तत्र नेत्रावमात्यौ मे द्रव्यलब्धिप्रसाधकौ । एवं मयात्मव्यापारस्तवाग्रे कथितः परः
जलमुवाचः- सुतोषयाम्यहं नित्यममृतेन कलेवरम् । एवं मे तत्र व्यापारः कायपत्तनके प्रिये
अमात्यं रसनां विद्धि रसास्वादकरीं पराम् । नासिकोवाच- सुगंधेन परां पुष्टिं कायस्यापि करोम्यहम्
दुर्गंधं तु परित्यज्य काये गंधं प्रदर्शये । बुद्धियुक्ता महाभाग तस्याभावेन भाविता
स्वामिकार्याय कायेस्मिन्नहं तिष्ठामि निश्चला । गंधं मम गुणं विद्धि द्विविधं यत्प्रवर्तितम्
श्रवणावूचतुः- कार्याकार्यादिकं शब्दं लोकैरुक्तं शुभाशुभम् । शृणुयावः स्वकायस्थौ सत्यासत्ये प्रियाप्रिये
शब्दो हि मे गुणः प्रोक्तो मम व्यापारमेव हि । योजयामि न संदेहो यदा बुद्धिः प्रपूरयेत्
त्वगुवाच- पंचरूपात्मको वायुः शरीरेस्मिन्व्यवस्थितः
सबाह्याभ्यंतरे चेष्टां तेषां जानामि तत्त्वतः । शीतोष्णमातपं वर्षं वायोः स्फुरणमेव च
सर्वं जानामि संस्पर्शं संगश्लेषादिकं नृणाम् । स्पर्श एव गुणो मह्यमेतत्सत्यं वदाम्यहम्
एवं हि ते समाख्यातो मया व्यापार एव हि । नेत्रे ऊचतुः-। संसारे यानि रूपाणि भव्याभव्यानि सत्तम
यदा प्रेरयते बुद्धिस्तदा पश्याव नान्यथा । वसावः कायमध्ये वै रूपं गुणमिहावयोः
एवं व्यापारसंबंधः कायमध्ये महामते । जिह्वोवाच-। बुद्धियुक्ता अहं तात रसभेदान्विचारये
क्षारमम्लादिकं सर्वं नीरसं स्वादु चिंतये । व्यापारेण अनेनापि नित्ययुक्ता वसाम्यहम्
इन्द्रियाणां हि सर्वेषां बुद्धिरेषा प्रणायकः । एवं पंच समायातानींद्रियाणि प्रिये शृणु
स्वीयानि यानि कर्माणि कथयंति पुनः पुनः । अथ बुद्धिः समायाता तमुवाच महामतिम्
मद्विहीनो यदा कायस्तदा नश्यति नान्यथा । तस्मात्त्वं मां समास्थाय वर्त्तयस्व महामते
अथ कर्म समायातमात्मानमिदमब्रवीत् । अहं कर्म महाप्राज्ञ तव पार्श्वं समागतम्
त्वां प्रेषयाम्यहं तेन पथा येनेह गच्छसि । एवमाकर्ण्य तत्सर्वमात्मा प्रोवाच तान्प्रति
यूयं पंचात्मकैर्युक्ताः सर्वसाधारणाः किल । कस्मान्मैत्रं समिच्छंति तत्र पंचात्मकं प्रति
ब्रुवंतु कारणं सर्वे ममाग्रे सर्वमेव तत् । पंचात्मका ऊचुः-। अस्मत्संगप्रसंगेन पिंडमेव प्रजायते
तस्मिन्पिंडे महाबुद्धे भवान्वसति सुव्रतः । तिष्ठामो हि वयं सर्वे प्रसादात्तव तत्र हि
एतस्मात्कारणान्मैत्रमिच्छामस्तव नित्यशः । आत्मोवाच- एवमस्तु महाभागा भवतां प्रियमेव च
करिष्ये नात्र संदेहो मैत्रं हि प्रीतिकारणात् । वार्यमाणो महाभागो ज्ञानेनापि महात्मना
ध्यानेन च महात्मासौ तेषां संगतिमागतः । स तैः प्रमोहितस्तत्र रागद्वेषादिभिस्तदा
पंचतत्त्वसमायुक्तः कायित्वं गतवान्प्रभुः । यदा गर्भं समायातो विष्ठामूत्रसमाकुले
दुर्गंधे पिच्छिलावर्ते पतितस्तैः स संयुतः । अंगेन व्याकुलीभूतः पंचात्मकानुवाच सः
भोभोः पंचात्मकाः सर्वे शृणुध्वं वचनं मम । भवतां संप्रसंगेन महादुःखेन मोहितः
तत्रास्मिन्पिच्छिले घोरे पतितो हि महाभये । पंचात्मका ऊचुः- तावत्संस्थीयतां राजन्यावद्गर्भः प्रपूरयेत्
पश्चान्निर्गमनं ते वै भविष्यति न संशयः । अस्माकं हि भवान्स्वामी कायदेशे व्यवस्थितः