अधर्मेणापि पापेन वर्तिताः पापचेतसः । सूदिता वासुदेवेन समरे चक्रपाणिना
योसावात्मा मयोक्तः पूर्वमेव तवाग्रतः । सोयं विष्णुर्न संदेहो धर्मात्मा सर्वपालकः
दैत्यकायेषु यः स्वस्थः पापमेव समास्थितः । जघ्निवान्दानवान्देवि स च क्रुद्धो महामतिः
स बाह्याभ्यंतरे भूत्वा तव पुत्रा निपातिताः । येन चोत्पादिता देवि तेनैव विनिपातिताः
नैषां मोहस्तु कर्तव्यो भवत्या वचनं शृणु । पापेन वर्तते योसौ स एव निधनं व्रजेत्
तस्मान्मोहं परित्यज्य सदाधर्मं समाश्रय । दितिरुवाच- एवमस्तु महाभाग करिष्ये वचनं तव
कश्यपं च मुनिश्रेष्ठमेवमाभाष्य दुःखिता । संबोधिता सा मुनिना दुःखं संत्यज्य संस्थिता
ऋषय ऊचुः- ततस्ते दानवाः सर्वे हिरण्यकशिपूत्तराः । युद्धाद्भग्नास्तु किं कुर्युर्व्यवसायं महामते
विस्तरेणापि नो ब्रूहि तेषां वृत्तमनुत्तमम् । श्रोतुमिच्छामहे सर्वे त्वत्तो वै सांप्रतं द्विज
सूत उवाच- भग्ना रणात्तु ते सर्वे बलहीनास्तु वै तदा । गतदर्पाः सुदुःखार्ता दैत्यास्ते पितरं गताः
भक्त्या प्रणम्य ते सर्वे समूचुः कश्यपं तदा । दानवा ऊचुः- भवद्वीर्यात्समुत्पत्तिरस्माकं द्विजसत्तम
देवतानां महाभाग दानवानां तथैव च । वयं च दानवाः सर्वे बलवीर्यपराक्रमाः
उपायज्ञाः सुधीराश्च उद्यमेन समन्विताः । वयं तु बहवस्तात देवास्त्वल्पास्तथैव च
कथं जयंति ते सर्वे वयं भग्ना महाहवात् । तत्किं वै कारणं तात बलतेजः समन्विताः
मत्तनागसहस्राणामेकैकस्य महामते । बलमस्ति च दैत्यस्य नास्ति देवेषु तादृशम्
जयश्च दृश्यते तात देवेष्वेव महाहवे । तत्सर्वं कथयस्वैव संशयंछेत्तुमर्हसि
कश्यप उवाच- शृणुध्वं पुत्रकाः सर्वे जयस्यापि च कारणम् । यस्माद्धि देवताः सर्वे समरे जयिनोऽभवन्
वीर्यनिर्वापकस्तातो माताक्षेत्रमिदं सदा । धारणे पालने चैव पोषणे च यथैव हि
किं कुर्याद्विषमार्थे तु पिता पुत्रे च वै तथा । अत्र प्रधानं कर्मैव मामेवं बुद्धिराश्रिता
द्वैविध्यं कर्मसंबंधं पापपुण्यसमुद्भवम् । सत्यमेव समाश्रित्य क्रियते धर्म उत्तमः
तपोध्यानसमायुक्तं तारणाय हि तं सुताः । पतनाय पातकं प्रोक्तं सर्वदैव न संशयः
बलेन परिवारेण आभिजात्येन पुत्रकाः । पुण्यहीनस्य पुंसो वै तद्बलं विकलायते
उन्नता गिरिदुर्गेषु वृक्षाः संति सुपुत्रकाः । पतंति वातवेगेन समूलास्तु घनास्तथा
सत्यधर्मविहीनास्ते तथायांति यमक्षयम् । साधारणः प्राणिनां च धर्म एष सुपुत्रकाः
येन संतरते जंतुरिह चैव परत्र च । तद्युष्माभिः परित्यक्तं सत्यं धर्मसमन्वितम्
अधर्ममास्थितं पुत्रा युष्माभिः सत्यवर्जितैः । सत्यधर्मतपोभ्रष्टाः पतिता दुःखसागरे
देवाश्च सत्यसंपन्नाः श्रेयसा च समन्विताः । तपः शांतिदमोपेताः सुपुण्या पापवर्जिताः
यत्र सत्यं च धर्मश्च तपः पुण्यं तथैव च । यत्र विष्णुर्हृषीकेशो जयस्तत्र प्रदृश्यते
तेषां सहायः संभूतो वासुदेवः सनातनः । तस्माज्जयंति ते देवाः सत्यधर्मसमन्विताः
सहायेन बलेनैव पौरुषेण तथैव च । भवंतः किल वै पुत्रास्तपः सत्यविवर्जिताः