पुण्ये तिथौ तथा ऋक्षे सुमुहूर्ते महात्मभिः । इंद्रत्वे स्थापितो देवैरभिषिक्तः सुमंगलैः
प्राप्तमैंद्रपदं तेन प्रसादात्तस्य चक्रिणः । तपश्चकार तेजस्वी वसुदत्तः सुरेश्वरः
उग्रेण तेजसा युक्तो वज्रपाशांकुशायुधः
सूत उवाच- उग्रं समस्तं तपसः प्रभावं विलोक्य शुक्रो निजगाद गाथाम् । लोकेषु कोन्यो न भविष्यतीति यथा हि चायं च सुदर्शनीयः
विष्णोः प्रसादान्न परो महात्मा संप्राप्तमैश्वर्यमिहैव दिव्यम्
अनेन तुल्यो न भविष्यतीति लोकेषु चान्यस्तपसोग्रवीर्यः
सूत उवाच- कश्यपस्य च भार्यान्या दनुर्नाम तपस्विनी । पुत्रशोकेन संतप्ता संप्राप्ता दितिमंदिरम्
रोदमाना प्रणम्यैव पादपद्मयुगं तदा । दुःखेन महता प्राप्ता दितिस्तां प्रत्यबोधयत्
दितिरुवाच- तवैव हि महाभागे किमिदं रोदकारणम् । पुत्रिण्यश्चैकपुत्रेण लोके नार्यो भवंति वै
भवती शतपुत्राणां गुणिनामपि भामिनि । माता त्वमसि कल्याणि शुंभादीनां महात्मनाम्
कस्माद्दुःखं त्वया प्राप्तमेतन्मे कारणं वद । हिरण्यकशिपू राजा हिरण्याक्षो महाबलः
यस्याः पुत्रौ महात्मानौ महाबलपराक्रमौ । कस्माद्दुःखं महज्जातं तस्माच्चैव सखे वद
आख्याहि कारणं सर्वं यस्माद्रोदिषि सांप्रतम् । एवमाभाष्य तां देवीं विरराम मनस्विनी
दनुरुवाच- पश्य पश्य महाभागे सपत्न्याश्च मनोरथम् । परिपूर्णं कृतं तेन देवदेवेन चक्रिणा
यथापूर्वं वरो दत्तो ह्यदित्यै देवि विष्णुना । तथेदानीं च पुत्राय तस्या दत्तो वरो महान्
कश्यपाद्विश्रुतो जातस्त्रैलोक्यपालकः सुतः । इंद्रत्वं तस्य वै दत्तं तव पुत्राद्विहृत्य च
मनोरथैस्तु संपूर्णा अदितिः सुखवर्द्धिनी । कनीयान्वसुदत्तश्च तस्याः पुत्रश्च संप्रति
ऐंद्रं पदं सुदुष्प्राप्यं देवैः सार्द्धं भुनक्ति च । दितिरुवाच- कस्मात्पदात्परिभ्रष्टो मम पुत्रो महामतिः
अन्ये च दानवा दैत्यास्तेजोभ्रष्टाः कथं सखे । तस्य त्वं कारणं ब्रूहि विस्तरेण यशस्विनि
तामाभाष्य दितिर्वाक्यं विरराम सुदुःखिता । दनुरुवाच- देवाश्च दानवाः सर्वे सक्रोधाः संगरं गताः
तत्र युद्धं महज्जातं दैत्यसंक्षयकारकम् । देवैश्च विष्णुना युद्धे मम पुत्रा निपातिताः
तथैव तव पुत्रास्ते देवदेवेन चक्रिणा । वने गतान्यथा सिंहो द्रावयेत्स्वेन तेजसा
तथा ते मामकाः पुत्रा निहताः शङ्खपाणिना । कालनेमिमुखं सैन्यं दुर्जयं ससुरासुरैः
नाशितं मर्दितं सर्वं द्रावितं विकलीकृतम् । स्वैरर्चिभिर्यथा वह्निस्तृणानि ज्वालयेद्वने
तथा दैत्यगणान्सर्वान्निर्दहत्येव केशवः । मम पुत्रा मृता देवि बहुशस्तव नंदनाः
वह्निं प्राप्य यथा सर्वे शलभा यांति संक्षयम् । तथा ते दानवाः सर्वे हरिं प्राप्य क्षयं गताः
एवमेतं हि वृत्तांतं दितिः शुश्राव दारुणम् । दितिरुवाच- वज्रपातोपमं भद्रे वदस्येवं कथं मम
एवमाभाष्य तां देवी मूर्च्छिता निपपात ह । हा हा कष्टमिदं जातं बहुदुःखं प्रतापकम्
रुरोद करुणं साथ पुत्रशोकसुपीडिता । तां दृष्ट्वा स मुनिश्रेष्ठ उवाच वचनं शुभम्
मा रोदिषि च भद्रं ते नैवं शोचंति त्वद्विधाः । सत्ववंतो महाभागे लोभमोहेन वर्जिताः