राज्यमेवं प्रकर्तव्यं सुखभोक्ता भविष्यति । तेषां तद्वचनं श्रुत्वा आत्मा दुःखेन पीडितः
गंतुमिच्छन्नसौ तस्मात्पलायनपरोभवत्
कश्यप उवाच- स गर्भे व्याकुलो जातः खिद्यमानो दिने दिने । दुःखाक्रांतो हि धर्मात्मा सर्वपीडाभिपीडितः
अधोमुखस्तु गर्भस्थो मोहजालेन बंधितः । आधिव्याधिसमाक्रांतो हाहाभूतो विचेतनः
दुःखेन महताविष्टो ज्ञानमाह प्रपीडितः । आत्मोवाच- तव वाक्यं महाप्राज्ञ न कृतं तु मया तदा
ध्यानेन वार्यमाणोपि पतितो मोहसंकटे । तस्माद्रक्ष महाप्राज्ञ गर्भवासात्सुदारुणात्
ज्ञानमुवाच- मया त्वं वारितो ह्यात्मन्कृतं वाक्यं न चैव मे । पंचात्मकैर्महाक्रूरैः पातितो गर्भसंकटे
इदानीं गच्छ त्वं ध्यानं तस्मात्संप्राप्स्यसे सुखम् । गर्भवासाद्भविष्यस्ते मोक्ष एव न संशयः
तस्य तद्वचनं श्रुत्वा ज्ञात्वा ज्ञानस्य तत्त्वताम् । ध्यानमाहूय प्रोवाच श्रूयतां वचनं मम
त्वामहं शरणं प्राप्तो ध्यान मां रक्ष नित्यशः । एवमस्तु महाप्राज्ञ ध्यानमाह महामतिम्
एतद्वाक्यं ततः श्रुत्वा आत्मा वै ध्यानमागतः । ध्यानेन हि समं गर्भे संस्थितो मोहवर्जितः
यदा ध्यानं गतो ह्यात्मा विस्मृतं गर्भजं भयम् । स द्वाभ्यां सहितस्तत्र आत्मा मोह विना कृतः
चिंतयन्नेव वै नित्यमात्मकं सुखमेव हि । इतो निष्क्रांतमात्रस्तु त्यजे पंचात्मकं वपुः
एवं चिंतयते नित्यं गर्भवासगतः प्रभुः । सूतिकाले तु संप्राप्ते प्राजापत्ये वरानने
वायुना चलितो गर्भः प्राणेनापि बलीयसा । योनिर्विकासमायाति चतुर्विंशांगुलं तदा
पंचविंशांगुलो गर्भस्तेन पीडा विजायते । एवं संपीड्यमानस्तु मूर्च्छया मूर्च्छितः प्रिये
पतितो भूमिभागे तु ज्ञानध्यानसमन्वितः । प्राजापत्येन दिव्येन वायुना स पृथक्कृतः
भूमिसंस्पर्शमात्रेण ज्ञानध्याने तु विस्मृते । संसारबंधसंदिग्ध आत्मा प्रियतया स्थितः
गुणदोषसमाक्रांतो महामोहसमन्वितः । खाद्यं पानादिकं सर्वमिच्छत्येव दिनेदिने
एवं संपुष्यमाणस्तु आत्मा पंचात्मकैः सह । व्यापितो हींद्रियैः सर्वैर्विषयैः पापकारिभिः
बांधवानां समोहेन भार्यादीनां तथैव च । आकुलव्याकुलो देवि जायते च दिनेदिने
महामोहेन संदिग्धो मोहजालगतः प्रभुः । कैवर्तेन यथा बद्धः शकुलो जालबंधनैः
चलितुं नैव शक्तोस्ति तथात्मासीत्प्रबंधितः । मोहजालैस्तु तैः सर्वैर्दृढबंधैस्तु बंधितः
एवमादिप्रपंचेन व्यापितो व्यापकेन हि । ज्ञानविज्ञानविभ्रष्टो रागद्वेषादिभिर्हतः
कामेन पीड्यमानस्तु क्रोधेनैव तथैव वा । प्रकृत्या कर्मणाबद्धो महामूढो व्यजायत
सूत उवाच- एवं मूढो यदात्मासौ कामक्रोधवशंगतः । लोभरागादिभिः सर्वैर्व्यापृतस्तैर्दुरात्मभिः
इयं भार्या ह्ययं पुत्र इदं मित्रमिदं गृहम् । एवं संसारजालेन महामोहेन बंधितः
पुत्रशोकादिभिर्दुःखैर्विविधैराकुलस्तदा । जरयाव्याधिभिश्चैव संग्रस्तश्चाधिभिस्तथा
एवमात्मा संप्रतप्तो दुःखमोहैः सुदारुणैः । अभिमानैर्मानभंगैर्नानादुःखैश्च खंडितः
वृद्धत्वेन तथा देवि शबलत्वेन पीडितः । दुःखं चिंतयते नित्यं हाहाभूतो विचेतनः