदामि कथं पुत्रानहं लभे । एवं चिंतयते नित्यं दिवारात्रौ विमोहितः
क्षणमेकं प्रपश्येत चिंतामध्ये महत्सुखम् । पुनश्चैतन्यमायाति महादुःखेन पीड्यते
मित्राश्च बांधवाः पुत्राः पितृमातृसभृत्यकाः । संबंधिनो भवंत्येव कलत्राणि तथैव च
सोमशर्मोवाच- संबंधः कीदृशो भद्रे तथा विस्तरतो वद । येन संबंधिनः सर्वे धनपुत्रादिबांधवाः
सुमनोवाच- ऋणसंबंधिनः केचित्केचिन्न्यासापहारकाः । लाभप्रदा भवंत्येके उदासीनास्तथापरे
भेदैश्चतुर्भिर्जायंते पुत्रमित्रस्त्रियस्तथा । भार्या पिता च माता च भृत्याः स्वजनबांधवाः
स्वेनस्वेन हि जायंते संबंधेन महीतले । न्यासापहारभावेन यस्य येन कृतं भुवि
न्यासस्वामी भवेत्पुत्रो गुणवान्रूपवान्भुवि । येनैवापह्रतं न्यासं तस्य गेहे न संशयः
न्यासापहरणाद्दुःखं स दत्वा दारुणं गतः । न्यासस्वामी सुपुत्रोभून्न्यासापहारकस्य च
गुणवान्रूपवांश्चैव सर्वलक्षणसंयुतः । भक्तिं तु दर्शयंस्तस्य पुत्रो भूत्वा दिनेदिने
प्रियवाङ्मधुरो रोगी बहुस्नेहं विदर्शयन् । स्वीयं द्रव्यं समुद्गृह्य प्रीतिमुत्पाद्य चोत्तमाम्
यथा येन प्रदत्तं स्यान्न्यासस्य हरणात्पुरा । दुःखमेव महाभाग दारुणं प्राणनाशनम्
तादृशं तस्य सौहृद्यात्पुत्रो भूत्वा महागुणैः । अल्पायुषस्तथा भूत्वा मरणं चोपगच्छति
दुःखं दत्वा प्रयात्येवं भूत्वाभूत्वा पुनःपुनः । यदा हा पुत्रपुत्रेति प्रलापं हि करोति सः
तदा हास्यं करोत्येव कस्य पुत्रो हि कः पिता । अनेनापहृतं न्यासं मदीयस्योपकारणम्
द्रव्यापहरणेनापि न मे प्राणा गताः किल । दुःखेन महता चैव असह्येन च वै पुरा
तथा दुःखं प्रदत्वाहं द्रव्यमुद्गृह्य चोत्तमम् । गंतास्मि सुभृशं चाद्य कस्याहं सुत ईदृशः
न चैष मे पिता पुत्रः पूर्वमेव न कस्यचित् । पिशाचत्वं मया दत्तमस्यैवेति दुरात्मनः
एवमुक्त्वा प्रयात्येवं तं प्रहस्य पुनःपुनः । प्रयात्यनेन मार्गेण दुःखं दत्वा सुदारुणम्
एवं न्यासं समुद्धर्तुः पुत्राः कांत भवंति वै । संसारे दुःखबहुला दृश्यंते यत्रतत्र च
ऋणसंबंधिनः पुत्रान्प्रवक्ष्यामि तवाग्रतः
सुमनोवाच- ऋणसंबंधिनं पुत्रं प्रवक्ष्यामि तवाग्रतः । ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल
अर्थदाता सुतो भूत्वा भ्राता चाथ पिता प्रिया । मित्ररूपेण वर्त्तेत अतिदुष्टः सदैव सः
गुणं नैव प्रपश्येत स क्रूरो निष्ठुराकृतिः । जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च
मिष्टंमिष्टं समश्नाति भोगान्भुंजति नित्यशः । द्यूतकर्मरतो नित्यं चौरकर्मणि सस्पृहः
गृहद्रव्यं बलाद्भुंक्ते वार्यमाणः स कुप्यति । पितरं मातरं चैव कुत्सते च दिनेदिने
द्रावकस्त्रासकश्चैव बहुनिष्ठुरजल्पकः । एवं भुक्त्वाथ तद्द्रव्यं सुखेन परितिष्ठति
जातकर्मादिभिर्बाल्ये द्रव्यं गृह्णाति दारुणः । पुनर्विवाहसंबंधान्नानाभेदैरनेकधा
एवं संजायते द्रव्यमेवमेतद्ददात्यपि । गृहक्षेत्रादिकं सर्वं ममैव हि न संशयः