रात्रौ स्वप्नान्प्रपश्येत दिवा चैतन्यवर्जितः । वैकल्येन तथांगानां व्याप्तो देवि दिनेदिने
संसारे भ्रममाणेन वैराग्यं तत्र दर्शितम् । निःशंकं बंधुहीनं च प्रशांतं तुष्टमेव च
तमुवाच तदात्मा वै कामक्रोधविवर्जितम् । को भवान्नग्नरूपेण कथं मित्रैर्न लज्जसे
यत्र लोकाः स्त्रियो वृद्धा युवत्यो मातरस्तथा । एतासां हि गतो मध्ये न बिभेषि अनावृतः
वीतराग उवाच- को ह्यत्र नग्नो दृश्येत न नग्नोस्मीति वै कदा । सुसंबद्धस्त्वमेवापि परिधान समन्वितः
न नग्नोस्मि कदा दिव्यभवान्नग्नः प्रदृश्यते । इंद्रियार्थवशेवर्ती मर्यादापरिवर्जितः
आत्मोवाच- पुरुषस्य का हि मर्यादा तामाचक्ष्व च सुव्रत । विस्तरेण महाप्राज्ञ यदि जानासि निश्चितम्
वीतरागो महाप्राज्ञस्तमुवाच महामतिः । सुस्थैर्यं भजते चित्तं सुखदुःखेषु नित्यदा
क्लेशितं सर्वभावैश्च तेषुतेषु परित्यजेत् । अथ लज्जां प्रवक्ष्यामि मनो या निर्विशत्यलम्
मयाद्यैवं न कर्तव्यं नग्नः स्थानविवर्जितः । पश्चात्तापे सुसंलीनः सा लज्जा परिकथ्यते
कस्य लज्जा प्रकर्तव्या द्वितीयो नास्ति सर्वदा । एकश्च पुरुषो दिव्यः कस्य किंचिन्न नाशयेत्
अथ लोकान्प्रवक्ष्यामि ये त्वया परिकीर्तिताः । यथा कुलालकश्चक्रे मृत्पिंडं च निधापयेत्
भ्रामयित्वा तु सूत्रेण नानाभेदान्प्रकाशयेत् । भांडानां तु सहस्राणि स्वेच्छया मतिसंस्थितः
तथायं सृजते धाता नानारूपाणि नान्यथा । पश्चाद्विनाशमायांति येनकेनापि हेतुना
सर्वदैव स्थिता ये च ये लोकाश्च सनातनाः । तेषां लज्जा प्रकर्तव्या नावर्तंते हि ते भुवि
आकाशवायुतेजांसि पृथ्वी चापश्च पंचमः । अमी लोकाः प्रकाशंते ये च सर्वत्र संस्थिताः
सत्त्वानामंगदेशेषु पंचैतेषु सुसंस्थिताः । सर्वत्रैव च वर्तंते कस्य लज्जा विधीयते
स्त्रीणां रूपं प्रवक्ष्यामि श्रूयतां तात सांप्रतम् । यथाघटसहस्रेषुसोदकेषुविराजते
एकश्चंद्रो हि सर्वत्र भवांस्तद्वद्विराजते । गतो जंतुसहस्रेषु मोहचक्रे महात्मवान्
स्थावरेषु च सर्वेषु जंगमेषु तथा भवान् । योनिद्वारेण पापेन मायामोहमयेन वै
कुचाभ्यां च नितंबाभ्यां वयसा च विराजते । हृन्मांसस्याधिका वृद्धिर्दृष्टा चात्र न संशयः
पतनाय च लोकानां मोहरूपं विदर्शितम् । नभवत्येव सा नारी या त्वया परिकीर्तिता
लीलया कुरुते धाता विनोदाय सदात्मनः । यथा नार्यास्तथा पुंसो जीवः सर्वत्र संस्थितः
कुचयोनिविहीना ये जीवन्मुक्ताः सदैव हि । नरस्तु पुरुषः प्रोक्तो नारी प्रकृतिरुच्यते
रमते तेन वै सार्द्धं न मुक्ता हि कदाचन । भवान्प्रकृतिसंयुक्तः पुरुषेषु प्रदृश्यते
कः कस्य कुरुते लज्जामेवं ज्ञात्वा सुखं व्रज । वृद्धां स्त्रियं प्रवक्ष्यामि सदावृद्धां वरानने
त्वचा जर्जरतां याता यस्याप्यंगे वरानने । श्वेतैश्चैव तथाकेशैः पलितैश्च समाकुला
बलहीनाथ दीनापि व्यापिता वलिना तदा । नेयं वृद्धा भवेन्नारी परं वृद्धा च कथ्यते
एतस्या लक्षणं प्रोक्तं युवतीं प्रवदाम्यहम् । ज्ञानेन वर्द्धते नित्यं जीवपार्श्वे समाश्रिता
सुमतिर्नाम संप्रोक्ता सा वृद्धा युवतीति च । नारी पुरुषलोकेषु सर्वदैव प्रतिष्ठिता