पृच्छतामेनमात्मानं भवांस्तत्त्वेषु पंडितः । वीतरागवचः श्रुत्वा विवेको वाक्यमब्रवीत्
विवेक उवाच- सुखेन स्थीयते देव भवता विश्वनायक । आगते त्वयि संसारे किं किं भुक्तं सुखं स्वयम्
आत्मोवाच- गर्भवासो महद्दुःखमसह्यं दारुणं मया । भुक्तमेव महाप्राज्ञ ज्ञानहीनेन वै सदा
देहेपि ज्ञानविभ्रष्टः सोहं जातो ह्यनेकधा । बाल्यावस्थां गतेनाथ कृत्याकृत्यं कृतं मया
तारुण्येन कृता क्रीडा भुक्ता भार्या ह्यनेकशः । वार्धकं प्राप्य संतप्तः पुत्रशोकादिभिस्तथा
भार्यादीनां वियोगैस्तु दग्धोस्म्यहमहर्निशम् । दुःखैरनेकसंवर्णैः संतप्तोस्मि दिनेदिने
दिवारात्रौ महाप्राज्ञ न विंदामि सुखं क्वचित् । एवं दुःखै सुसंतप्तः किं करोमि महामते
तमुपायं वदस्वैव सुखं विंदामि येन वै । अस्मात्संसारजालौघान्मोचयाद्य सुबंधनात्
विवेक उवाच- भवाञ्छुद्धोसि निर्द्वन्द्वो ह्यपापोसि जगत्पते । एनं गच्छ महात्मानं वीतरागं सुखप्रदम्
निःसंशयं त्वया दृष्टं नग्नमाचारवर्जितम् । सुखप्रदर्शको ह्येष सर्वसंतापनाशकः
एवमाकर्ण्य शुद्धात्मा वीतरागं गतः पुनः । तमुवाच श्वसन्दीनः श्रूयतां वचनं मम
सुखं विंदामि येनाहं तं मार्गं मम दर्शय । एवमस्तु महाप्राज्ञ करिष्ये वचनं तव
पुनर्गच्छ विवेकं हि सुखवार्ता कृता त्वया । सुखमार्गस्य वै वक्ता तव एष भविष्यति
वीतरागेण पुण्येन प्रेषितो गतवान्प्रभुः । तमुवाच महात्मानं विवेकं शुद्धसत्तमम्
सुखं मे दर्शय त्वं हि वीतरागेण प्रेषितः । भवच्छरणमापन्नो रक्ष संसारदारुणात्
विवेक उवाच- ज्ञानं गच्छमहाप्राज्ञ स ते सर्वं वदिष्यति । आत्मा तथोक्तः संप्राप्तो यत्र ज्ञानं प्रतिष्ठितम्
भोभो ज्ञान महातेजः सर्वभावप्रदर्शक । शरणं त्वामहं प्राप्तः सुखमार्गं प्रदर्शय
ज्ञानमुवाच- भृत्योहं तव लोकेश त्वं मां वेत्सि न सुव्रत । मया ध्यानेन वै पूर्वं वारितस्त्वं पुनःपुनः
पंचात्मकानां संगेन आपदं प्राप्तवान्भवान् । ध्यानं गच्छ महाप्राज्ञ स ते दाता सुखस्य च
ज्ञानेन प्रेषितो ह्यात्मा ध्यानमाश्रित्य संस्थितः । सुखमत्यंतसिद्धं च ध्यानं मे दर्शयस्व ह
भवच्छरणमायातं मामेवं परिरक्षय । एवं संभाषितं तस्य ध्यानमाकर्ण्य तद्वचः
समुवाच पुनश्चापि तमात्मानं प्रहृष्टवान् । नैव त्याज्योस्म्यहं तात सर्वकर्मसुनिश्चितः
त्वयैव वीतरागेण विवेकेन सदैव हि । ध्यानयुक्तो भवस्व त्वमात्मानमवलोकय
आत्मवांस्त्वं स्थिरो भूत्वा निरातंको विकल्पितः । यथा दीपो निवातस्थः कज्जलं वमते स्थिरः
तथा दोषान्प्रज्वलित्वा निर्वाणं हि प्रयास्यति । एकांतस्थो निराहारो मिताशी भव सर्वदा
निर्द्वंद्वः शब्दसंहीनो निश्चलो ह्यासने स्थितः । आत्मानमात्मना ध्यायन्ममैव स्थिरबुद्धिना
प्राप्स्यसे परमं स्थानं तद्विष्णोः परमं पदम्
नवमोऽध्यायः कश्यप उवाच- एवं संबोधितस्तत्र आत्मा ध्यानादिकैस्तदा । त्यक्तुकामः स तत्कार्यं पंचात्मकं स बुद्धिमान्
निमित्तान्येव पश्यैव प्राप्य तांस्तान्प्रयाति सः । विहाय कायं निर्लक्ष्यं पतितं नैव पश्यति
सहवर्द्धितयोर्नास्ति संबंधः प्राण देहयोः । धनपुत्रकलत्रैश्च संबंधः केन हेतुना