कस्य लज्जा प्रकर्तव्या द्वितीयो नास्ति सर्वदा । एकश्च पुरुषो दिव्यः कस्य किंचिन्न नाशयेत्
अथ लोकान्प्रवक्ष्यामि ये त्वया परिकीर्तिताः । यथा कुलालकश्चक्रे मृत्पिंडं च निधापयेत्
भ्रामयित्वा तु सूत्रेण नानाभेदान्प्रकाशयेत् । भांडानां तु सहस्राणि स्वेच्छया मतिसंस्थितः
तथायं सृजते धाता नानारूपाणि नान्यथा । पश्चाद्विनाशमायांति येनकेनापि हेतुना
सर्वदैव स्थिता ये च ये लोकाश्च सनातनाः । तेषां लज्जा प्रकर्तव्या नावर्तंते हि ते भुवि
आकाशवायुतेजांसि पृथ्वी चापश्च पंचमः । अमी लोकाः प्रकाशंते ये च सर्वत्र संस्थिताः
सत्त्वानामंगदेशेषु पंचैतेषु सुसंस्थिताः । सर्वत्रैव च वर्तंते कस्य लज्जा विधीयते
स्त्रीणां रूपं प्रवक्ष्यामि श्रूयतां तात सांप्रतम् । यथाघटसहस्रेषुसोदकेषुविराजते
एकश्चंद्रो हि सर्वत्र भवांस्तद्वद्विराजते । गतो जंतुसहस्रेषु मोहचक्रे महात्मवान्
स्थावरेषु च सर्वेषु जंगमेषु तथा भवान् । योनिद्वारेण पापेन मायामोहमयेन वै
कुचाभ्यां च नितंबाभ्यां वयसा च विराजते । हृन्मांसस्याधिका वृद्धिर्दृष्टा चात्र न संशयः
पतनाय च लोकानां मोहरूपं विदर्शितम् । नभवत्येव सा नारी या त्वया परिकीर्तिता
लीलया कुरुते धाता विनोदाय सदात्मनः । यथा नार्यास्तथा पुंसो जीवः सर्वत्र संस्थितः
कुचयोनिविहीना ये जीवन्मुक्ताः सदैव हि । नरस्तु पुरुषः प्रोक्तो नारी प्रकृतिरुच्यते
रमते तेन वै सार्द्धं न मुक्ता हि कदाचन । भवान्प्रकृतिसंयुक्तः पुरुषेषु प्रदृश्यते
कः कस्य कुरुते लज्जामेवं ज्ञात्वा सुखं व्रज । वृद्धां स्त्रियं प्रवक्ष्यामि सदावृद्धां वरानने
त्वचा जर्जरतां याता यस्याप्यंगे वरानने । श्वेतैश्चैव तथाकेशैः पलितैश्च समाकुला
बलहीनाथ दीनापि व्यापिता वलिना तदा । नेयं वृद्धा भवेन्नारी परं वृद्धा च कथ्यते
एतस्या लक्षणं प्रोक्तं युवतीं प्रवदाम्यहम् । ज्ञानेन वर्द्धते नित्यं जीवपार्श्वे समाश्रिता
सुमतिर्नाम संप्रोक्ता सा वृद्धा युवतीति च । नारी पुरुषलोकेषु सर्वदैव प्रतिष्ठिता
लज्जा तस्याः प्रकर्तव्या अन्यच्चैव वदाम्यहम् । मातरं वै प्रवक्ष्यामि या त्वया परिकीर्तिता
प्राणिनामंगदेशेषु सदैव चेतना स्थिता । परज्ञानप्रदा या च सा प्रज्ञा परिकथ्यते
प्रज्ञा माता समाख्याता प्राणिनां पालनाय सा । संस्थिता सर्वलोकेषु पोषणाय हिताय वा
सुमतिर्नाम या प्रोक्ता सा माता परिकथ्यते । संसारद्वारमार्गाणि यानि रूपाणि नित्यशः
भवंति मातरो ह्येता बहुदुःखप्रदर्शिकाः । मातृरूपं समाख्यातमन्यत्किं ते वदाम्यहम्
आत्मोवाच- भवान्को हि समायातो मम संतापनाशकः । विस्तरेण समाख्याहि स्वरूपमात्मनः स्वयम्
वीतराग उवाच- यस्मात्कामानि वर्तंते निराशाः सर्व एव ते । यं दुष्टत्वान्न पश्यंति कर्माण्येतानि नान्यथा
यत्समीपं हि नायाति आशा चैव कदाचन । क्रोधो लोभस्तथा मोहो यद्भयात्प्रलयं गताः
वीतरागोस्मि भद्रं ते विवेको मम बांधवः । आत्मोवाच- कीदृशोऽसौ तव भ्राता विवेको नाम नामतः
तस्य त्वं लक्षणं ब्रूहि भ्रातुरात्मन एव च । वीतराग उवाच- तस्यैव लक्षणं रूपं न वदामि तवाग्रतः