अभिमानेन दुःखेन मानभंगेन सत्तम । महादुःखेन संतप्ता करिष्ये प्राणमोचनम्
कश्यप उवाच- श्रूयतामभिधास्यामि यथा शांतिर्भविष्यति । न कः कस्य भवेत्पुत्रो न माता न पिता शुभे
न भ्राता बांधवः कस्य न च स्वजनबांधवाः । एवं संसारसंबंधो मायामोहसमन्वितः
स्वयमेव पिता देवि स्वयं माताथ बांधवाः । स्वयं स्वजनवर्गश्च स्वयं धर्मः सनातनः
आचारेण नरो देवि सुखित्वमुपजायते । अनाचारेण पापेन नाशं याति तथा ध्रुवम्
क्रूरयोनिं प्रयात्येवं नरो देवि न संशयः । कर्मणा सत्यहीनेन महापापेन मोहतः
रिपुत्वे वर्त्तते मर्त्यः प्राणिनां नित्यसंस्थितः । रिपवस्तस्य वर्तन्ते यत्र तत्र न संशयः
मैत्रेण वर्तते मर्त्यो यदा लोके प्रिये शुभे । तदा तस्य भवंत्येव मित्राः सर्वत्र भामिनि
कृषिकारो यदा देवि छन्नं बीजं सुसंस्थितम् । यादृशं तु भवत्येव तादृशं फलमश्नुते
तथा तव च पुत्रैश्च साधुभिः स्पर्धितं सह । कर्मणस्तस्य तत्प्राप्तं फलं भुंक्ष्व सुसंस्थितम्
तव पुत्रा महाभागे तपः शांति विवर्जिताः । तेन पापेन ते सर्वे पतिता वै महत्पदात्
एवं ज्ञात्वा शमं गच्छ मुंच दुःखं सुखं तथा । कस्य पुत्राश्च मित्राणि कस्य स्वजन बांधवाः
आत्मकर्मानुसारेण सुखं जीवंति जंतवः । परार्थे चिंतनं देवि तत्त्वज्ञानेन पंडिताः
न कुर्वंति महात्मानो व्यर्थमेव न संशयः । पंचभूतात्मकं कायं केवलं संधिजर्जरम्
आत्ममित्रं कृतं तेन सर्वं देवि सुखाशया । आत्मा नाम महापुण्यः सर्वगः सर्वदर्शकः
सर्वसिद्धिस्तु सर्वात्मा सात्विकः सर्वसिद्धिदः । एवं सर्वमयो देवि भ्रमत्येको निरञ्जनः
भ्रमता निर्जने येन मूर्तिमंतो द्विजोत्तमाः । चत्वारो दर्शिताः पुण्या मूर्तिमंतो महौजसः
पंचमः श्वसनश्चैव पूर्वाणां मित्रमेव च । अथो आत्मा समायातो ज्ञानसाहाय्यमेव वा
स तान्दृष्ट्वा महात्मा वै ज्ञानमात्मा समब्रवीत् । ज्ञान पश्य अमी पंच मंत्रयंतः परस्परम्
एतान्गत्वाब्रवीहि त्वं यूयं क इति पृच्छ ह । ज्ञानं वाक्यं परं श्रुत्वा सार्थं तस्य महात्मनः
तदाहात्मानमाराध्यमेतैः किं ते प्रयोजनम् । तत्त्वतो ब्रूहि मे देव सदा शुद्धोसि सर्वदा
आत्मोवाच- एते पंच महाभागा रूपवंतो मनस्विनः । गत्वा संदर्शयाम्येनानाभाष्ये ज्ञान श्रूयताम्
भव्यानेतान्प्रवक्ष्यामि पंचमीं गतिमागतान् । दूतत्वं गच्छ भो ज्ञान कुशलो दूतकर्मणि
ज्ञानमुवाच- त्वमात्मञ्छृणु मे वाक्यं सत्यं सत्यं वदाम्यहम् । एतेषां संगतिस्तात कार्या नैव त्वया कदा
पंचानामपि शुद्धात्मन्न कार्यं शुभमिच्छता । भवतः संगतिं मोह इच्छत्येष महामते
आत्मोवाच- एतेषां संगतिं ज्ञान कस्माद्वारयते भवान् । तन्मे त्वं कारणं ब्रूहि याथातथ्येन पंडित
ज्ञानमुवाच- एतेषां संगमात्रात्तु महद्दुःखं भविष्यति । दुःखमूला हि पंचैव शोकसंतापकारकाः
एवमस्तु महाप्राज्ञ करिष्ये वचनं तव । ज्ञानमाभाष्य स ह्यात्मा ध्यानेन सह संगतः
कश्यप उवाच- ततः पंचैव ते तत्राद्राक्षुरात्मानमेव तम् । बुद्धिमूचुः समाहूय संगच्छात्मानमेव हि
दूतत्वं कुरु कल्याणि अस्माकमात्मना सह । पंचतत्त्वा महात्मानो विश्वस्यधारकाः शुभाः