भ्रातुस्तस्य महाभाग आह्वानं च करोम्यहम् । भोभो विवेक मे भ्रातरावयोस्त्वं वचः शृणु
एह्येहि सुमहाभाग मम स्नेहान्महामते । कश्यप उवाच- शांतिक्षमाभ्यां संयुक्तो भार्याभ्यां च समागतः
सर्वदृक्सर्वगो व्यापी सर्वतत्त्वपरायणः । संदेहानां च सर्वेषां यो रिपुर्ज्ञानवत्सलः
धारणा धीश्च द्वे पुत्र्यौ तस्यैव हि महात्मनः । तस्य योगः सुतो ज्येष्ठो मोक्षो यस्य महागुरुः
निर्मलो निरहंकारो निराशो निष्परिग्रहः । सर्ववेलाप्रसन्नात्मा गतद्वंद्वो महामतिः
स विवेकः समायातो गुणरत्नैर्विभूषितः । यस्यामात्यौ महात्मानौ धर्मसत्यौ महामती
क्षमाशांतिसमायुक्तः स विवेकः समागतः । वीतरागमुवाचेदमाहूतोहं समागतः
तद्भ्रातः कारणं सर्वं कथ्यतां हि ममाग्रतः । यमाश्रित्य त्वयाद्यैव कृतमाह्वानमेव मे
वीतराग उवाच- पुमान्स्थितो यः पुरतो महापाशैर्नियंत्रितः । मोहस्य बाणैः संभ्रांतः संसारस्य च बंधनैः
सर्वस्य व्यापकः स्वामी अयमात्मा ममैव च । पंचतत्त्वैः समाविष्टो ज्ञानध्यानविवर्जितः
पृच्छतामेनमात्मानं भवांस्तत्त्वेषु पंडितः । वीतरागवचः श्रुत्वा विवेको वाक्यमब्रवीत्
विवेक उवाच- सुखेन स्थीयते देव भवता विश्वनायक । आगते त्वयि संसारे किं किं भुक्तं सुखं स्वयम्
आत्मोवाच- गर्भवासो महद्दुःखमसह्यं दारुणं मया । भुक्तमेव महाप्राज्ञ ज्ञानहीनेन वै सदा
देहेपि ज्ञानविभ्रष्टः सोहं जातो ह्यनेकधा । बाल्यावस्थां गतेनाथ कृत्याकृत्यं कृतं मया
तारुण्येन कृता क्रीडा भुक्ता भार्या ह्यनेकशः । वार्धकं प्राप्य संतप्तः पुत्रशोकादिभिस्तथा
भार्यादीनां वियोगैस्तु दग्धोस्म्यहमहर्निशम् । दुःखैरनेकसंवर्णैः संतप्तोस्मि दिनेदिने
दिवारात्रौ महाप्राज्ञ न विंदामि सुखं क्वचित् । एवं दुःखै सुसंतप्तः किं करोमि महामते
तमुपायं वदस्वैव सुखं विंदामि येन वै । अस्मात्संसारजालौघान्मोचयाद्य सुबंधनात्
विवेक उवाच- भवाञ्छुद्धोसि निर्द्वन्द्वो ह्यपापोसि जगत्पते । एनं गच्छ महात्मानं वीतरागं सुखप्रदम्
निःसंशयं त्वया दृष्टं नग्नमाचारवर्जितम् । सुखप्रदर्शको ह्येष सर्वसंतापनाशकः
एवमाकर्ण्य शुद्धात्मा वीतरागं गतः पुनः । तमुवाच श्वसन्दीनः श्रूयतां वचनं मम
सुखं विंदामि येनाहं तं मार्गं मम दर्शय । एवमस्तु महाप्राज्ञ करिष्ये वचनं तव
पुनर्गच्छ विवेकं हि सुखवार्ता कृता त्वया । सुखमार्गस्य वै वक्ता तव एष भविष्यति
वीतरागेण पुण्येन प्रेषितो गतवान्प्रभुः । तमुवाच महात्मानं विवेकं शुद्धसत्तमम्
सुखं मे दर्शय त्वं हि वीतरागेण प्रेषितः । भवच्छरणमापन्नो रक्ष संसारदारुणात्
विवेक उवाच- ज्ञानं गच्छमहाप्राज्ञ स ते सर्वं वदिष्यति । आत्मा तथोक्तः संप्राप्तो यत्र ज्ञानं प्रतिष्ठितम्
भोभो ज्ञान महातेजः सर्वभावप्रदर्शक । शरणं त्वामहं प्राप्तः सुखमार्गं प्रदर्शय
ज्ञानमुवाच- भृत्योहं तव लोकेश त्वं मां वेत्सि न सुव्रत । मया ध्यानेन वै पूर्वं वारितस्त्वं पुनःपुनः
पंचात्मकानां संगेन आपदं प्राप्तवान्भवान् । ध्यानं गच्छ महाप्राज्ञ स ते दाता सुखस्य च
ज्ञानेन प्रेषितो ह्यात्मा ध्यानमाश्रित्य संस्थितः । सुखमत्यंतसिद्धं च ध्यानं मे दर्शयस्व ह