तत्र युद्धं महज्जातं दैत्यसंक्षयकारकम् । देवैश्च विष्णुना युद्धे मम पुत्रा निपातिताः
तथैव तव पुत्रास्ते देवदेवेन चक्रिणा । वने गतान्यथा सिंहो द्रावयेत्स्वेन तेजसा
तथा ते मामकाः पुत्रा निहताः शङ्खपाणिना । कालनेमिमुखं सैन्यं दुर्जयं ससुरासुरैः
नाशितं मर्दितं सर्वं द्रावितं विकलीकृतम् । स्वैरर्चिभिर्यथा वह्निस्तृणानि ज्वालयेद्वने
तथा दैत्यगणान्सर्वान्निर्दहत्येव केशवः । मम पुत्रा मृता देवि बहुशस्तव नंदनाः
वह्निं प्राप्य यथा सर्वे शलभा यांति संक्षयम् । तथा ते दानवाः सर्वे हरिं प्राप्य क्षयं गताः
एवमेतं हि वृत्तांतं दितिः शुश्राव दारुणम् । दितिरुवाच- वज्रपातोपमं भद्रे वदस्येवं कथं मम
एवमाभाष्य तां देवी मूर्च्छिता निपपात ह । हा हा कष्टमिदं जातं बहुदुःखं प्रतापकम्
रुरोद करुणं साथ पुत्रशोकसुपीडिता । तां दृष्ट्वा स मुनिश्रेष्ठ उवाच वचनं शुभम्
मा रोदिषि च भद्रं ते नैवं शोचंति त्वद्विधाः । सत्ववंतो महाभागे लोभमोहेन वर्जिताः
कस्य पुत्रा हि संसारे कस्य देवी सुबांधवाः । नास्तिकस्येह केनापि तत्सर्वं श्रूयतां प्रिये
दक्षस्यापि सुता यूयं सुन्दर्यश्चैव मामकाः । भवतीनामहं भर्ता कामनापूरकः शुभे
योजकः पालकश्चैव रक्षकोस्मि वरानने । कस्माद्वैरं कृतं क्रूरैरसुरैरजितात्मभिः
तव पुत्रा महाभागे सत्यधर्मविवर्जिताः । तेन दोषेण ते सर्वे तव दोषेण वै शुभे
निहता वासुदेवेन दैवतैस्तु निपातिताः । तस्माच्छोको न कर्तव्यः सत्यमोक्षविनाशनः
शोको हि नाशयेत्पुण्यं क्षयात्पुण्यस्य नश्यति । तस्माच्छोकं परित्यज विघ्नरूपं वरानने
आत्मदोषप्रभावेण दानवा मरणं गताः । देवा निमित्तभूताश्च नाशिताः स्वेन कर्मणा
एवं ज्ञात्वा महाभागे समागच्छ सुखं प्रति । एवमुक्त्वा महायोगी तां प्रियां दुःखभागिनीम्
विषादाच्च निवृत्तोसौ विरराम महामतिः
दितिरुवाच- सत्यमुक्तं त्वया नाथ सर्वमेव न संशयः । भर्तृस्नेहं परित्यज्य गता सापत्न्यजं द्विज
अभिमानेन दुःखेन मानभंगेन सत्तम । महादुःखेन संतप्ता करिष्ये प्राणमोचनम्
कश्यप उवाच- श्रूयतामभिधास्यामि यथा शांतिर्भविष्यति । न कः कस्य भवेत्पुत्रो न माता न पिता शुभे
न भ्राता बांधवः कस्य न च स्वजनबांधवाः । एवं संसारसंबंधो मायामोहसमन्वितः
स्वयमेव पिता देवि स्वयं माताथ बांधवाः । स्वयं स्वजनवर्गश्च स्वयं धर्मः सनातनः
आचारेण नरो देवि सुखित्वमुपजायते । अनाचारेण पापेन नाशं याति तथा ध्रुवम्
क्रूरयोनिं प्रयात्येवं नरो देवि न संशयः । कर्मणा सत्यहीनेन महापापेन मोहतः
रिपुत्वे वर्त्तते मर्त्यः प्राणिनां नित्यसंस्थितः । रिपवस्तस्य वर्तन्ते यत्र तत्र न संशयः
मैत्रेण वर्तते मर्त्यो यदा लोके प्रिये शुभे । तदा तस्य भवंत्येव मित्राः सर्वत्र भामिनि
कृषिकारो यदा देवि छन्नं बीजं सुसंस्थितम् । यादृशं तु भवत्येव तादृशं फलमश्नुते
तथा तव च पुत्रैश्च साधुभिः स्पर्धितं सह । कर्मणस्तस्य तत्प्राप्तं फलं भुंक्ष्व सुसंस्थितम्