चरितं पावनं दिव्यं वैष्णवं श्रेयआवहम् । भवतामग्रतः सर्वं विष्णोश्चैव प्रसादतः
पूर्वकल्पे महाभागाः सुक्षेत्रे पापनाशने । रेवातीरे सुपुण्ये च तीर्थे वामनसंज्ञके
कौशिकस्य कुले जातः सोमशर्मा द्विजोत्तमः । स तु पुत्रविहीनस्तु बहुदुःखसमन्वितः
दारिद्रेण स दुःखेन सर्वदैवप्रपीडितः । पुत्रोपायं धनस्यापि दिवारात्रौ प्रचिंतयेत्
एकदा तु प्रिया तस्य सुमना नाम सुव्रता । भर्तारं चिंतयोपेतमधोमुखमलक्षयत्
समालोक्य तदा कांतं तमुवाच तपस्विनी । दुःखजालैरसंख्यैस्तु तव चित्तं प्रधर्षितम्
व्यामोहेन प्रमूढोसि त्यज चिंतां महामते । मम दुःखं समाचक्ष्व स्वस्थो भव सुखं व्रज
नास्ति चिंतासमं दुःखं कायशोषणमेव हि । यश्चिंतां त्यज्य वर्तेत स सुखेन प्रमोदते
चिंतायाः कारणं विप्र कथयस्व ममाग्रतः । प्रियावाक्यं समाकर्ण्य सोमशर्माब्रवीत्प्रियाम्
सोमशर्मोवाच-। इच्छया चिंतितं भद्रे चिंता दुःखस्य कारणम् । तत्सर्वं तु प्रवक्ष्यामि श्रुत्वा चैवावधार्यताम्
न जाने केन पापेन धनहीनोस्मि सुव्रते । तथा पुत्रविहीनश्च एतद्दुःखस्य कारणम्
सुमनोवाच- श्रूयतामभिधास्यामि सर्वसंदेहनाशनम् । स्वरूपमुपदेशस्य सर्वविज्ञानदर्शनम्
लोभः पापस्य बीजं हि मोहो मूलं च तस्य हि । असत्यं तस्य वै स्कंधो माया शाखा सुविस्तरा
दंभकौटिल्यपत्राणि कुबुद्ध्या पुष्पितः सदा । अनृतं तस्य सौगंधं फलमज्ञानमेव च
छद्मपाखंडशौर्येर्ष्याः क्रूराः कूटाश्च पापिनः । पक्षिणो मोहवृक्षस्य मायाशाखा समाश्रिताः
अज्ञानं सुफलं तस्य रसोऽधर्मः फलस्य हि । तृष्णोदकेन संवृद्धाऽश्रद्धा तस्य द्रवः प्रिय
अधर्मः सुरसस्तस्य उत्कटो मधुरायते । यादृशैश्च फलैश्चैव सुफलो लोभपादपः
अस्यच्छायां समाश्रित्य यो नरः परितुष्यते । फलानि तस्य चाश्नाति सुपक्वानि दिनेदिने
फलानां तु रसेनापि अधर्मेण तु पालितः । स संतुष्टो भवेन्मर्त्यः पतनायाभिगच्छति
तस्माच्चिंतां परित्यज्य पुमाँल्लोभं न कारयेत् । धनपुत्रकलत्राणां चिंतामेकां न कारयेत्
यो हि विद्वान्भवेत्कांत मूर्खाणां पथमेति हि । मूर्खश्चिंतयते नित्यं कथमर्थं ममैव हि
सुभार्यामिह विंदामि कथं पुत्रानहं लभे । एवं चिंतयते नित्यं दिवारात्रौ विमोहितः
क्षणमेकं प्रपश्येत चिंतामध्ये महत्सुखम् । पुनश्चैतन्यमायाति महादुःखेन पीड्यते
मित्राश्च बांधवाः पुत्राः पितृमातृसभृत्यकाः । संबंधिनो भवंत्येव कलत्राणि तथैव च
सोमशर्मोवाच- संबंधः कीदृशो भद्रे तथा विस्तरतो वद । येन संबंधिनः सर्वे धनपुत्रादिबांधवाः
सुमनोवाच- ऋणसंबंधिनः केचित्केचिन्न्यासापहारकाः । लाभप्रदा भवंत्येके उदासीनास्तथापरे
भेदैश्चतुर्भिर्जायंते पुत्रमित्रस्त्रियस्तथा । भार्या पिता च माता च भृत्याः स्वजनबांधवाः
स्वेनस्वेन हि जायंते संबंधेन महीतले । न्यासापहारभावेन यस्य येन कृतं भुवि
न्यासस्वामी भवेत्पुत्रो गुणवान्रूपवान्भुवि । येनैवापह्रतं न्यासं तस्य गेहे न संशयः
न्यासापहरणाद्दुःखं स दत्वा दारुणं गतः । न्यासस्वामी सुपुत्रोभून्न्यासापहारकस्य च