कस्य पुत्रा हि संसारे कस्य देवी सुबांधवाः । नास्तिकस्येह केनापि तत्सर्वं श्रूयतां प्रिये
दक्षस्यापि सुता यूयं सुन्दर्यश्चैव मामकाः । भवतीनामहं भर्ता कामनापूरकः शुभे
योजकः पालकश्चैव रक्षकोस्मि वरानने । कस्माद्वैरं कृतं क्रूरैरसुरैरजितात्मभिः
तव पुत्रा महाभागे सत्यधर्मविवर्जिताः । तेन दोषेण ते सर्वे तव दोषेण वै शुभे
निहता वासुदेवेन दैवतैस्तु निपातिताः । तस्माच्छोको न कर्तव्यः सत्यमोक्षविनाशनः
शोको हि नाशयेत्पुण्यं क्षयात्पुण्यस्य नश्यति । तस्माच्छोकं परित्यज विघ्नरूपं वरानने
आत्मदोषप्रभावेण दानवा मरणं गताः । देवा निमित्तभूताश्च नाशिताः स्वेन कर्मणा
एवं ज्ञात्वा महाभागे समागच्छ सुखं प्रति । एवमुक्त्वा महायोगी तां प्रियां दुःखभागिनीम्
विषादाच्च निवृत्तोसौ विरराम महामतिः
दितिरुवाच- सत्यमुक्तं त्वया नाथ सर्वमेव न संशयः । भर्तृस्नेहं परित्यज्य गता सापत्न्यजं द्विज
अभिमानेन दुःखेन मानभंगेन सत्तम । महादुःखेन संतप्ता करिष्ये प्राणमोचनम्
कश्यप उवाच- श्रूयतामभिधास्यामि यथा शांतिर्भविष्यति । न कः कस्य भवेत्पुत्रो न माता न पिता शुभे
न भ्राता बांधवः कस्य न च स्वजनबांधवाः । एवं संसारसंबंधो मायामोहसमन्वितः
स्वयमेव पिता देवि स्वयं माताथ बांधवाः । स्वयं स्वजनवर्गश्च स्वयं धर्मः सनातनः
आचारेण नरो देवि सुखित्वमुपजायते । अनाचारेण पापेन नाशं याति तथा ध्रुवम्
क्रूरयोनिं प्रयात्येवं नरो देवि न संशयः । कर्मणा सत्यहीनेन महापापेन मोहतः
रिपुत्वे वर्त्तते मर्त्यः प्राणिनां नित्यसंस्थितः । रिपवस्तस्य वर्तन्ते यत्र तत्र न संशयः
मैत्रेण वर्तते मर्त्यो यदा लोके प्रिये शुभे । तदा तस्य भवंत्येव मित्राः सर्वत्र भामिनि
कृषिकारो यदा देवि छन्नं बीजं सुसंस्थितम् । यादृशं तु भवत्येव तादृशं फलमश्नुते
तथा तव च पुत्रैश्च साधुभिः स्पर्धितं सह । कर्मणस्तस्य तत्प्राप्तं फलं भुंक्ष्व सुसंस्थितम्
तव पुत्रा महाभागे तपः शांति विवर्जिताः । तेन पापेन ते सर्वे पतिता वै महत्पदात्
एवं ज्ञात्वा शमं गच्छ मुंच दुःखं सुखं तथा । कस्य पुत्राश्च मित्राणि कस्य स्वजन बांधवाः
आत्मकर्मानुसारेण सुखं जीवंति जंतवः । परार्थे चिंतनं देवि तत्त्वज्ञानेन पंडिताः
न कुर्वंति महात्मानो व्यर्थमेव न संशयः । पंचभूतात्मकं कायं केवलं संधिजर्जरम्
आत्ममित्रं कृतं तेन सर्वं देवि सुखाशया । आत्मा नाम महापुण्यः सर्वगः सर्वदर्शकः
सर्वसिद्धिस्तु सर्वात्मा सात्विकः सर्वसिद्धिदः । एवं सर्वमयो देवि भ्रमत्येको निरञ्जनः
भ्रमता निर्जने येन मूर्तिमंतो द्विजोत्तमाः । चत्वारो दर्शिताः पुण्या मूर्तिमंतो महौजसः
पंचमः श्वसनश्चैव पूर्वाणां मित्रमेव च । अथो आत्मा समायातो ज्ञानसाहाय्यमेव वा
स तान्दृष्ट्वा महात्मा वै ज्ञानमात्मा समब्रवीत् । ज्ञान पश्य अमी पंच मंत्रयंतः परस्परम्
एतान्गत्वाब्रवीहि त्वं यूयं क इति पृच्छ ह । ज्ञानं वाक्यं परं श्रुत्वा सार्थं तस्य महात्मनः