गुह उवाच। कस्मात्सा कलुषा प्रोक्ता कस्मात्सा निर्मला मता । कस्मात्सा प्रेतसंचारा कस्माद्याम्या प्रकीर्तिता
सूत उवाच। इति स्कंदवचः श्रुत्वा भगवान्भूतभावनः । उवाच वचनं श्लक्ष्णं प्रहसन्वृषभध्वजः
महेश उवाच। पुरा वृत्रवधे वृत्ते प्राप्ते राज्ये पुरंदरे । ब्रह्महत्यापनोदार्थमश्वमेधः प्रवर्तितः
क्रोधादिंद्रेण वज्रेण ब्रह्महत्या निषूदिता । षड्विधा सा क्षितौ क्षिप्ता वृक्षतोयमहीतले
नार्यां भ्रूणहणिवह्नौ संविभज्य यथाक्रमम् । तत्पापश्रवणात्पूर्वं द्वितीयाया दिनेन च
नारीवृक्षनदीभूमिवह्निभ्रूणहनस्तथा । कलुषीभवनं जातो ह्यतोर्थं कलुषा स्मृता
मधुकैटभयो रक्ते पुरा मग्नानु मेदिनी । अष्टांगुला पवित्रा सा नारीणां तु रजोमलम्
नद्यः प्रावृण्मला सर्वा वह्निरूर्ध्वं मषीमलः । निर्यासमलिना वृक्षाः संगाद्भ्रूणहनो मलाः
कलुषानि चरंत्यस्यां तेनैषा कलुषा मता । देवर्षिपितृधर्माणां निंदका नास्तिकाः शठाः
तेषां सा वाङ्मलात्पूता द्वितीया तेन निर्मला । अनध्यायेषु शास्त्राणि पाठयंति पठंति च
सांख्यकास्तार्किकाः श्रौतास्तेषां शब्दापशब्दजात् । मलात्पूता द्वितीयायां ततोर्थे निर्मला च सा
कृष्णस्य जन्मना वत्स त्रैलोक्यं पावितं भवेत् । नभस्येते विनिर्दिष्टा निर्मला सा तिथिर्बुधैः
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा । पितॄन्पितामहान्प्रेतसंचारात्प्रेतसंचरा
प्रेतास्तु पितरः प्रोक्तास्तेषां तस्यां तु संचरः । पुत्रपौत्रेस्तुदौहित्रैः स्वधामंत्रैस्तु पूजिताः
श्राद्धदानमखैस्तृप्ता यांत्यतः प्रेतसंचरा । महालये तु प्रेतानां संचारो भुवि दृश्यते
तेनैषा प्रेतसंचारा कीर्तिता शिखिवाहन । यमस्य क्रियते पूजा यतोऽस्या पावके नरैः
तेनैषा याम्यका प्रोक्ता सत्यं सत्यं मयोदितम् । एतत्कार्तिकमाहात्म्यं ये शृण्वंति नरोत्तमाः
कार्तिकस्नानजं पुण्यं तेषां भवति निश्चितम्
कार्तिके च द्वितीयायां पूर्वाह्णे यममर्चयेत् । भानुजायां नरः स्नात्वा यमलोकं न पश्यति
कार्तिके शुक्लपक्षे तु द्वितीयायां तु शौनक । यमो यमुनया पूर्वं भोजितः स्वगृहेऽचितः
द्वितीयायां महोत्सर्गो नारकीयाश्च तर्पिताः । पापेभ्यो विप्रयुक्तास्ते मुक्ताः सर्वनिबंधनात्
आशंसिताश्च संतुष्टाः स्थिताः सर्वे यदृच्छया । तेषां महोत्सवो वृत्तो यमराष्ट्रसुखावहः
अतो यमद्वितीयेयं त्रिषुलोकेषु विश्रुता । तस्मान्निजगृहे विप्र न भोक्तव्यं ततो बुधैः
स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनं । दानानि च प्रदेयानि भगिनीभ्यो विधानतः
स्वर्णालंकारवस्त्राणि पूजासत्कारसंयुतम् । भोक्तव्यं सह जायाश्च भगिन्याहस्ततः परम्
सर्वासु भगिनीहस्ताद्भोक्तव्यं बलवर्द्धनम् । ऊर्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः
महिषासनमारूढो दंडमुद्गरभृत्प्रभुः । वेष्टितः किंकरैहृष्टैस्तस्मै याम्यात्मने नमः 6.122.
यैर्भगिन्यः सुवासिन्यो वस्त्रदानादि तोषिताः । न तेषां वत्सरं यावत्कलहो न रिपोर्भयम्
धन्यं यशस्यमायुष्यं धर्मकामार्थसाधनम् । व्याख्यातं सकलं पुत्र सरहस्यं मयानघ
यस्यां तिथौ यमुनया यमराजदेवः संभोजितः प्रतितिथौ स्वसृसौहृदेन । तस्मात्स्वसुः करतलादिह यो भुनक्ति प्राप्नोति वित्तशुभसंपदमुत्तमां सः