पूर्वमुक्तं सुमंत्रं तु मुनिना कश्यपेन हि । तेन मंत्रेण राजेंद्र कुरु कार्यं स्वमात्मवान्
तस्य तद्वचनं श्रुत्वा प्राह दैत्यः प्रतापवान् । पौत्र नैवं करिष्येहं मानभंगं तथात्मनः
अन्ये च बांधवाः सर्वे तमूचुर्नयपंडितम् । बलिनोक्तं च यत्पुण्यं देवतानां प्रियंकरम्
शक्रमानकरं प्रोक्तं दानवानां भयंकरम् । करिष्यामो वयं सर्वे तप एवमनुत्तमम्
तपसा निर्जित्य देवान्हरिष्यामः स्वकं पदम् । एवमामंत्र्य ते सर्वे निराकृत्य बलिं तदा
विष्णोः सार्द्धं महावैरं हृदि कृत्वा महासुराः । तपश्चक्रुस्ततः सर्वे गिरिदुर्गेषु सानुषु
एवं ते दानवाः सर्वे त्यक्तरागाः सुनिश्चिताः । कामक्रोधविहीनाश्च निराहारा जितक्लमाः
ऋषय ऊचुः- सर्वज्ञेन त्वया प्रोक्तं दैत्यदानवसंगरम् । इदानीं श्रोतुमिच्छामः सुव्रतस्य महात्मनः
कस्य पुत्रो महाप्राज्ञः कस्य गोत्रसमुद्भवः । किं तपस्तस्य विप्रस्य कथमाराधितो हरिः
सूत उवाच- कथा प्रज्ञाप्रभावेण पूर्वमेव यथा श्रुता । तथा विप्राः प्रवक्ष्यामि सुव्रतस्य महात्मनः
चरितं पावनं दिव्यं वैष्णवं श्रेयआवहम् । भवतामग्रतः सर्वं विष्णोश्चैव प्रसादतः
पूर्वकल्पे महाभागाः सुक्षेत्रे पापनाशने । रेवातीरे सुपुण्ये च तीर्थे वामनसंज्ञके
कौशिकस्य कुले जातः सोमशर्मा द्विजोत्तमः । स तु पुत्रविहीनस्तु बहुदुःखसमन्वितः
दारिद्रेण स दुःखेन सर्वदैवप्रपीडितः । पुत्रोपायं धनस्यापि दिवारात्रौ प्रचिंतयेत्
एकदा तु प्रिया तस्य सुमना नाम सुव्रता । भर्तारं चिंतयोपेतमधोमुखमलक्षयत्
समालोक्य तदा कांतं तमुवाच तपस्विनी । दुःखजालैरसंख्यैस्तु तव चित्तं प्रधर्षितम्
व्यामोहेन प्रमूढोसि त्यज चिंतां महामते । मम दुःखं समाचक्ष्व स्वस्थो भव सुखं व्रज
नास्ति चिंतासमं दुःखं कायशोषणमेव हि । यश्चिंतां त्यज्य वर्तेत स सुखेन प्रमोदते
चिंतायाः कारणं विप्र कथयस्व ममाग्रतः । प्रियावाक्यं समाकर्ण्य सोमशर्माब्रवीत्प्रियाम्
सोमशर्मोवाच-। इच्छया चिंतितं भद्रे चिंता दुःखस्य कारणम् । तत्सर्वं तु प्रवक्ष्यामि श्रुत्वा चैवावधार्यताम्
न जाने केन पापेन धनहीनोस्मि सुव्रते । तथा पुत्रविहीनश्च एतद्दुःखस्य कारणम्
सुमनोवाच- श्रूयतामभिधास्यामि सर्वसंदेहनाशनम् । स्वरूपमुपदेशस्य सर्वविज्ञानदर्शनम्
लोभः पापस्य बीजं हि मोहो मूलं च तस्य हि । असत्यं तस्य वै स्कंधो माया शाखा सुविस्तरा
दंभकौटिल्यपत्राणि कुबुद्ध्या पुष्पितः सदा । अनृतं तस्य सौगंधं फलमज्ञानमेव च
छद्मपाखंडशौर्येर्ष्याः क्रूराः कूटाश्च पापिनः । पक्षिणो मोहवृक्षस्य मायाशाखा समाश्रिताः
अज्ञानं सुफलं तस्य रसोऽधर्मः फलस्य हि । तृष्णोदकेन संवृद्धाऽश्रद्धा तस्य द्रवः प्रिय
अधर्मः सुरसस्तस्य उत्कटो मधुरायते । यादृशैश्च फलैश्चैव सुफलो लोभपादपः
अस्यच्छायां समाश्रित्य यो नरः परितुष्यते । फलानि तस्य चाश्नाति सुपक्वानि दिनेदिने
फलानां तु रसेनापि अधर्मेण तु पालितः । स संतुष्टो भवेन्मर्त्यः पतनायाभिगच्छति
तस्माच्चिंतां परित्यज्य पुमाँल्लोभं न कारयेत् । धनपुत्रकलत्राणां चिंतामेकां न कारयेत्