तदाहात्मानमाराध्यमेतैः किं ते प्रयोजनम् । तत्त्वतो ब्रूहि मे देव सदा शुद्धोसि सर्वदा
आत्मोवाच- एते पंच महाभागा रूपवंतो मनस्विनः । गत्वा संदर्शयाम्येनानाभाष्ये ज्ञान श्रूयताम्
भव्यानेतान्प्रवक्ष्यामि पंचमीं गतिमागतान् । दूतत्वं गच्छ भो ज्ञान कुशलो दूतकर्मणि
ज्ञानमुवाच- त्वमात्मञ्छृणु मे वाक्यं सत्यं सत्यं वदाम्यहम् । एतेषां संगतिस्तात कार्या नैव त्वया कदा
पंचानामपि शुद्धात्मन्न कार्यं शुभमिच्छता । भवतः संगतिं मोह इच्छत्येष महामते
आत्मोवाच- एतेषां संगतिं ज्ञान कस्माद्वारयते भवान् । तन्मे त्वं कारणं ब्रूहि याथातथ्येन पंडित
ज्ञानमुवाच- एतेषां संगमात्रात्तु महद्दुःखं भविष्यति । दुःखमूला हि पंचैव शोकसंतापकारकाः
एवमस्तु महाप्राज्ञ करिष्ये वचनं तव । ज्ञानमाभाष्य स ह्यात्मा ध्यानेन सह संगतः
कश्यप उवाच- ततः पंचैव ते तत्राद्राक्षुरात्मानमेव तम् । बुद्धिमूचुः समाहूय संगच्छात्मानमेव हि
दूतत्वं कुरु कल्याणि अस्माकमात्मना सह । पंचतत्त्वा महात्मानो विश्वस्यधारकाः शुभाः
भवतो मैत्रमिच्छंति इत्याभाष्य महामतिम् । गत्वा बुद्धे त्वया कार्यं कर्तव्यं न इतो व्रज
एवमस्तु महाभागा करिष्ये कार्यमुत्तमम् । एवमाभाषितं तेषां गत्वाऽहात्मानमेव तम्
अहं बुद्धिर्महाभाग भवंतं समुपागता । दूतत्वे महतां पार्श्वात्तेषां त्वं वचनं शृणु
भवन्मैत्रीं समिच्छंति अक्षयां पंच आत्मकाः । कुरु मैत्रीं महाप्राज्ञ जहि ध्यानं सुदूरतः
ध्यानमुवाच- न कर्तव्यं त्वया चात्मन्नैतेषां वै समागमम् । एषां संसर्गमात्रेण महद्दुःखं भविष्यति
मया ज्ञानेन हीनस्त्वं कथं कर्म करिष्यति । एवमेव न कर्तव्यं तेषां चैव समागमम्
गर्भवासं नयिष्यंति भवंतं नान्यथा विभो । ज्ञानेनैव मया हीनो अज्ञानं यास्यसि ध्रुवम्
एवमुक्त्वा तमात्मानं विरराम महामतिम् । ततस्तामागतां बुद्धिमात्मा प्रोवाच निश्चितः
ज्ञानध्यानौ महात्मानौ मंत्रिणौ मम शोभनौ । तत्र यानं न मे युक्तं तद्बुद्धे किं करोम्यहम्
एवं श्रुत्वा ततो बुद्धिस्तेषां पार्श्वे यशस्विनी । समाचष्ट समग्रं तत्कथनं ज्ञानध्यानयोः
ततस्ते पंचकाः सर्वे आत्मानं प्रतिजग्मिरे । मैत्रीमेव प्रतीच्छामो भवतो नित्यमेव हि
यस्माच्छुद्धोसि लोकेश तस्मात्त्वां समुपागताः । स्वयमेव विचार्यैव उत्तरं नः प्रदीयताम्
आत्मोवाच- यूयं पंचैव संप्राप्ता मम मैत्रं समिच्छथ । स्वीयं गुणं प्रभावं च कथयंतु ममाग्रतः
भूमिरुवाच- सर्वकार्यस्य संस्थानं चर्ममांससमन्वितम् । अस्थिमूलदृढत्वं मे नखलोमसमन्वितम्
प्रभावो हि महाप्राज्ञ कायमध्ये ममैव हि । नासिकागमनो गंधस्स मे भृत्यो महामनाः
आकाश उवाच- अहमाकाशकः प्राप्तो मम काये प्रभावकम् । श्रूयतामभिधास्यामि परब्रह्मस्वरूपिणम्
बाह्यांतरावकाशश्च शून्यस्थाने वसाम्यहम् । तत्रामात्यौ तु कर्णौ मे श्रवणार्थं प्रतिष्ठितौ
वायुरुवाच- पंचरूपेण तिष्ठामि करोम्येवं शुभाशुभम् । चर्मकायेस्थितोमात्यः स्पर्शं संश्रयते गुणम्
तेज उवाच- काये संस्थः सदा नित्यं पाकयोगं करोम्यहम् । सबाह्याभ्यंतरं सर्वं द्रव्याद्रव्यं प्रदर्शये
शुक्रं मज्जा तथा लाला एवं त्वक्संधिसंस्थितम् । रुधिरं प्रेषयाम्येव कायमध्ये स्थितोस्म्यहम्